| YouTube Channel

यौगिकः (yaugikaH)

 
Wordnet
Sanskrit
Synonyms:
यौगिकः, यौगिका, यौगिकम्
adjective
योगसम्बन्धी।
"महात्मा यौगिकीं साधनां करोति।"
शब्दकल्पद्रुमः
Sanskrit
यौगिकः, त्रि, (योगाय प्रभवतीति योग +“योगाद्यच्च ।” १२९ इति ठञ् ।)प्रकृतिप्रत्यययोगलभ्यार्थवाचकः यथा योगायप्रभवति इति योग्यः यौगिकः इति सिद्धान्त-कौमुदी
“योगरूढाश्च रूढाश्च यौगिका-श्चेति ते त्रिधा आदितेयादिशब्दा यौगिकाःअदितेरपत्यानीति ढक्प्रत्ययेन केवलं योगार्थएव ।” इत्यलङ्कारकौस्तुभे किरणः
*
(“यौगिकं नाम लक्षयति विभजते ।‘योगलभ्यार्थमात्रस्य बोधकं नाम यौगिकम् ।समासस्तद्धिताक्तञ्च कृदन्तञ्चेति तत्त्रिधा
’यन्नाम स्वान्तर्न्निविष्टशब्दानां योगलभ्यस्यैवयादृशार्थस्यान्वयबोधं प्रतिहेतुस्तन्नाम तादृ-शार्थे यौगिकम् योगरूढन्तु कृष्णसर्पादिपदंयोगेनावच्छिन्नस्य रूढ्यर्थस्य बोधकं तुतन्मात्रस्य तच्च यौगिकं त्रिविधं समास-स्तद्धिताक्तं कृदन्तञ्चेति द्वन्द्बोऽपि समासः स्वघ-टकशब्दानामाकाङ्क्षया लभ्यस्य धवखदिरा-द्यर्थस्यान्वयकोधकतया यौगिक एव सर्व्वञ्चेदंरूढान्यत्वेन विशेषणीयं नातः कृष्णसर्पादौवासुदेवादौ पङ्कजादौ योगरूढेऽतिप्रसङ्गः ।ब्राह्मणी श्वश्रूः शूद्रेत्यादौ ङीबादेः स्त्रीत्व-वाचित्वे तादृशं नाम यौगिकमेव अन्यथा तुस्त्रीत्वादिमति तत्तदर्थे रूढमेव नातो विभा-गस्य व्याघातः
यौगिकेषु समासं लक्षयति ।‘यादृशस्य महावाक्यस्यान्तस्त्वादिर्न्निजार्थके ।यादृशार्थस्य धीहेतुः समासस्तदर्थकः
’यादृशमहावाक्योत्तरस्त्वतलादिः स्वार्थस्य यादृ-शार्थावच्छिन्नविषयताशालिबोघे हेतुस्तादृशंतद्वाक्यं तथाविधार्थे समासः पाचकादिकन्तुपाककर्त्ताद्यर्थकं वाक्यमपि स्वघटकानेकनामलभ्यतादृशार्थकत्वविरहान्न महावाक्यम् प्रकृ-त्यर्थमात्रावच्छिन्नप्रत्ययार्थस्यान्वयबोधं प्रत्ययो-ग्यत्वं वा प्रकृते वाक्यस्य महत्त्वं वाच्यम् तेनउपकुम्भादौ नाव्याप्तिर्न्नवा नीलघटत्वत्वमित्यादौनीलघटत्वादिभागेऽतिप्रसङ्गः क्षीरपायीत्यादि-कस्तु प्रकृत्यर्थावच्छिन्नकृदर्थस्यान्वयबोधे समर्थो-ऽपि प्रकृत्यर्थमात्रावच्छिन्नस्य ततः पानशीलसामान्यस्याप्रत्ययात् राज्ञः पुरुषत्वमित्या-दितो राजन्येव पुरुषभावः प्रतीयते तु राज-पुरुषस्य भावः तद्धितानां प्रकृत्यर्थमात्रान्वितस्वार्थबोधकत्वादतो राज्ञः पुरुषेत्यादिभागे नप्रसङ्गः पायंपायमित्यादिणमन्तभागस्तु स्वार्था-वच्छिन्नस्य धात्वन्तरार्थस्यैवान्वयबोधको तुत्वादिप्रत्ययार्थस्य प्रस्थायेत्यादौ समासव्यप-देशोल्यवादिशब्दसंस्कारप्रयोजनको गौणः
”* * * * * *“यौगिकेषु क्रमप्राप्तं तद्धिताक्तं नाम लक्षयति ।‘यन्नाम तद्धितं यच्च यत्क्रमं सद्यदर्थकम् ।यद्द्बयं यम्क्रमं तत्र तद्धिताक्तं निगद्यते
’यद्यपि नामोत्तरतद्धितत्वं तद्धितोत्तरनामत्वंवा प्रत्येकं बहुगुडो द्राक्षेत्यादौ दाक्षिरित्यादौचाव्यापकमेव तद्धिताक्ते नाम्नि तथापि यादृशंनाम यच्च तद्धितं यादृशानुपूर्ब्यवच्छिन्नं सद्या-दृशार्थस्यान्वयबोधे समर्थं तादृशानुपूर्ब्यवच्छिन्नंतद्द्बयमपि तादृशार्थे तद्धिताक्तं नामेत्यर्थःपचतितरामित्यादिकन्तु नामैव प्रागेव तुतद्धिताक्तं तस्यापि लक्ष्यत्वे यः शब्दस्तद्धितंयच्चेति पठनीयं टाबादेरपि तद्धितत्वोपगमा-दजाब्राह्मणीत्यादेर्नासंग्रह इति वदन्ति ।कृदन्तं नाम लक्षयति ।‘यद्धात्वर्थान्वितस्वार्थधीकृत् कृद्यादृशं भवेत् ।तद्धातूत्तरगं तत् कृत् कृदन्तं नाम तादृशम्
’यद्धात्वर्थान्वितस्वार्थान्वयबोधं प्रति यादृशानु-पूर्ब्यवच्छिन्नस्य यत्कृतो निश्चयः कारणं तद्धा-तूत्तरगं तत् कृदेव तादृशानुपूर्ब्यवच्छिन्नं सत्कृदन्तं नाम यथा पाठकपाठ्यमानादि तद्धिधात्वर्थेनान्वितस्य स्वार्थकर्त्तादेः कर्म्मत्वादा-वन्वयबोधं प्रति द्वितीयाद्यंशे तादृशानुपूर्व्वि-कत्वेनं निश्चीयमानं हेतुः चैत्रेण ग्रामस्यगन्तव्यमित्यादौ धात्वर्थे स्वार्थमिष्टसाधनत्वादिकंबोधयदपि तव्यादिकं धात्वर्थनिष्ठविषयतानिरू-पितस्वार्थविषयताकबोधजनकत्वेन धात्वर्था-न्वितस्वार्थकमेव भावकृतामपि स्वरूपार्थकत्वंव्युत्पादितमेव
इति शब्दशक्तिप्रकाशिका
अगुरुः तत्पर्य्यायो यथा, --“अयोगुरुः समुद्दिष्टो यौगिको लोहनामभिः
”इति गारुडे २०५ अध्यायः
)