| YouTube Channel

राहुचक्रं (rAhucakraM)

 
शब्दकल्पद्रुमः
Sanskrit
राहुचक्रं,
क्ली,
(राहोश्चक्रम् ।) रव्यादिसप्त-वारेषु अश्वगत्या वामावर्त्तेन यामार्द्धं प्राप्यसप्तदिक्षु राहोर्गमनम् यथा, --“पश्चादर्के विधौ वह्नौ सौम्यां ज्ञे वायवे कुजे ।रक्षोदिशि भृगौ याम्यां गुरावीशे शनौ दिने ।राहुर्भ्रमति यामार्द्धादश्वगत्या वामतः
द्यूते युद्धे विवादे यात्रायां सम्मुखं स्थितम् ।राहुं विवर्ज्जयेद्यत्नाद्यदीच्छेत् कर्म्मणः फलम्
”इति सत्कृत्यमुक्तावली
*
राहुकालानलचक्रं यथा, --“तस्य चक्रं प्रवक्ष्यामि राहुकालानलाख्यकम् ।शलाकासप्तकं चक्रं ईशादौ कृत्तिकादिकाः
यत्र ऋक्षे स्थितो राहुर्वदनं तद्विनिर्द्दिशेत्
मुखात् पञ्चदशे ऋक्षे तस्य पुच्छं व्यवस्थितम् ।अष्टोत्तरशतं ख्याता जायन्ते यत्र केतवः
व्याप्य तस्थुर्ज्जगत् सर्वं सहस्रार्कसमत्विषः ।राहुभुक्तानि ऋक्षाणि जीवपक्षे त्रयोदश
त्रयोदशैव भोग्यानि मृतपक्षे प्रकीर्त्तयेत् ।मृतपक्षे मुखं तस्य गुदं जीवाङ्गमध्यगम्
एवमङ्गद्वयो राहुर्ज्ञातव्यः स्वरपारगैः ।जीवपक्षे क्षपानाथे मृतपक्षे रवौ स्थिते ।तस्मिन् काले शुभा यात्रा विपरीते तुहानिदा
”इति स्वरोदयः