| YouTube Channel

राजादनी (rAjAdanI)

 
शब्दकल्पद्रुमः
Sanskrit
राजादनी,
स्त्री,
(राजभिरद्यते या अद् +कर्म्मणि ल्युट् ङीप् ।) वृक्षविशेषः क्षीरिणीइति भाषा तत्पर्य्यायः राजफलः क्षीर-वृक्षः नृपद्रुमः निम्बबीजः मधुफलः ६कपीष्टः माधवोद्भवः क्षीरी गुच्छ-फलः १० भूपेष्टः ११ राजवल्लभः १२ श्रीफलः १३दृढस्कन्धः १४ क्षीरशुक्लः १५ अस्या गुणाः ।मधुरत्वम् पित्तनाशित्वम् गुरुत्वम् तर्पण-त्वम् वृष्यत्वम् स्थौल्यकरत्वम् हृद्यत्वम् ।सुस्निग्धत्वम् मेहनाशित्वञ्च इति राज-निर्घण्टः
अपि ।“क्षीरिकायाः फलं वृष्यं बल्यं स्निग्धं हिमं गुरु ।तृष्णामूर्च्छामदभ्रान्तिक्षयदोषत्रयास्रजित्
”इति भावप्रकाशः