| YouTube Channel

रविचक्र (ravicakra)

 
Monier Williams Cologne
English
रवि—चक्र
n.
a partic. astronomical diagram (the sun represented as a man carrying the stars on the various parts of his body),
GāruḍaP.
शब्दकल्पद्रुमः
Sanskrit
रविचक्रं,
क्ली,
(रवेश्चक्रम् ।) नराकारसूर्य्यचक्र-विशेषः यथा, --“लिख्यते रविचक्रन्तु भास्करो नरसन्निभः
यस्मिन्नृक्षे भवेत् सूर्य्यस्तत्रादौ त्रीणि मस्तके ।त्रयं वक्त्रे प्रदातव्यमेकैकं स्कन्धयोर्न्यसेत्
एकैकं बाहुयुग्मे तु एकैकं हस्तयोर्द्बयोः ।हृदये पञ्च ऋक्षाणि एकं नाभौ प्रदापयेत्
ऋक्षमेकं ददेद्गुह्ये एकैकं जानुके न्यसेत् ।नक्षत्राणि शेषाणि रविपादे नियोजयेत्
चरणस्थेन ऋक्षेण अल्पायुर्जायते नरः ।विदेशगमनं जानौ गुह्यस्थे परदारवान्
नाभिस्थेनाल्पसन्तुष्टो हृत्स्थेन स्यान्महेश्वरः ।पाणिस्थेन भवेच्चौरः स्थानभ्रष्टो भवेद्भुजे
स्कन्धस्थिते धनपतिर्म्मुखे मिष्टान्नमाप्नुयात् ।मस्तके पट्वबन्धस्तु नक्षत्रं स्याद्यदि स्थितम्
”इति गारुडे ६० अध्यायः