| YouTube Channel

योनिः (yoniH)

 
Apte
English
योनिः [yōniḥ],
m.
f.
[यु-नि
Uṇ.*
4.51]
Womb, uterus, vulva, the female organ of generation.
Any place of birth or origin, generating cause, spring, fountain
स्वासु योनिषु शाम्यति
Ms.*
9.321
सा योनिः सर्ववैराणां सा हि लोकस्य निर्ऋतिः
U.*
5.3
जगद्योनिरयोनिस्त्वम्
Ku.*
2.9
4.43
oft
. at the end of
comp.
in the sense of 'sprung or produced from'
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते
Bg.*
5.22.
A mine.
An abode, a place, repository, seat, receptacle.
Home, lair.
A family, stock, race, birth, form of existence
as मनुष्ययोनि, पक्षि˚, पशु˚
&c.
The asterism पूर्वफल्गुनी.
Water.
The base (of a सामन्) i. e. the ऋक् which is set to music and sung as सामन्
योनिश्चासौ शस्या योनिशस्या ŚB. on MS.* 7.2.17.
Copper
L.
D. B.
The primary cause
कला पञ्चदशी योनिस्तद्धाम प्रतिबुध्यते
Mb.
* 12.34.4.
The source of understanding
एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता
Ms.*
2.25 (com. योनिर्ज्ञप्तिकारणं 'वेदो$खिलो धर्ममूलम्' इत्या- दिनोक्तमित्यर्थः).
Longing for, desire (वासना)
संसार- सागरगमां योनिपातालदुस्तराम्
Mb.
* 12.25.15.
Seed, grain. ˚पोषणम् the growing of seed.
Comp.
-गुणः the quality of the womb or place of origin. -ज
a.
born of the womb, viviparous. -देवता the asterism पूर्वफल्गुनी.
दोषः Sexual defilement.
A defect of the female organ. -नासा the upper part of the female organ. -भ्रंशः fall of the womb, prolapsus uteri. -मुक्त
a.
released from birth or being born again. -मुखम् the orifice of the womb. -मुद्रा a particular position of fingers. -रञ्जनम् the menstrual discharge. -लिङ्गम् the clitoris. -शस्या a Ṛigvedic verse which is both a योनि as well as a शस्या (q. v. )
योनिशस्याश्च तुल्यवदितराभिर्वि- धीयन्ते MS.* 7.2.17. -संवरणम्, -संवृत्तिः Contraction of the vagina. -संकटम् rebirth. -संकरः mixture of caste by unlawful intermarriage
कुले मुख्ये$पि जातस्य यस्य स्याद् योनिसंकरः
Ms.*
1.6. -सम्बन्धः relation by marriage, connection.
Apte 1890
English
योनिः m. f. [यु-नि Uṇ. 4. 51] 1 Womb, uterus, vulva, the female organ of generation.
2 Any place of birth or origin, generating cause, spring, fountain
सा योनिः सर्बवैराणां सा हि लोकस्य निरृतिः U. 5. 30
जगद्योनिरयोनिस्त्वं Ku. 2. 9, 4. 43
oft. at the end of comp. in the sense of ‘sprung or produced from’
Bg. 5. 22.
3 A mine.
4 An abode, a place, repository, seat, receptacle.
5 Home, lair.
6 A family, stock, race, birth, form of existence
as मनुष्ययोनि, पक्षि°, पशु° &c.
7 The asterism पूर्वफल्गुनी.
8 Water.
Comp.
गुणः the quality of the womb or place of origin.
a. born of the womb, viviparous.
देवता the asterism पूर्वफल्गुनी.
नासा the upper part of the female organ.
भ्रंशः fall of the womb, prolapsus uteri.
रंजनं the menstrual discharge.
लिंगं the clitoris.
संकरः mixture of easte by unlawful intermarriage
Ms. 10. 60.
संबंधः relation by marriage, connection.
Hindi
Hindi
जन्म के स्रोत
Apte Hindi
Hindi
योनिः
पुं*
/स्त्री* - यु + नि
"गर्भाशय, बच्चेदानी, भग, स्त्रियों की जननेन्द्रिय"
योनिः
पुं*
/स्त्री* - यु + नि
"जन्मस्थान, मूलस्थान, उद्गम, मूल, जननात्मक कारण, निर्झर, फौवारा"
योनिः
पुं*
/स्त्री* - यु + नि
खान
योनिः
पुं*
/स्त्री* - यु + नि
"आवास, स्थान, भाजन या पात्र, आसन, आधार"
योनिः
पुं*
/स्त्री* - यु + नि
"घर, मांद"
योनिः
पुं*
/स्त्री* - यु + नि
"कुल, गोत्र, वंश, जन्म, अस्तित्व का रूप"
योनिः
पुं*
/स्त्री* - यु + नि
जल
योनिः
पुं*
/स्त्री* - यु+नि
ऋग्वेद की वह आधारभूत ऋचा जिस पर ‘साम’ का निर्माण हुआ
योनिः
पुं*
/स्त्री* - यु+नि
तांबा
योनिः
पुं*
/स्त्री* - यु+नि
मूल कारण
योनिः
पुं*
/स्त्री* - यु+नि
समक्ष का स्रोत
योनिः
पुं*
/स्त्री* - यु+नि
इच्छा
Wordnet
Sanskrit
Synonyms:
योनिः
noun
यौति संयोजयतीति, प्राणिनामुत्पत्तिस्थानम्
"ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः सा योनिः सर्ववैराणां सा हि लाकस्य निर्ऋतिः"
Synonyms:
आकरः, खनिः, खनी, खानिः, खानी, खन्याकरः, गञ्जः, गञ्जा, गञ्जम्, कुल्या, योनिः
noun
रत्नाद्युत्पत्तिस्थानम्।
"अतिवृष्ट्या अङ्गारस्य आकरस्य जलपूरीतत्वात् तत्र शतजनाः हताः।"
Synonyms:
योनिः, गर्भकोशः, गर्भाशयः, गर्भस्थानम्, योनी, धरा, जरायुः, गर्भः, कोषः, मातृकुक्षिः, उल्वम्, कललः, कललम्, चत्वालः
noun
मनुष्यादीनां जरायुजाणां प्राणिनाम् उत्पत्तिस्थानम्। तच्च स्त्रीणाम् उदरस्थं शङ्खनाभ्याकारं त्र्यावर्तं स्थानम्। यस्य तृतीये आवर्ते गर्भशय्या प्रतिष्ठते।
"जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाणि भवन्ति।"
Synonyms:
जलम्, वारि, अम्बु, अम्भः, पयः, सलिलम्, सरिलम्, उदकम्, उदम्, जडम्, पयस्, तोयम्, पानीयम्, आपः, नीरम्, वाः, पाथस्, कीलालम्, अन्नम्, अपः, पुष्करम्, अर्णः, पेयम्, सलम्, संवरम्, शंवरम्, संम्बम्, संवत्सरम्, संववरः, क्षीरम्, पायम्, क्षरम्, कमलम्, कोमलम्, पीवा, अमृतम्, जीवनम्, जीवनीयम्, भुवनम्, वनम्, कबन्धम्, कपन्धम्, नारम्, अभ्रपुष्पम्, घृतम्, कं, पीप्पलम्, कुशम्, विषम्, काण्डम्, सवरम्, सरम्, कृपीटम्, चन्द्रोरसम्, सदनम्, कर्वुरम्, व्योम, सम्बः, सरः, इरा, वाजम्, तामरस, कम्बलम्, स्यन्दनम्, सम्बलम्, जलपीथम्, ऋतम्, ऊर्जम्, कोमलम्, सोमम्, अन्धम्, सर्वतोमुखम्, मेघपुष्पम्, घनरसः, वह्निमारकः, दहनारातिः, नीचगम्, कुलीनसम्, कृत्स्नम्, कृपीटम्, पावनम्, शरलकम्, तृषाहम्, क्षोदः, क्षद्मः, नभः, मधुः, पुरीषम्, अक्षरम्, अक्षितम्, अम्ब, अरविन्दानि, सर्णीकम्, सर्पिः, अहिः, सहः, सुक्षेम, सुखम्, सुरा, आयुधानि, आवयाः, इन्दुः, ईम्, ऋतस्ययोनिः, ओजः, कशः, कोमलम्, कोमलम्, क्षत्रम्, क्षपः, गभीरम्, गम्भनम्, गहनम्, जन्म, जलाषम्, जामि, तुग्र्या, तूयम्, तृप्तिः, तेजः, सद्म, स्रोतः, स्वः, स्वधा, स्वर्गाः, स्वृतिकम्, हविः, हेम, धरुणम्, ध्वस्मन्वतु, नाम, पवित्रम्, पाथः, अक्षरम्, पूर्णम्, सतीनम्, सत्, सत्यम्, शवः, शुक्रम्, शुभम्, शम्बरम्, वूसम्, वृवूकम्, व्योमः, भविष्यत्, वपुः, वर्वुरम्, वर्हिः, भूतम्, भेषजम्, महः, महत्, महः, महत्, यशः, यहः, यादुः, योनिः, रयिः, रसः, रहसः, रेतम्
noun
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
"जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ पेयम्।"
Synonyms:
गृहम्, गेहम्, उद्वसितम्, वेश्म, सद्म, निकेतनम्, निशान्तम्, नत्स्यम्, सदनम्, भवनम्, अगारम्, सन्दिरम्, गृहः, निकायः, निलयः, आलयः, वासः, कुटः, शाला, सभा, पस्त्यम्, सादनम्, आगारम्, कुटिः, कुटी, गेबः, निकेतः, साला, मन्दिरा, ओकः, निवासः, संवासः, आवासः, अधिवासः, निवसति, वसति, केतनम्, गयः, कृदरः, गर्तः, हर्म्यम्, अस्तम्, दुरोणे, नीलम्, दुर्याः, स्वसराणि, अमा, दमे, कृत्तिः, योनिः, शरणम्, वरूथम्, छर्दिछदि, छाया, शर्म, अजम्
noun
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
"गृहिण्या एव गृहं शोभते।"
Synonyms:
ए, योनिः
noun
वर्णविशेषः
"ए इति वर्णस्य ह्स्वः नास्ति"
Tamil
Tamil
யோனி: : கர்பப்பை, தோற்றுவாய், பெண் குறி, தோன்றும் இடம், பிறப்பிடம்.
शब्दकल्पद्रुमः
Sanskrit
योनिः,
पुं,
स्त्री,
(यौति संयोजयतीति यु +“वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ।” उणा०४ ५१ इति निः ।) आकरः इति मेदिनी ।ने, १६
कारणम् (यथा, उत्तरराम-चरिते ।“ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः ।सा योनिः सर्व्ववैराणां सा हि लोकस्यनिरृतिः
”)जलम् इति हेमचन्द्रः २४९
(कुश-द्बीपस्थनदीविशेषः यथा, मार्कण्डेये १२१ ७१ ।“धूतपापा नदी नाम योनिश्चैव पुनः स्मृता ।सीता द्वितीया विज्ञेया सा चैव हि निशा-स्मृता
”तन्त्रशास्त्रविशेषः यथा, महासिद्धिसारस्वते ।“सनत्कुमारकं तन्त्रं योनितन्त्रं प्रकीर्त्तितम् ।तन्त्रान्तरञ्च देवेशि ! नवरत्नेश्वरं तथा
”)प्राणिनामुत्पत्तिस्थानम् इति त्रिकाण्डशेषः
तत्तु चतुरशीतिलक्षप्रकारम् यथा, --“चतुरशीतिलक्षाणि चतुर्भेदाश्च जन्तवः ।अण्डजाः स्वेदजाश्चैव उद्भिज्जाश्च जरायुजाः
एकविंशतिलक्षाणि ह्यण्डजाः परिकीर्त्तिताः ।स्वेदजाश्च तथैवोक्ता उद्भिज्जास्तत्प्रमाणतः
जरायुजाश्च तावन्तो मनुष्याद्याश्च जन्तवः ।सर्व्वेषामेव जन्तूनां मानुषत्वं सुदुर्लभम्
”इति श्रीगरुडपुराणे प्रेतकल्पे धर्म्मप्रकटनो नाम२ अध्यायः
*
अन्यच्च ।“जलजा नव लक्षाणि स्थावरा लक्षविंशतिः ।कृमयो रुद्रसङ्ख्याकाः पक्षिणां दशलक्षकम्
त्रिंशल्लक्षाणि पशवश्चतुर्लक्षाणि मानुषाः ।सर्व्वयोनिं परित्यज्य ब्रह्मयोनिं ततोऽभ्यगात्
”इति बृहद्विष्णुपुराणम्
*
अपि ।“स्थावरास्त्रिंशल्लक्षश्च जलजो नवलक्षकः ।कृमिजा दशलक्षश्च रुद्रलक्षश्च पक्षिणः
पशवो विंशलक्षश्च चतुर्लक्षश्च मानवाः ।एतेषु भ्रमणं कृत्वा द्बिजत्वमुपजायते
”इति कर्म्मविपाकः
(“भूतानाञ्चतुर्व्विधा योनिर्भवति जराय्वण्ड-स्वेदोद्भिदः तासां खलु चतसृणामपि योनीना-मेकैका योनिरपरिसङ्ख्येयभेदा भवति भूता-नामाकृतिविशेषापरिसङ्ख्येयत्वात् तत्र जरा-युजानामण्डजानां प्राणिनामेते गर्भकरा भावायां यां योनिमापद्यन्ते तस्यां तस्यां योनौ तथातथा रूपा भवन्ति तद्यथा कनकरजतताम्र-त्रपुसीसा आसिच्यमानास्तेषु तेषु “मधूच्छिष्ट-विम्वेषु ते यदा मनुष्यविम्बमापद्यन्ते तदामनुष्यविग्रहेण जायन्ते तस्मात् समुदाया-त्मकः सन् गर्भो मनुष्यविग्रहेण जायते मनुष्योमनुष्यप्रभव इत्युच्यते तद्योनित्वात् ।” इतिचरके शारीरस्थाने तृतीयेऽध्याये
*
)भगम् इत्यमरः ७६
तत्पर्य्यायः वरा-ङ्गम् उपस्थः स्मरमन्दिरम् इति राज-निर्घण्टः
रतिगृहम् जन्मवर्त्म अधरम् ७अवाच्यदेशः प्रकृतिः अपथम् १० स्मर-कूपकः ११ अप्रदेशः १२ प्रकूतिः १३ पुष्पी १४संसारमार्गकः १५ संसारमार्गः १६ गुह्यम् १७स्मरागारम् १८ स्मरध्वजम् १९ रत्यङ्गम् २०रतिकुहरम् २१ कलत्रम् २२ अघः २३ ।इति शब्दरत्नावली
रतिमन्दिरम् २४ स्मर-गृहम् २५ कन्दर्पकूपः २६ कन्दर्पसम्बाधः २७कन्दर्पसन्धिः २८ स्त्रीचिह्नम् २९ इति जटा-धरः
तु गर्भस्थायाः सप्तभिर्मासैर्भवति ।इति सुखबोधः
*
तस्य लक्षणं यथा, --“शुभः क्रमठपृष्ठाभो गजस्कन्धोपमो भगः ।वामोन्नतश्चेत् कन्याजः पुत्त्रजो दक्षिणोन्नतः
आखुरोमा गूढमणिः सुश्लिष्टः संहतः पृथुः ।तुङ्गः कमलवर्णाभः शुभोऽश्वत्थदलाकृतिः
कुरङ्गखुररूपो यश्चुल्लिकोदरसन्निभः ।रोमशो विवृतास्यश्च दृश्यनासोऽतिदुर्भगः
शङ्खावर्त्तो भगो यस्याः सा गर्भमिह नेच्छति ।चिपिटः कर्पराकारः किङ्करीपददो भगः
वंशवेतसपत्राभो गजरोमोच्चनासिकः ।विकटः कुटिलाकारो लम्बगल्लस्तथाशुभः
”इति काशीखण्डे ३७ अध्यायः
*
अपि ।“शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्त्ता सा चकीर्त्तिता ।तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता
*
अथ योनिरोगाधिकारः ।“तत्र योनिरोगाणां निदानान्याह ।‘मिथ्याहारविहाराभ्यां दृष्टैर्दोषैः प्रदूषितात् ।आर्त्तवाद्वीर्य्यतश्चापि दैवाद्वा स्युर्भगे गदाः
’रोगिणीनां योनीनां नामान्याह ।‘उदावर्त्ता तथा बन्ध्या विप्लुता परिप्लुता ।वातला योनयो रुग्ना वातदोषेण पञ्चधा
पञ्चधा पित्तदोषेण तत्रादौ लोहितक्षरा ।प्रस्रंसिनी वामिनी पुत्त्रघ्नी पित्तला तथा
अत्यानन्दा कर्णिनी चरणानन्दपूर्व्विका ।अतिपूर्व्वापि सा ज्ञेया श्लेष्मला कफादिमाः
खण्ड्यण्डिनी महती सूचीवक्त्रा त्रिदोषिणी ।पञ्चैता योनयः प्रोक्ताः सर्व्वदोषप्रकोपतः
’अथ तासां लक्षणान्याह ।‘सा फेणिलमुदावर्त्ता रजःकृच्छ्रेण मुञ्चति ।बन्ध्या नष्टार्त्तवा ज्ञेया विप्लुता नित्यवेदना
परिप्लुता या भवति ग्राम्यधर्म्मे रुजा भृशम् ।वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः
’अनिलवेदनास्तोदादयः
वातलायां त्वति-शयिता वातवेदना बोद्धव्या वातला इत्य-न्वयात्
*
‘सदाहं क्षरते रक्तं यस्याः साः लोहितक्षरा ।प्रस्रंसिनी स्रंसते क्षोभिता दुःप्रजायिनी
’क्षोभिता विमर्द्दिता स्रंसते स्वस्थानात् च्यवतेदुःप्रजायिनी दुष्टप्रजननशीला ।‘सवातमुद्गिरेद्बीर्य्यं वामिनी रजसा युतम् ।स्थितं स्थितं हन्ति गर्भं पुत्त्रघ्नी रक्तसंस्रवात्
’पुत्त्रशब्दोऽत्रापत्योपलक्षकः ।‘अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता ।चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत्
’अत्यानन्दानसन्तोषं ग्राम्यधर्म्मेण विन्दति ।कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते
’कर्णिका मांसस्थ कर्णिकारो ग्रन्थिः
‘मैथुने चरणापूर्व्वं पुरुषादतिरिच्यते ।’अतिरिच्यते रजो मुञ्चति इत्यर्थः ।‘बहुशश्चातिचरणा तयोर्व्वीजं तिष्ठति
’बहुशः वारं वारं अतिरिच्यते तयोः चर-णातिचरणयोः ।‘श्लेष्मला पिच्छिला योनिः कण्डयुक्तातिशीतला ।चतसृष्वपि चाद्यासु श्लेष्मलिङ्गाच्छ्रयो भवेत्
अनार्त्तवास्तनी खण्डी खरस्पर्शा मैथुने
’अस्तनी ईषत् स्तनौ यस्यां सा अत्र लक्ष्याखण्डी अण्डिनीमाह ।‘महामेढ्रग्रहीताया वालाया अण्डिनी भवेत्
’महामेढ्रः पुरुषः तेन ग्रहीताया बालायाःसूक्ष्मयोनिच्छिद्राया अण्डिनी अण्डवल्लम्बमानायोनिर्भवति ।‘विवृतातिमहायोनिः सूचीवक्त्रातिसंवृता ।सर्व्वलिङ्गसमुत्थानात् सर्व्वदोषप्रकोपजा ।चतसृष्वपि चाद्यासु सर्व्वलिङ्गनिदर्शनम्
’असाध्या योनीराह ।‘पञ्चासाध्या भवन्तीह योनयः सर्व्वदोषजाः
’पञ्च खण्डीप्रभृतयः
*
अथ योनिकन्दस्य निदानमाह ।‘दिवास्वप्नादतिक्रोधाद्ब्यायामादतिमैथुनात् ।क्षताच्च नखदन्ताद्यैर्व्वाताद्याः कुपिता यथा
’वाताद्याः कुपिता यथा यथा निदानकुपितावाताद्याः
*
रूपमाह ।“पूयशोणितसङ्काशं लकुचाकृतिसन्निभम् ।जनयन्ति यदा योनौ नाम्ना कब्दः योनिजः
”लकुचाकृतिसन्निभं लकुचाकाराकारम् गुड-कमत्र विशेष्यं बोद्धव्यम्
*
वातजादिभेदेनरूपभेदमाह ।“रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्दिशेत् ।दाहरागज्वरयुतं विद्यात् पित्तात्मकं तु तम्
तिलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम् ।सर्व्वलिङ्गसमायुक्तं सन्निपातात्मकं भवेत्
*
अथ योनिरोगाणां चिकित्सा तत्र बन्ध्या-चिकित्सा तस्या लक्षणमाह बन्ध्या नष्टार्त्तवाज्ञेयेति ततः प्रथमतो नष्टार्त्तवाचिकित्सा ।‘आर्त्तवादर्शने नारी मत्स्यान् सेवेत नित्यशः ।काञ्जिकञ्च तिलान् माषानुदश्विच्च तथा दधि
इक्ष्वाकुवीजदन्तीचपलागुडदमनकिण्वयवशूकैः ।सस्नुक्क्षीरैर्व्वर्त्तिर्योनिगता कुसुमसञ्जननी
’इक्ष्वाकुः कटुतुम्बी चपला पिप्पली दमनोमदनफलम् किण्वं सुराबीजम् ।‘पीतं ज्योतिष्मतीपत्रं राजिकोग्रासनं त्र्यहम् ।शीतेन पयसा पिष्टं कुसुमं जनयेद्ध्रुवम्
’ज्योतिष्मती कटभीवृक्षविशेषः करही इतिलोके पयसा दुग्धेन
*
अथ बन्ध्या-चिकित्सा ।‘वला सिता सातिबला मधूकंवटस्य शुङ्गं गजकेशरञ्च ।एतन्मधुक्षीरघृतैर्निपीयबन्ध्या सुपुत्त्रं नियतं प्रसूते
अश्वगन्धाकषायेण सिद्धं दुग्धं घृतान्वितम् ।ऋतुस्नाताङ्गना प्रातः पीत्वा गर्भं दधाति हि
पुष्योद्धृतं लक्ष्मणाया मूलं दुग्धेन कन्यया ।पिष्ट्वा पीत्वा ऋतुस्नाता गर्भं धत्ते संशयः
कुरण्टमूलं धातक्या कुसुमानि वटाङ्कुराः ।नालोत्पलं पयोयुक्तमेतद्गर्भप्रदं ध्रुवम्
यावला पिबति पाश्वपिप्पलंजीरकेण सहितं हिताशना ।श्वेतया विशिखपुङ्खया युतंसा सुतं जनयतीह नान्यथा
”श्वेतकुसुभया शरपुंखया सह ।“पत्रमेकं पलाशस्य पिष्ट्वा दुग्धेन गर्भिणी ।पीत्वा पुत्त्रमवाप्नोति वीर्य्यवन्तं संशयः
शूकरशिम्बीमूलं मध्यं वा दधि फलस्य सपयस्कम्पीत्वाथोभयलिङ्गीवीजं कन्यां सूते स्त्री
पुत्त्रमजारीमूलं विष्णुक्रान्तेशालिङ्गिनीसहिता ।एतत् गर्भेऽष्टदिनं पीत्वा कन्यां सर्व्वथा सूते
पुत्त्रमजारी पतजिया तस्या मूलम् इशालि-ङ्गिनी पचगुरिया
*
गर्भप्रदरभेषजकथना-वसरे गर्भाजनकमपि भेषजमाह ।‘पिप्यलीविडङ्गटङ्कणसमचूर्णं या पिबेत् पयसा ।ऋतुसमये नहि तस्या गर्भः संजायते क्वापि
आरनालपरिपेषितं त्र्यहंया जयाकुसुममत्ति पुष्पिणी ।सत्पुराणगुडमुष्टिसेविनीसा दधाति नहि गर्भमङ्गना
*
तासु योनिषु चाद्यासु स्नेहादिक्रम इष्यते ।वस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम्
’वस्तिरत्रोत्तरवस्तिः क्रमश्चिकित्सा ।‘नतवार्त्ताकिनीकुष्ठसैन्धवामरदारुभिः ।तिलतैलं पचेन्नारी पिचुं तस्य विधारयेत्
विप्लुतायां सदा योनौ व्यथा तेन प्रशाम्यति
’नतं तगरम् ।‘वातलां कर्कशां स्तब्धामल्पस्पर्शां तथैव ।कुम्भीस्वेदैरुपचरेदन्तर्व्वेश्मनि संवृते
धारयेद्बा पिचुं योनौ तिलतैलस्य सा सदा ।पित्तलानाञ्च योनीनां सेकाभ्यङ्गपिचुक्रियाः
शीताः पित्तहराः कार्य्याः स्नेहनार्थं घृतानि ।प्रस्रंसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत्
पिधाय वेशवारेण ततो बन्धं समाचरेत् ।शुण्ठीमरिचकृष्णाभिर्धान्यकाजाजिदाडिमैः
पिप्पलीमूलसंयुक्तैर्व्वेशवारः स्मृतो बुधैः
धात्रीरसं सितायुक्तं योनिदाहे पिबेत् सदा ।सूर्य्यक्रान्ताभवं मूलं पिबेद्वा तण्डुलाम्बुना
योन्यान्तु पूयस्राविण्यां शोधनद्रव्यनिर्म्मितैः ।सगोमूत्रैः सलवणैः पिण्डैः संपूरणं हितम्
’शोधनद्रव्याणि निम्बपत्रादीनि ।‘दुर्गन्धां पिच्छिलां वापि चूर्णैः पञ्चकषायजैः ।पूरयेद्धारयेद्राजवृक्षादिक्वथिताम्बुना
”पञ्च कषायाः वचावासापटोलप्रियङ्गुनिम्बाः ।राजवृक्षादि धनवहेरा ।“पिप्पल्यामरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः ।वर्त्तिस्तुल्या प्रदेशिन्या योनौ श्लेष्मविशोधिनी
तुल्या प्रदेशिन्या दैर्घ्येण परिणाहेन ।कर्णिन्यां वर्त्तयो देयाः शोधनद्रव्यनिर्म्मिताः
गुडूचीत्रिफलादन्तीक्वथितोदकधारया ।योनिं प्रक्षालयेत्तेन तत्र कण्डूः प्रशाम्यति
मुद्गपुष्पं सखदिरं पथ्यां जातीफलं तथा ।विम्बीं पूगञ्च संचूर्ण्य वस्त्रपूतं क्षिपेद्भगे ।योनिर्भवति संकीर्णा स्रवेच्च जलं ततः
कपिकच्छुभवं मूलं क्वाथयेद्बिधिना भिषक् ।योनिः सङ्कीर्णतां याति क्वाथेनानेन धावनात्
जीरकद्वितयं कृष्णा सुषुवी सुरभिर्व्वचा ।वासकः सैन्धवश्चापि यवक्षारो यवानिका
एषां चूर्णं घृते किश्चित् भृष्ट्वा खण्डेन मोदकम् ।कृत्वा खादेद्यथावह्नि योनिरोगाद्बिमुच्यते
मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला ।मेदे पयस्या काकोली मूलञ्चैवाश्वगन्धजम्
अजमोदा हरिद्रे द्वे प्रियङ्गुकटुरोहिणी ।उत्पलं कुमुदं द्राक्षा काकोल्यौ चन्दनद्वयम्एतेषां कार्षिकैर्भार्गैर्घृतप्रस्थं विपाचयेत्
शतावरीरसं क्षीरं घृताज्ज्ञेयं चतुर्गुणम् ।सर्पिरेतन्नरः पीत्वा स्त्रीषु नित्यं वृषायते ।पुत्त्रान् जनयते वीरान् मेधाढ्यान् प्रियदर्श-नान्
या चैवास्थिरगर्भा स्यात् पुत्त्रं वा जनयेन्मृतम् ।अल्पायुषं वा जनयेत् या कन्यां प्रसूयते
योनिरोगे रजोदोषे परिस्रावे शस्यते ।प्रजावर्द्धनमायुष्यं सर्व्वग्रहनिवारणम् ।नाम्ना फलघृतं ह्येतदश्विभ्यां परिवर्त्तितम्
अनुक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सकाः ।जीवद्वत्सैकवर्णाया घृतञ्चात्र प्रयुज्यते ।अरण्यगोमयेनेह वह्निज्वाला दीयते
’मेदे मेदा महामेदा तयोरभावे शतावरीद्बिगुणा देया पयस्यात्र क्षीरकाकोलीकाकोलीयुगलाभावे अश्वगन्धा द्विगुणा देया ।प्रियङ्गुस्थाने केचिद्धिङ्गु पठन्ति पयस्याकाकोलीत्युक्त्वा पुनः काकोल्याविति काकोली-क्षीरकाकोल्यौ द्वैगुण्यार्थं एतस्य फलघृतस्यपाठो नानातन्त्रेषु नानाविधः तत्र हिङ्गुवचा-तगरजीवकर्षभका एवाधिकाः तत्र जीवकर्ष-भयोरभावे विदारीकन्दो द्विगुणो देयः फल-घृतं सकलयोनिरोगेषु
*
अथ योनिकन्दस्य चिकित्सा ।‘गैरिकाम्रास्थिजन्तुघ्नरजन्यञ्जनकट्फलम् ।पूरयेद्योनिमेतेषां चूर्णैः क्षौद्रसमन्वितैः
त्रिफलायाः कषायेण सक्षौद्रेण सेचयेत् ।प्रमदा योनिकन्देन व्याधिना परिमुच्यते
’अथ प्रसङ्गात् गुर्व्विण्या रोगाणां चिकित्सा ।‘ह्नीवेरातिविषामुस्तमोचशक्रैः शृतं जलम् ।दद्याद्गर्भे प्रचलिते प्रदरे कुक्षिरुज्यपि
’कुक्षिरुक् उदरव्यथा चलितगर्भस्थापने ह्नीवे-रादिक्वाथः
*
अथ गर्भस्रावपातयोर्निदानम् ।‘ग्राम्यधर्म्माध्वगमनयानासनप्रपीडनैः ।ज्वरोपवासोत्पतनप्रहाराजीर्णधावनैः
वमनाच्च विरेकाच्च कुन्थनाद्गर्धपातनात् ।तीक्ष्णधारोष्णकटुकतिक्तरूक्षनिषेवणात्
वेगाभिघाताद्विषमादासनाच्छयनाद्भयात् ।गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत्
’गर्भपातनात् नियमे गर्भे पातनशीलं द्रव्यं तस्मात् ।गर्भस्य स्रावपातयोः पूर्व्वरूपमाह गर्भे पत-तीत्यादि पतति स्रावेण पातेन वा पतिष्यतिस्रावपातयोरवधिमाह ।‘आचतुर्थात्ततो मासात् प्रस्रवेद्गभविद्रवः ।ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः
’आचतुर्थात् मासात् चतुर्थमासपर्य्यन्तम् ।गर्भस्य विद्रवः शोणितरूपगर्भः स्रवतिशोणितमिति भोजवचनात् स्थिरशरीरस्यकटिनशरीरस्य गर्भस्य गर्भपातस्य दृष्टान्तंदर्शयति ।‘गर्भोऽभिघातविषमासनपीडनाद्यैःपक्वं द्रुमादिव फलं पतति क्षणेन
’यथा वृन्तलग्नं पक्वं फलमभिघातेनाकाल एवपतति तथा गर्भोऽप्यभिघातादिना अकालेऽपिपतति
*
अथ गर्भस्रावस्य चिकित्सा ।‘गुर्व्विण्या गर्भतो रक्तं स्रवेद्यदि मुहुर्मुहुः ।तन्निरोधाय सुस्निग्धमुत्पलादिशृतं पिबेत्
’उत्पलादिगणमाह ।‘उत्पलं नीलमारक्तं कह्लारं कुमुदं तथा ।श्वेताम्भोजञ्च मधुकमुत्पलादिरयं गणः
संशीलितो हरत्येव दाहं तृष्णां हृदामयम् ।रक्तपित्तञ्च मूर्च्छाञ्च तथा छर्द्दिमरोचकम्
’अथ गर्भपातस्य उपद्रवानाह ।‘प्रस्रंशमाने गर्भे स्याद्दाहः शूलञ्च पार्श्वयोः ।पृष्ठरुक् प्रदरानाहौ मूत्रसङ्गश्च जायते
’प्रस्रंशमाने पतति
*
अथ गर्भस्य स्थाना-न्तरगमने चोपद्रवानाह ।‘स्थानात् स्थानान्तरं तस्मिन् प्रयात्यपि चजायते ।आमपक्वाशयादौ तु क्षोभः पूर्व्वेऽप्युपद्रवाः
’पूर्व्वेऽप्युपद्रवाः पार्श्वशूलादयः
*
तञ्चिकित्सामाह ।‘स्निग्धशीताः क्रियास्तेषु दाहादिषु समाचरेत् ।कुशकाशोरुवूकाणां मूलैर्गोक्षुरकस्य
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलहृत् परम् ।श्वदंष्ट्रामधुकक्षुद्राम्लानैः सिद्धं पयः पिबेत् ।शर्करामधुसंयुक्तं गुर्व्विणीवेदनापहम्
’अम्लानः पुष्पजातिः अयं बाणपुष्प इतिगौडादौ प्रसिद्धः ।‘मृत्कोष्ठागारिका गेहसम्भवात्र मृत्तिका ।समङ्गा धातकीपुष्पं गैरिकञ्च रसाञ्जनम्
तथा सर्ज्जरसश्चैतान् यथालाभं विचूर्णयेत् ।तच्चूर्णं मधुना लिह्यान्नारी प्रदरशान्तये
’मृत्कोष्ठागारिकासम्भवा मृत्कोष्ठागारिकावरटी तन्निर्म्मितगृहभवा मृत्तिका समङ्गालज्जालुः ।‘कसेरूत्पलशृङ्गाटकल्कं वा पयसा पिबेत् ।पक्वं वचारसोनाभ्यां हिङ्गुसौवर्च्चलान्वितम् ।आनाहे तु पिवेत् दुग्धं गुर्व्विणी सुखिनीभवेत्
सौवर्च्चलं चौहार इति लोके ।‘तृणपञ्चकमूलानां कल्केन विपचेत् पयः ।तत् पयो गुर्व्विणी पीत्वा मूत्रसङ्गाद्बिमुच्यते
शालीक्षुकुशकाशैः स्यात् शरेण तृणपञ्चकम् ।एषां मूलं तृषादाहपित्ताशृङ्मूत्रसङ्गहृत्
*
अथ प्रसूताया योनेः क्षतादेश्चिकित्सा ।‘तुम्बीपत्रं तथा लोध्रं समभागं सुपेषयेत् ।तेन लेपो भगे कार्य्यः शीघ्रं स्याद्योनिरक्षता
पलाशोडुम्बरफलं तिलतैलसमन्वितम् ।योनौ विलिप्तं विधिना गाढीकरणमुत्तमम्
”इति भावप्रकाशः
*
अथ कुयोनिप्राप्तिकारणानि ।“हविर्ज्जुह्वति नाग्नौ ये गोविन्दं नार्च्चयन्ति ये ।लभन्ते नात्मविद्याञ्च सुतीर्थविमुखाश्च ये
सुवर्णं वस्त्रताम्बूलं रत्नमन्नं फलं जलम् ।आर्त्तेभ्यो प्रयच्छन्ति सर्व्वे सुकृतदारकाः
ब्रह्मस्वञ्च स्त्रीधनानि लोभादेव हरन्ति ये ।बलेन छद्मना वापि धूर्त्ताश्च परवञ्चकाः
नास्तिकाः कुहकाश्चौरा ये चान्ये वकवृत्तयः ।बालवृद्धातुरस्त्रीषु निर्द्दयाः सत्यवर्ज्जिताः
अग्निदा गरदा ये ये चान्ये कूटसाक्षिणः ।अगम्यागामिनः सर्व्वे ये चान्ये ग्रामयाजिनः
व्याधाचरणसम्पन्ना वर्णादिधर्म्मवर्जिताः ।देवोपदेवदनुजरक्षोयक्षादिसेविनः
सर्व्वदा मादकद्रव्यपानमत्ता हरिद्विषः ।देवतोच्छिष्टपतितनृपश्राद्धान्नभोजिनः
असत्कर्म्मरता नित्यं सर्व्वपातकपापिनः ।पाषण्डधर्म्माचरणाः पुरोधोवृत्तिजीविनः
पितृमातृस्वसापत्यस्वदारत्यागिनश्च ये ।ये कदर्य्याश्च लुब्धाश्च नास्तिका धर्म्मदूषकाः
त्यजन्ति स्वामिनं युद्धे त्यजन्ति शरणागतम् ।गवां भूमेश्च हर्त्तारो ये चान्ये रत्नदूषकाः
महाक्षेत्रेषु सर्व्वेषु प्रतिग्रहरताश्च ये ।परद्रोहरता ये तथा ये प्राणिहिंसकाः
परापवादिनः पापा देवतागुरुनिन्दकाः
कुप्रतिग्राहिणः सर्व्वे सम्भवन्ति पुनः पुनः
प्रेतराक्षसपैशाच्यतिर्य्यग्वृक्षकुयोनिषु ।न तेषां सुखलेशोऽस्ति इह लोके परत्र
तस्मात् त्यक्ता निषिद्धार्थं विहितं कर्म्म कारयेत् ।यज्ञं दानं तपस्तीर्थं मन्त्रं देवं गुरुं भरेत्
नाचरेत् कुत्सितं कर्म्म मनसा कदाचन ।विपाकं कर्म्मणां दृष्ट्वा योनिकोटिषु दुःसहम्
चतुर्भिरपि वर्णैस्तु सेव्यो धर्म्मो निरन्तरम्
”इति पाद्मोत्तरखण्डे १८ अध्यायः
*
योनिदुष्टाया असाध्वीत्वं यथा, --“साध्वी स्त्री मातृतुल्या सर्व्वथा हितकारिणी ।असाध्वी वैरतुल्या शश्वत्सन्तापदायिका ।मुखदुष्टा योनिदुष्टा चैवासाध्वीति विश्रुता
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे अध्यायः
*
पापपुण्यफलं अधमोत्तमयोनिप्राप्तिर्यथा, --“पापपुण्यफलं लोके प्रत्यक्षं खलु दृश्यते ।देवदानवमानुष्यतिर्य्यक्त्वं कृमियोनिता
नानायोनिषु जन्मानि नानाव्याधिप्रपीडिताः ।मरणं बालवृद्धानामन्धत्वं कुब्जता तथा
ऐश्वर्य्यं सुदरिद्रत्वं पाण्डित्यं मूर्खता तथा ।एताश्चराचरे लोके भवन्ति कथमन्यथा
”इति पाद्मोत्तरखण्डे २१ अध्यायः
*
पक्षियोनिप्राप्तिकारणं यथा, --“इति श्रुतकथो विप्र ! सारसं प्राह वानरः ।सम्यग्वेत्ति भवान् नूनं त्वं कथं पक्षितां गतः ।वृत्तान्तमेतं कथय श्रोतुमिच्छामि सारस !
सारस उवाच ।कथयिष्यामि तत् कर्म्म येनाहं दुर्गतिं गतः ।पक्षियोनिं गतो येन तत् सर्व्वं श्रोतुमर्हसि
धान्यखारीशतं साग्रमुत्सृष्टं हि त्वया पुरा ।बहुभ्यो ब्राह्मणेभ्यश्च नर्म्मदायाः परिग्रहे
पौरोहित्यमदाल्लोभाद्बञ्चयित्वा द्विजांस्तथा ।किश्चिद्दत्त्वां तु तेभ्यश्च गृहीतमखिलं मया
विप्रसाधारणद्रव्यग्रहणोत्पन्नपातकात् ।पतितः कालसूत्रेऽहं नरके रक्तकर्द्दमे
वक्तुमत्र शक्नोमि दुःखं वानर ! नारकम् ।दैवात् कथमपि प्राप्त उत्तारो नरकाम्बुधेः
मया यदि तथापीह शकुनत्वमुपस्थितम् ।अपहृत्य पुरा कांस्यभाजनं भगिनीगृहात्
द्यूतकर्त्रे मया दत्तं तेन मे सारसी गतिः
इयञ्च ब्राह्मणी पूर्व्वं कांस्यचौरी सुदारुणा ।तेनेह सारसी जाता मद्भार्य्या सहधर्म्मिणी
”इति तत्रैव १९ २० अध्यायौ
*
पापिनां नरकभोगानन्तरं स्थावरादियोनिप्राप्ति-र्यथा, --“स्थावराः कृमयोऽज्ञाश्च पक्षिणः पशवो नराः ।धार्म्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम्
सहस्रभागप्रथमा द्वितीयानुक्रमास्तथा ।सर्व्वे ह्येते महाभाग यावन्मुक्तिसमाश्रयाः
”इति विष्णुपुराणे अंशे अध्यायः
“पापिनां नरकभोगानन्तरं स्थावराद्यासूत्तरो-त्तरमुत्कृष्टासु नवधा भिन्नासु योनिषु जन्मक्रम-माह स्थावरा इति अज्ञा मत्स्यादयः ।धार्म्मिका नरेष्वेव पुण्यविशेषेण केचिन्मोक्षि-णश्च मुमुक्षवश्च यथाक्रमं भवन्तीति शेषः ।तेषाञ्च पूर्व्वबाहुल्यमुत्तरोत्तराल्पत्वञ्चाह सह-स्रेति द्बितीयानुक्रमाः द्बितीयोऽनुक्रम उद्देशोयेषां द्बितीयस्थानेऽनुक्रान्ता ये क्रमयस्ते सहस्र-भागप्रथमाः सहस्रभागाः सहस्रगुणाः प्रथमाःप्रथमनिर्द्दिष्टाः स्थावरा येषां ते कृमिभ्यःसहस्रगुणमधिकाः स्थावराः तत्सहस्रतम-भागाः कृमयः इत्यर्थः पञ्चम्यन्तपाठेऽपिद्वितीयस्थानेऽनुक्रान्तात् कृमिवर्गात् सहस्रगुणाःस्थावरा इत्येवार्थः तथा सर्व्वे ह्येत इति ।यथा स्थावराः स्थानान्तरनिर्द्दिष्टेभ्यः कृमिभ्यःसहस्रगुणमधिकाः तथा कृमयः स्थानान्तर-निर्द्दिष्टेभ्योऽज्ञेभ्यः सहस्रगुणमधिकाः एवंपक्ष्यादिष्वपि द्रष्टव्यम् मोक्षं सम्यगाश्रयन्तेइति मोक्षसमाश्रया मुमुक्षवो ज्ञाननिष्ठास्तत्-पर्य्यन्तमेवं पूर्व्वपूर्व्वादुत्तरोत्तरन्यूनत्वेन जन्म-क्रमः ततः परं मुक्तिः एतञ्च संसारिजीव-बाहुल्यकथनं मोक्षस्य दुर्लभतासूचनार्थम् ।अयञ्च नवधा निर्द्दिष्टो जन्मक्रमः प्रायिक एव ।तदुक्तमादित्यपुराणे ।व्युत्क्रमेणापि मानुष्यं प्राप्यन्ते पुण्यगौरवात् ।विचित्रा गतयः पुंसां कर्म्मणां गुरुलाघवैः
”इति तट्टीका
कुयोनिमोक्षणं यथा, --वाराह उवाच ।“येन गर्भं गच्छेत तन्मे शृणु हि माधवि ! ।कथयिष्यामि ते ह्येवं सर्व्वधर्म्मविनिश्चयम्
कृत्वापि विपुलं कर्म्म आत्मानं प्रशंसति ।कुर्व्वते बहुकर्म्माणि शुद्धेनैवान्तरात्मना
कृत्वापि मम कर्म्माणि मत्प्रियाणि वसुन्धरे ! ।नैव कुर्व्वन्त्यहङ्कारं क्रोधञ्चैव गृह्णति
समं पश्यति चित्तेन लाभालाभविवर्जितः ।पञ्चानामिन्द्रियाणाञ्च समर्थो निग्रहे रतः
कार्य्याकार्य्ये विजानाति सर्व्वधर्म्मेषु निष्ठितः ।शीतोष्णवातवर्षादिक्षुत्पिपासासहश्च यः
यो दरिद्रो निरालस्यः सत्यवागनसूयकः ।स्वदारनिरतो नित्यं परदारविवर्जितः
सत्यवादी विशुद्धात्मा नित्यं भागवतप्रियः ।संविभागी विशेषज्ञो नित्यं ब्राह्मणवत्सलः
प्रियवादी द्बिजानाञ्च मम कर्म्मपरायणः ।कुयोनिन्तु गच्छेत मम लोकाय गच्छति
”वियोनिमोक्षणं यथा, --“अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ! ।यो वियोनिं गच्छेत मम कर्म्मपरायणः
जीवहिंसानिवृत्तस्तु सर्व्वभूतहितः शुचिः ।सर्व्वत्र समतायुक्तः समलोष्टाश्मकाञ्चनः
बाल्ये स्थितोऽपि वयसि क्षान्तो दान्तः शुभे रतः ।कृत्यं नैव विजानाति परेणापकृतं क्वचित्
कृत्यञ्च संस्मरेत् ह्येतदसत्यञ्च जल्पति ।व्यलीकेषु निवृत्तो यः पर्य्येति कृतनिश्चयः
नित्यञ्च धृतिमान् किञ्चित् परोक्षेऽपि चक्षिपेत् ।ऋतुकालेऽभिगच्छेत अपत्यार्थं स्वकां स्त्रियम्
डेदृशास्तु नरा भद्रे ! मम कर्म्मपरायणाः ।ते वियोनिं गच्छन्ति मम गच्छन्ति सुन्दरि
”तिर्य्यग्योनिमोक्षणं यथा, --वाराह उवाच ।“गुह्यानां परमं गुह्यं तच्छृणुष्व वसुन्धरे ! ।तिर्य्यग्योनिगताश्चापि यो गच्छन्ति किल्वि-षम्
अष्टम्याञ्च चतुर्द्दश्यां मैथुनं यो गच्छति ।भुक्त्वा परस्य चान्नानि यश्चैव विकुत्सति
व्याल्ये वयस्यपि यो मम नित्यमनुव्रतः ।येन केनापि सन्तुष्टः पितृमातृप्रपूजकः
प्राप्तेन जीवति यः प्रविभागी गुणान्वितः ।अलुब्धः सर्व्वकार्य्येषु स्वतन्त्रो नित्यसंयतः
विकर्म्म नाभिकुर्व्वीत कौमारव्रतसंस्थितः ।सर्व्वभूतदयायुक्तः सत्त्वेन समन्वितः
मतिमान्नैव तप्येत परार्थेषु कदाचन ।ईदृशीं बुद्धिमास्थाय मम कर्म्माणि कुर्व्वते ।तिर्य्यग्योनिं गच्छेत मम लोकाय गच्छति
”इति वराहपुराणे योनिगर्भमोक्षणनामाध्यायः