| YouTube Channel

योगजः (yogajaH)

 
Wordnet
Sanskrit
Synonyms:
योगजः, शृङ्गम्, मतम्
noun
अगरवृक्षस्य काष्ठम्।
"योगजः सुगन्धिवस्तुनिर्माणे उपयुज्यते।"
शब्दकल्पद्रुमः
Sanskrit
योगजः,
पुं,
(योगेभ्यो जायते इति जन् + डः ।)अलौकिकसन्निकर्षविशेषः युक्तयुञ्जान-भेदतो द्विविधः यथा, --“अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः ।सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा
आसत्तिराश्रयाणान्तु सामान्यज्ञानमिष्यते ।तदिन्द्रियजतद्धर्म्मबोधसामग्र्यपेक्ष्यते
विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः ।योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभेदतः
युक्तस्य सर्व्वदा भानं चिन्तासहकृतोऽपरः
”इति भाषापरिच्छेदे ६३ -- ६६
*
“योगज इति योगाभ्यासजनितधर्म्मविशेषः ।श्रुतिपुराणादिप्रमाणक इत्यर्थः युक्तेति ।युक्तयुञ्जानरूपयोगिद्वैविध्यात् धर्म्मस्य द्बैविध्य-मिति भावः युक्तस्येति योगाभ्यासावगत्यावशीकृत-समाधि-समासादित-विविधसिद्धियुक्तइत्युच्यते अयमेव विशेष्टयोगवत्त्वात् युक्त इत्यु-च्यते सर्व्वदेतिं चिन्तासहकारं विनेत्यर्थः ।भानं सर्व्वविषयाणां प्रत्यक्षम् अपरो युञ्जानः ।विषयव्यावृत्त्या मानससमाधिस्थः अयञ्चयुञ्जान उच्यते चिन्ता ध्यानं तदेव कारणंतत्सहकारात् स्थूलसूक्ष्मव्यवहितविप्रकृष्टा-नर्थान् मनः प्रत्यक्षीकरोतीत्यर्थः ।” इतिसिद्धान्तमुक्तावली