रावणः (rAvaNaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiरावणः
- -
"एक प्रसिद्ध राक्षस, लंका का राजा, राक्षसों का मुखिया "
वैजयन्तीकोषः
SanskritWord: रावणः
Root: रावण
Gender: पुं
Number: all
अर्थः ⇒ लङ्काधिपतिः विश्वश्रवसः पुत्रः
Meaning(s):
⇒ King of the Rakṣasas
Shloka(s):
1|2|42|1 ► अलक्ष्मीर्निरृतिर्ज्येष्ठा रावणस्तु हरानतः। (स्वर्गकाण्डः/लोकपालाध्यायः)
1|2|42|2 ► दशास्यो विंशतिभुजश्चतुष्पान्मानमन्दिरः॥ (स्वर्गकाण्डः/लोकपालाध्यायः)
1|2|43|1 ► लङ्केश्वरो यातुपतिः सन्नाहोऽस्य विचोलकः। (स्वर्गकाण्डः/लोकपालाध्यायः)
Synonym(s):
➠ 1|2|42|1 ⇢ रावणः (रावण) (पुं) ⇒ King of the Rakṣasas ⇒ लङ्काधिपतिः विश्वश्रवसः पुत्रः
➠ 1|2|42|1 ⇢ हरानतः (हरानत) (पुं) ⇒ Epithet of Rāvaṇa ⇒ लङ्काधिपतिः विश्वश्रवसः पुत्रः
➠ 1|2|42|2 ⇢ दशास्यः (दशास्य) (पुं) ⇒ Epithet of Rāvaṇa ⇒ लङ्काधिपतिः विश्वश्रवसः पुत्रः
➠ 1|2|42|2 ⇢ विंशतिभुजः (विंशतिभुज) (पुं) ⇒ Epithet of Rāvaṇa ⇒ लङ्काधिपतिः विश्वश्रवसः पुत्रः
➠ 1|2|42|2 ⇢ चतुष्पात् (चतुष्पाद्) (पुं) ⇒ Epithet of Rāvaṇa ⇒ लङ्काधिपतिः विश्वश्रवसः पुत्रः
➠ 1|2|42|2 ⇢ मानमन्दिरः (मानमन्दिर) (पुं) ⇒ Epithet of Rāvaṇa ⇒ लङ्काधिपतिः विश्वश्रवसः पुत्रः
➠ 1|2|43|1 ⇢ लङ्केश्वरः (लङ्केश्वर) (पुं) ⇒ Epithet of Rāvaṇa ⇒ लङ्काधिपतिः विश्वश्रवसः पुत्रः
➠ 1|2|43|1 ⇢ यातुपतिः (यातुपति) (पुं) ⇒ Epithet of Rāvaṇa ⇒ लङ्काधिपतिः विश्वश्रवसः पुत्रः
Related word(s):
जातिः ➡ देवयोनिः
स्व_स्वामीसंबन्धः ➡ विचोलकः
जन्य_जनकसंबन्धः ➡ इन्द्रजित्
Tamil
Tamilராவண: : இராவணன்.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritरावणः, (रवणस्यापत्यमिति । रवण +“शिवादिभ्योऽण् ।” ४ । १ । ११२ । इतिअण् । यद्वा, रावयति भीषयति सर्व्वानिति ।रु + णिच् + ल्युः ।) लङ्काधिपतिः । तत्पर्य्यायः ।पौलस्त्यः २ रक्षः ३ लङ्केशः ४ दशकन्धरः ५ ।इति हेमचन्द्रः ॥
दशकण्ठः ६ निकषात्मजः ७राक्षसेन्द्रः ८ लङ्केशः ९ पङ्क्तिग्रीवः १० दशा-ननः ११ । इति शब्दरत्नावली ॥
लङ्कापतिः १२दशास्यः १३ । इति जटाधरः ॥
(अस्यनिरुक्तिर्यथा, रामायणे ।“यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् ।तस्मात्त्वं रावणो नाम नाम्ना वीरो भवि-ष्यसि ॥
”)तस्योत्पत्तिनाशौ यथा, --सूत उवाच ।“मानवस्य नरैष्यन्त आसीत् पुत्त्रो दमः किल ।नवमस्तस्य दायादस्तृणबिन्दुरिति स्मृतः ॥
तस्य कन्या इडविडा रूपेणाप्रतिमा भुवि ।पुलस्त्याय स राजर्षिस्तां कन्यां प्रव्यपादयत् ॥
ऋषिरैडविडो यस्यां विश्रवाः समपद्यत ।तस्य पत्न्यश्चतस्रश्च पूर्व्वा वै देववर्णिनी ॥
ज्येष्ठं वैश्रवणं यज्ञे कुरूपं देववर्णिनी ।त्रिपादं सुमहाकायं स्थूलशीर्षं महाहनुम् ॥
अष्टदंष्ट्रं हरिश्मश्रुं शङ्कुकर्णविलोहितम् ।पिङ्गलं नाम संदृश्य पिता तस्याब्रवीत्ततः ॥
कुत्सायान्तु कुशब्दोऽयं शरीरञ्चेदमुच्यते ।कुशरीरत्वाच्च नाम्ना तेन वै स कुवेरकः ॥
ऋध्यां कुवेरो जनयद्विश्रुतं नलकूरम् ॥
रावणं कुम्भकर्णञ्च कन्यां सूर्पणखां तथा ।विभीषणं चतुर्थन्तु नैकष्यजनयत् सुतम् ॥
शङ्कुकर्णो दशग्रीवः पिङ्गलो रक्तमूद्धजः ।चतुष्पाद्विं शतिभुजो महाकायो महाबलः ॥
जात्यञ्जननिभो मर्द्दलोहितग्रीव एव च ।निसर्गाद्दारुणः क्रूरः स रावण इति स्मृतः ॥
हिरण्यकशिपुस्त्वासीत् स राजा पूर्व्वजन्मनि ॥
चतुर्युगानां राजा तु त्रयोदश स राक्षसः ॥
ताः पञ्चकोट्यो वर्षाणां संख्याताः संख्ययाद्बिजैः ।नियुतानामेकषष्टिः संख्याविद्भिरुदाहृताः ॥
षष्टिश्चैव सहस्राणि वर्षाणां हि स रावणः ।देवतानां पितॄणाञ्च घोरं कृत्वा प्रजागरम् ॥
त्रेतायुगे चतुर्थांशे रावणस्तपसः क्षयात् ।रामं दाशरथं प्राप्य सगणः क्षयमीयिवान् ॥
”इति वह्निपुराणे वाराहप्रादुर्भावनामाध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
