| YouTube Channel

रसातलं (rasAtalaM)

 
शब्दकल्पद्रुमः
Sanskrit
रसातलं,
क्ली,
(रसायाः तलं निम्नभागस्थलोक-विशेषः ।) पातालम् इत्यमरः
(यथा, महाभारते १२ ३४७ ५६ ।“जग्राह वेदानखिलान् रसातलगतो हरिः
”)पातालभेदः यथा, --“अतलं वितलञ्चैव नितलञ्च तलातलम्
महातलञ्च सुतलं सप्तमञ्च रसातलम्
पातालभेदाः सप्तैव नामतः कीर्त्तिता अमी ।तत्र पातालमेकैकं दशसाहस्रयोजनम्
”इति शब्दमाला
(इदमेव निवातकवचानां निवासस्थानम् ।तथा देवीभागवते २० -- १२ ।“ततोऽधस्ताच्च विवरे रसातलसमाह्वये ।दैतेया निवसन्त्येव पणयो दानवाश्च ये
निवातकवचा नाम हिरण्यपुरवासिनः ।कालेया इति प्रोक्ताः प्रत्यनीका हवि-र्भुजाम्
महौजसश्चोत्पत्त्यैव महासाहसिनस्तथा ।सकलेशस्य हरेस्तेजसा हतविक्रमाः
विलेशया इव सदा विवरे निवसन्ति हि ।ये वै वाग्भिः सरमया शक्रदूत्या निरन्तरम्
मन्त्रवर्णाभिरसुरास्ताडिता विभ्यति स्म
”)