| YouTube Channel

रासमण्डलं (rAsamaNDalaM)

 
शब्दकल्पद्रुमः
Sanskrit
रासमण्डलं,
क्ली,
(रासस्य मण्डलम् ।) श्रीकृष्णस्यरासक्रीडास्थलम् तद्विवरणम् यथा, --“तस्मादुपरि गोलोकः पञ्चाशत्कोटियोजने ।वायुना धार्य्यमाणश्च विचित्रपरमाश्रयः
अतीवरम्यनिर्म्माणो नित्यरूपो मदीच्छया ।शतशृङ्गेण शैलेन पुण्यवृन्दावनेन
सुरासमण्डलेनापि नद्या विरजयावृतः ।कोटियोजनविस्तीर्णा प्रस्थेन विरजा व्रज
दैर्घ्ये तस्य शतगुणा परितः परमा शुभा ।अमूल्यरत्ननिकरा हीरामाणिक्ययोस्तथा
मणीनां कौस्तुभादीनामसंख्यानां मनोहरा ।अमूल्यरत्ननिर्म्माणं तत्रापि प्रतिमन्दिरम्
मनोहरञ्च प्राकारमदृष्टं विश्वकर्म्मणा ।गोपीभिर्गोपनिकरैर्वेष्टितं कामधेनुभिः
कल्पवृक्षैः पारिजातैरसंख्यैश्च सरोवरैः ।पुष्पोद्यानैः सुकोटिभिः संवृतं रासमण्डलम्
वेष्टितं चेष्टितैर्गोपैर्मन्दिरैः शतकोटिभिः ।रत्नप्रदीपयुक्तैश्च पुष्पतल्पसमन्वितैः
सुगन्धिचन्दनामोदैः कस्तूरीकुङ्कुमान्वितैः ।क्रीडोपयुक्तैर्भोगैश्च ताम्बूलैर्वासितैर्जलैः
धूपैः सुरभिरम्यैश्च माल्यैश्च रत्नदर्पणैः ।रक्षकै रक्षितैः शश्वद्राधादासीत्रिकोटिभिः
अमूल्यरत्नाभरणैर्व्वह्निशुद्धांशुकैरपि ।लक्षमत्तगजेन्द्राणां वेष्टितैश्च बलैः क्रमात्
नवयौवनसम्पन्नै रूपैर्निरुपमैरपि ।रम्यञ्च वर्त्तुलाकारं चन्द्रविम्बं यथा व्रज
अमूल्यरत्नरचितं दशयोजनविस्तृतम् ।कस्तूरीकुङ्कुमै रम्यैः सुगन्धिचन्दनार्च्चितैः
आवृतं मङ्गलघटैः फलपल्लवसंयुतैः ।दधिलाजैश्च पर्णैश्च स्निग्धदूर्व्वाङ्कुरैः फलैः
श्रीरामकदलीस्तम्भैरसंख्यैश्च मनोहरैः ।पट्टसूत्रनिबद्धैश्च स्निग्धैश्चन्दनपल्लवैः
चन्दनासक्तमाल्यैश्च भूषणैश्च विभूषितम् ।अमूल्यरत्नरचितं शतशृङ्गं मनोहरम्
कोटियोजनमूर्द्ध्वञ्च दैर्घ्यं दशगुणोत्तरम् ।शैलप्रस्थं परिमितं पञ्चाशत्कोटियोजनम्
अतीवकमनीयञ्च वेदेऽनिर्व्वचनीयकम् ।प्राकारमिव तस्यापि गोलोकस्य मनोहरम्
परितो वेष्टितं रम्यं हीराहारसमन्वितम् ।तत्र वृन्दावनं रम्यं युक्तं चन्दनपादपैः
कल्पवृक्षैश्च रम्यैश्च मन्दारैः कामधेनुभिः ।शोभितं शोभनाढ्यञ्च पुष्पोद्यानैर्मनोहरैः
क्रीडासरोवरै रम्यैः सुरम्यै रतिमन्दिरैः ।अतीवरम्यं रहसि रासयोग्यस्थलान्वितम्
रक्षितं रक्षकै रम्यैरसंख्यैर्गोपिकागणैः ।परितो वर्त्तुलाकारं त्रिलक्षयोजनं वनम्
षट्पदध्वनिसंयुक्तं पुंस्कोकिलरुतान्वितम् ।तत्राक्षयवटो रम्यो रहस्येव हि विस्तृतः
सहस्रयोजनोर्ड्घश्च परितश्च चतुर्गुणः ।गोपीनां कल्पवृक्षैश्च सर्व्ववाञ्छाफलप्रदः
क्रीडान्वितैरावृतश्च राधादासीत्रिलक्षकैः ।विरजातीरनारीणां यमुनाशीतलेन
पुष्पान्वितेन मान्द्येन पवित्रश्च सुगन्धिना ।दासीगणैरसंख्यैश्च वृन्दावनविनोदिनी
तत्र क्रीडति सा राधा मम प्राणाधिदेवता
सेयं श्रीदामशापेन वृषभानुसुताधुना ।ब्रह्मादिदेवैः सिद्धेन्द्रैर्मुनीन्द्रैः पूजिता व्रज
”इति ब्रह्मवैवर्त्ते भगवन्नन्दसंवादे श्रीकृष्णजन्म-खण्डे ८४ अध्यायः