| YouTube Channel

युतृ (yutR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
युत्
मूलधातुः:
युतृ
धात्वर्थः:
भासने
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
योतते
धातुप्रदीपः
Sanskrit
युतृँ युतृ
मानकरूपान्तरम् - जुतृँ
जुतृ भासने
- योतते युयुते अयुयोतत् जोतते ।। 30, 31 ।।
क्षीरतरङ्गिणी
Sanskrit
युतृँ यतृ
मानकरूपान्तरम् - जुतृँ
जुतृ भासने
योतते, अयुयोतत् कौशिकस्तु ज्योतिःसिद्धये जुतिं ज्युतिं मन्यते, ज्योतिश्च द्युतेरिसिजादेश्च जः (तु0उ02110) इति सिद्धम् जुतिरिति दुर्गः - अजुतत् अजोतीत् 30, 31
धातुवृत्तिः
Sanskrit
युतृँ युतृ
मानकरूपान्तरम् - जुतृँ
जुतृ (अर्थः) भासने
( योतते युयुते योतितेत्यादि ) भावे ( युत्ये ) इत्यादि ( युयुतिषते युयोतिषते "रलो व्युपधात्'' इति वा कित्त्वम् ( योयुयते योयुतीति योयोत्तीत्यादि ) ईट्पक्षे "नाभ्यस्य'' इति गुणनिषेधः ( योतयति अयुयोतत् ) ऋदित्वात् "नाग्लोपि'' इत्यापघाह्रस्वनिषेधः ( युतित्वा योतित्वा ) सन्वत्कित्त्वविकल्पः "उदुपधाद्भावादिकर्मणोरन्यतरस्याम्'' इति निष्ठायां मुदिवत् कित्त्वविकल्प उदाहार्यः (युतितमनेन योतितमनेनेत्यादि जोतत इत्यादि ) युतिवत् 32
कृदन्तरूपमाला
Sanskrit
1 {@“युतृ भासने”@} 2 योतकः-तिका, योतकः-तिका, युयोतिषकः-युयुतिषकः-षिका, योयुतकः- तिका
योतिता-त्री, योतयिता-त्री, युयोतिषिता-युयुतिषिता-त्री, योयुतिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककोकतिवत् 3 ज्ञेयानि।
4 वियोयुतत् 5 -ती।
प्रासङ्गिक्यः
01
=>
(१३५३)
02
=>
(१-भ्वादिः-३१। अक। सेट्। आत्म।)
03
=>
(१९७)
04
=>
[[२। यङ्लुगन्ताच्छतरि रूपमेवम्। यङ्लुक्यपि द्विर्वचने कृते अभ्यासे गुणः। ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम्रिषेधः।]]
05
=>
[[B। ‘पृदाकुजित् वेगमयत्नतो ययौ वियोयुतत्काननजोतिनाऽध्वना।।’ धा। का। १। ५।]]