| YouTube Channel

रसोनकः (rasonakaH)

 
Wordnet
Sanskrit
Synonyms:
लशुनम्, रशुनम्, लशूनम्, लसुनम्, रसुनम्, रसोनः, रसोनकः, गृञ्जनः, महौषधम्, महाकन्दः, अरिष्टः, सोनहः, उग्रगन्धः, दीर्घपत्रः, ग्रन्थमूलम्, श्रीमस्तकः, मुखदूषणः, राहूच्छिष्टम्, तरिता
noun
कन्दविशेषः- यः उपस्करे उपयुज्यते।
"सीता सागार्थे मरिचलशुनादीनां खण्डनं करोति।"
Synonyms:
लशुनम्, रसुनः, महौषधम्, गृञ्जनः, अरिष्टः, महाकन्दः, रसोनकः, रसोनः, म्लेच्छकन्दः, भूतघ्नः, उग्रगन्धः
noun
एकः क्षुपः यद् व्यञ्जनरूपेण उपयुज्यते अस्य गुणाः ऊनत्वम्, गुरुत्वम्, उष्णत्वम्, कफवातनाशित्वम्, अश्रुचित्वम्, क्रिमिहृद्रोगशोहघ्नत्वम् रसायनत्वञ्च
"तिक्तिकां निर्मातुं सः क्षेत्रात् हरितं लशुनं औन्मूलयत्।"
शब्दकल्पद्रुमः
Sanskrit
रसोनकः,
पुं,
(रसोन + स्वार्थे कन् ।) रसुनः ।तत्पर्य्यायः ।“लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् ।अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः
”तस्योत्पत्तिर्यथा, --“यदामृतं वैनतेयो जहार सुरसत्तमात् ।तदा ततोऽपतद्बिन्दुः भुरसोनोऽभवद्भुवि
पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्ज्जितः ।तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः
”अस्यावयवगुणाः ।“कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः ।नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः ।बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः
”अस्य भक्षणगुणाः ।“रसोनो बृंहणो वृष्यो स्निग्धोष्णः पाचनः सरः ।रसे पाके कटुकस्तीक्ष्णो मधुरको मतः
भग्नसन्धानकृत् कण्ठ्यो गुरुः पित्तास्रवृद्धिदः ।बलवर्णकरो मेधाहितो नेत्र्यो रसायनः
हृद्रोगजीर्णज्वरकुक्षिशूल-विबन्धगुल्मारुचिकासशोफान् ।दुर्नामकुष्ठानलसादजन्तु-समीरणश्वासकफांश्च हन्ति
मद्यं मांसं तथाम्लञ्च हितं लशुनसेविनाम्
व्यायाममातपं रोषमतिनीरपयो गुडम् ।रसोनमश्नन् पुरुषस्त्यजेदेतन्निरन्तरम्
”इति भावप्रकाशः
(तथास्यान्या विवृतिर्यथा, --“अमृतमथने जातः सुरासुरग्रहो महान् ।जहार वैनतेयश्च चञ्चुना त्रिदिवं गतः
संग्रामश्रमसम्प्राप्ते श्रमवेगप्रधाविते ।आरूढे वैक्लवं प्राप्ते च्युता ह्यमृतबिन्दवः
सकृत् सन्दूषिते देहे पतितास्तत्र संस्थिताः ।तस्मात् कालवशाज्जातं दुर्भिक्षं द्बादशाब्दि-कम्
विशुष्काः कानने सर्व्वा वृक्षकाण्डप्रतानिकाः ।तस्माच्च कानने सर्व्वे प्रकृष्टं गहनं गताः
तेषां मध्ये जराग्रस्तो गतिहीनोऽतिजर्ज्जरः ।सयष्टिः सरणिक्षुण्णः शीर्णदन्तावलीमुखः
सव्यक्तस्थैः क्षुधापन्नैः ऋषिभिस्तत्र विश्रुतः ।सोऽपि क्षुधातुरः सर्व्वां पर्य्यट्त्युर्व्वरां महीम्
कुत्रचित् पुण्ययोगेन दृष्टवान् विटपान् शुभान् ।नीलशैवालसङ्काशान् शाद्बलान् बहुलान्भुवि ।क्षुधासंपीडनेनापि भुक्तवान् साद्वलानपि
षण्मासानन्तरे शुष्कान् विटपान् तदनन्तरम् ।भुक्तवान् कन्दकान् सोऽपि मासमेकं तथाऋषिः
पश्चात् सुभिक्षे सञ्जाते सर्व्वे चैकत्र संस्थिताः ।सोऽपि वृद्धो युवा भूत्वा गतस्तत्र यत्र ते
तं दृष्ट्वा विस्मयापन्नाः पप्रच्छुः किं कृतं त्वया ।नोक्तवान् सोऽपि किञ्चिच्च रुषा तैः शापित-स्ततः
यत्त्वया स्वादितं द्रव्यं तदभक्ष्यं द्बिजातिभिः ।दुर्गन्धमपि चित्रञ्च तस्माज्जातं रसोनकम्
”“तेन रसोनकं नाम विख्यातं भुवनत्रये ।कुक्कुटाण्डनिभं ग्रीष्मे शीर्णपर्णं समुद्धरेत्
बद्ध्वा पुटे सुनिर्गुप्तं धारयेत्तन्महामते ।दीप्ताग्निदर्शनात्तेन म्रियते दीर्य्यते भुवि
वर्षासु शिशिरे चैव कारयेन्मात्रया युतम् ।रामठं जीरके द्वे अजमोदाकटुत्रयम्
घृतसौवर्च्चलोपेतं वातरोगे विशेषतः ।मातुलुङ्गरसेनापि शूलानाहे प्रकीर्त्तितः
”इति हारीते कल्पस्थाने तृतीयेऽध्याये
अस्यान्यत् द्विजाभक्ष्यत्वकारणादिकं रसोनशब्देद्रष्टव्यम्
)