| YouTube Channel

राजघः (rAjaghaH)

 
शब्दकल्पद्रुमः
Sanskrit
राजघः, त्रि, तीक्ष्णः इति त्रिकाण्डशेषः
(राजानं हन्तीति हन् + “राजघ उप-संख्यानम् ।” ५५ इत्यस्य वार्त्तिकोक्त्याकप्रत्ययेन साधु ।) राजहन्ता यथा, --“अनल्पदग्धारिपुरानलोज्ज्वलै-र्निजप्रतापैर्व्वलयं ज्वलद्भुवः ।प्रदक्षिणीकृत्य जयाय सृष्टयारराज नीराजनया राजघः
”इति नैवधे १०