| YouTube Channel

रमणं (ramaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
रमणं,
क्ली,
(रमयतीति रम् + णिच् + ल्युः ।)पटोलमूलम् इति मेदिनी
जघनम् इतिहेमचन्द्रः
(रम् + भावे ल्युट् ।) जम्भनम् ।तत्पर्य्यायः अब्रह्मचर्य्यकम् ग्राम्यधर्म्मः ३सुरतम् रतम् संप्रयोगः निधुवनम् ७मैथुनम् रतिः उपसृष्टम् १० धर्षितम् ११क्रीडारत्नम् १२ महासुखम् १३ त्रिभद्रम् १४योगमिथुनम् १५ अभिमानितम् १६ इतिशब्दरत्नावली
(यथा, माघे ११ १९ ।विकच कमलगन्धैरन्धयन् भृङ्गमालाःसुरभितमकरन्दं मन्दमावाति वातः ।प्रमदमदनमाद्याद्यौवनोद्दामरामा-रमणरभसखेदस्वेदविच्छेददक्षः
”)क्रीडनम् इति रमधात्वर्थदर्शनात्
(रत्यु-त्पादनम् यथा, भागवते १० १३ ।“रामेति लोकरमणाद्बलं बलवदुच्छ्रयात्
”“लोकस्य रमणात् रत्यत्पादनात् ।” इति तत्रस्वामी
वनविशेषः यथा, हरिवंशे १५५ २१ ।“भाति चैत्रवनञ्चैव नन्दनञ्च वनं महत् ।रमणं भावनं चैव वेणुमद्वै समन्ततः
”)