| YouTube Channel

राजकं (rAjakaM)

 
शब्दकल्पद्रुमः
Sanskrit
राजकं,
क्ली,
(राज्ञां समूहः राजन् + “गोत्रोक्षो-ष्ट्रोरभ्रराजेति ।” ३९ इति वुञ् ।) नृप-समूहः इत्यमरः
यथा, मार्क-ण्डेये १०९ ।“हृष्टपुष्टमतीवासीत् तस्मिन् राजन्यशेषतः ।राजकं सकलं चोर्व्व्यां पौरजानपदो जनः
”राजन् + स्वार्थे कन् ।) राजनि,
पुं,
(यथा, हरिवंशे भविष्यपर्व्वणि २४ ।“तवाङ्गं तिलशः कृत्वा श्वभ्यो दास्यामि राजक
”राज् + ण्वुल् ।) दीप्तिकारके, त्रि