| YouTube Channel

रतं (rataM)

 
शब्दकल्पद्रुमः
Sanskrit
रतं,
क्ली,
(रमणमिलि रम् + भावे क्तः ।)मैथुनम् इत्यमरः ५७
(यथा, आर्य्यासप्तशत्याम् ५४९ ।“विपरीतमपि रतं ते स्रोतो नद्या इवानुकूल-मिदम् ।तटतरुमिव मम हृदयं समूलमपि वेगतोहरति
”तत्तु द्बिविधम् यथा, कामशास्त्रम् ।“बाह्यमाभ्यन्तरञ्चेति द्बिविधं रतमुच्यते ।तत्राद्यं चुम्बनाश्लेषनखदन्त क्षतादिकम्
द्बितीयं सुरतं साक्षान्नानाकारेण कल्पितम्
”)गुह्यम् इति मेदिनी ते, ४९
अनुरक्ते, त्रि
(यथा, राजतरङ्गिण्याम् ५०५ ।“तत्तुल्यगुणनिर्व्विण्णा तद्बिपक्षस्तुतौ रता
”नियुक्तः यथा, मनुः २३५ ।“यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् ।तेष्वेव नित्यं शुश्रूषां कुर्य्यात् प्रियहिते रतः
”)