| YouTube Channel

रमणकं (ramaNakaM)

 
शब्दकल्पद्रुमः
Sanskrit
रमणकं,
क्ली,
(रमन्ते लोका अत्र रम् + ल्युट् ।संज्ञायां कन् ।) जम्बुद्बीपान्तर्गतवर्षविशेषः ।स तु रम्यकवर्षः यथा, --“एवमेवोत्तरे त्रीणि वर्षाणि तपोधन ।कुरुवर्षं सिन्धुकूलात् शृङ्गवानवधिः स्मृतः
हिरण्मयं ततो वर्षं श्वेतावधि निगद्यते ।रम्यकञ्च ततो वर्षं नीलस्तस्यावधिः स्मृतः
”अपि ।शेष उवाच ।“दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु ।वर्षं रमणकं नाम जायन्ते तत्र मानवाः
शुक्लाभिजनसम्पन्नाः सर्व्वे सुप्रियदर्शनाः ।दशवर्षसहस्राणि शतानि दश पञ्च ।जीवन्ति ते महाभाग नित्यं मुदितमानसाः
”इति पाद्मे भूखण्डे १२८ २२९ अध्यायौ
(अन्यत् रम्यकशब्दे द्रष्टव्यम्
वीतिहोत्रस्यपुत्त्रभेदः यथा, भागवते २० ३१ ।“तद्द्वीपस्याधिपतिः प्रैयवतो वीतिहोत्रो नामतस्यात्मजौ रमणकधातकनामानौ वर्षपतीनियुज्य स्वयं पूर्व्वजवद्भगवत्कर्म्मशील एवास्ते
”)