| YouTube Channel

रन्धितं (randhitaM)

 
शब्दकल्पद्रुमः
Sanskrit
रन्धितं,
क्ली,
(रध् + क्त ।) कृतरन्धनद्रव्यम् ।तस्य पात्रान्तरे स्थापनविधिर्यथा, --“सङ्कीर्णे पात्रसम्भारे मार्गे वा ग्रामवर्ज्जिते ।स्थापयेद्गुणवान् सूदः सिद्धान्नं पात्रकान्तरे
भक्तं स्वपावके स्थाप्यं स्थाप्यं पात्रकान्तरे
घृतं काष्ठायसे स्थाप्यं मांसं मांसभवं रसम् ।स्थापयेद्राजते हैमे पात्रे लौहेऽथ काष्ठजे ।पत्रादिषड्विधं शाकं स्थाप्यं काष्ठाश्मलौहजे ।पक्वान्नं पिष्टकं भक्ष्यं स्थाप्यं कांस्येऽथ दारुजे
धारयेत् सुशृतं क्षीरं पार्थिवे वाथ काष्ठजे ।पानीयं पायसं तक्रं मृण्मयेष्वेव धारयेत्
काचजे स्फाटिके वाथ वैदूर्य्यादिविचित्रिते ।धारयेत् सर्व्वदा पात्रे रागषाडवशट्टकान्
उक्तपात्रान्तरे स्थाप्यं तद्द्रव्यं तद्द्रुजापहम् ।सर्व्वदा सुखदं हृद्यमन्यथा दोषकारकम्
”इति सूपकारशास्त्रे पाकराजेश्वरः