| YouTube Channel

रिप्रः (ripraH)

 
शब्दकल्पद्रुमः
Sanskrit
रिप्रः, त्रि, (रीङ् स्रवण + “लीङ्रीङो ह्रस्वश्च पुट्चतरौ श्लेषणकुत्सितयोः ।” उणा० ५५ ।इति रप्रत्ययः धातोर्ह्नस्वः प्रत्ययस्य पुट् ।)अधमः इति सिद्धान्तकौमुद्यामुणादिवृत्तिः
(यथा, ऋग्वेदे ७८ ।“गृभ्णाति रिप्रमविरस्य तान्वा ।”“रिप्रं अनुपादेयत्वेन पापरूपम्
इतितद्भाष्ये सायणः
क्ली,
पापम् यथा, ऋग्वेदे ।१० १७ १० ।“विश्वं हि रिप्रं प्रवहन्ति देवीः
”“देवीर्देव्यः देवनशीला आपः विश्वं सर्व्वं विप्रंपापं प्रवहन्ति पुरुषसकाशात् प्रगमयन्तिअपनयन्तीति यावत् ।” इति तद्भाष्ये सायणः
)