| YouTube Channel

राजादनं (rAjAdanaM)

 
शब्दकल्पद्रुमः
Sanskrit
राजादनं,
क्ली,
(राजभिरद्यते इति अद भक्षणे+ कर्म्मणि ल्युट् ।) क्षीरिका पियालः ।किंशुकः इति मेदिनी ने, २०५
(यथा, सुश्रुते ४६ लवणवर्गे ।“दाडिमामलकं द्राक्षा खर्ज्जूरं सपरूषकम् ।राजादनं मातुलुङ्गं फलवर्गे प्रशस्यते
”पुंलिङ्गान्तोऽपि दृश्यते इत्यमरः ४५
हेमचन्द्रश्च २०८
क्षीरिकार्थे पर्य्यायोयथा, --“राजादनः क्षीरवृक्षः पालाशी वानरप्रियः
”इति वैद्यकरत्नमालायाम्
किंशुकार्थे पर्य्यायो यथा, --“वातपोथः पलाशः स्याद्वानप्रस्थश्च किंशुकः ।राजादनो ब्रह्मवृक्षो हस्तिकर्णो दलोऽपरः
”)