| YouTube Channel

योगी (yogI)

 
Hindi
Hindi
जो योग प्रथाओं (पुरुष)
Wordnet
Sanskrit
Synonyms:
योगी
noun
गोरखपथानुयायी साधुः।
"अस्माकं ग्रामे एकः महान् योगी आगतः।"
Synonyms:
ज्ञानी, योगी, तत्वदर्शी, अन्तःप्रज्ञः, आत्मज्ञः, आत्मज्ञानी, सिद्धः
noun
यः आत्मानं जानाति।
"महन्तः ज्ञानिनः अपि भगवतः दर्शनं काङ्क्षन्ति।"
Synonyms:
योगी, तपस्वी, मुनिः
noun
यः योगे निपुणः।
"योगी योगसाधनां करोति"।"
शब्दकल्पद्रुमः
Sanskrit
योगी, [न्]
पुं,
(योगः अस्त्यस्येति योग +इनिः यद्बा, युज समाधौ युजिर् योगे वा +“संपृचानुरुधोत ।” १४२ इति घिनुण् ।)योगयुक्तः तस्य लक्षणादि यथा, --“स्वर्णे लोष्टे गृहेऽरण्ये सुस्निग्धे चन्दने तथा ।समता भावना यस्य योगी परिकीर्त्तितः
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्यायः
अपि ।“आत्मौपम्येन सर्व्वत्र सभं पश्यति योऽर्ज्जुन ! ।सुखं वा यदि वा दुःखं योगी परमो मतः
”इति श्रीभगवद्गीतायाम् अध्यायः
अन्यच्च ।ऋषय ऊचुः ।“भगवन् ! देवतारिघ्न ! हिरण्यादिनिसूदन ! ।चत्वारो ह्याश्रमाः प्रोक्ता योगी नाम कउच्यते
सर्व्वकर्म्माणि संन्यस्य समाधिमचलं श्रितः ।य आस्ते निश्चलो योगी सन्न्यासी पञ्चमः
सर्व्वेषामाश्रमाणान्तु द्बैविध्यं श्रुतिदर्शितम् ।ब्रह्मचार्य्युपकुर्व्वाणो नैष्ठिको ब्रह्मतत्परः
योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ।उपकुर्व्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः
उदासीनसाधकश्च गृहस्थो द्विविधो भवेत् ।ऋणानि त्रीण्युपाहृत्य त्यक्त्वा भार्य्याधनादिकम्
एकाकी यस्तु विचरेदुदासीनः मोक्षिकः ।कुटुम्बभरणायत्तः साधकोऽसौ गृही भवेत्
तपस्तप्यति योऽन्येन यजेद्देवान् जुहोति ।स्वाध्याये चैव निरतो वनस्थस्तापसो मतः
तपसा कर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् ।सन्न्यासिकः विज्ञेयो वानप्रस्थाश्रमे स्थितः
योगाभ्यासरतो नित्यमारुरुक्षुर्ज्जितेन्द्रियः ।ज्ञानाय वर्त्तते भिक्षुः प्रोच्यते परमेष्ठिकः
यश्चात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ।सम्यग्दर्शनसम्पन्नः योगी भिक्षुरुच्यते
ज्ञानसन्न्यासिनः केचिद्वेदसन्न्यासिनः परे ।कर्म्मसन्न्यासिनः केचिद्विविधाः परमेष्ठिकाः
योगी त्रिविधो ज्ञेयो भौतिकः सांख्य एव ।तृतीयोऽन्याश्रमी प्रोक्तो योगमुत्तममास्थितः
”इति कौर्म्मे अध्यायः
(तेषां स्त्रीसङ्गनिषेधो यथा, --“यदि सङ्गं करोत्येव बिन्दुस्तस्य विनश्यति ।आयुःक्षयो बिन्दुहीनादसामर्थ्यञ्च जायते
तस्मात् स्त्रीणां सङ्गवर्ज्यं कुर्य्यादभ्यासमाद-रात् ।योगिनोऽङ्गस्य सिद्धिः स्यात् सततं बिन्दुधार-णात्
”इति दत्तात्रेयसंहिता
तेषां पथ्यं यथा, हठयोगप्रदीपिकायाम् ।“गोधूमशालियवषष्टिकशोभनान्नंक्षीराद्यखण्डनवनीतसितामधूनि ।शूण्ठीकपोलकफलादिकपञ्चशाकंमुद्गादिदिव्यमुदकञ्च यमीन्द्रपथ्यम्
”तेषामपथ्यं यथा, तत्रैव ।“कट्वम्लतिक्तलवणोष्णहरीतशावसौवीरतैलतिलसर्षपमत्स्यमद्यम् ।आजादिमांसदधितक्रकुलत्थकोल-पिन्याकहिङ्गुलसुनाद्यमपथ्यमाहुः
”)