| YouTube Channel

युज (yuja)

 
Spoken Sanskrit
English
युज yuja
m.
connectors [ that which connects ]
योजक yojaka
m.
connectors [ that which connects ]
Wilson
English
युज(औ)युजौ r. 4th cl. (युज्यते) To confine the thoughts, to keep
the mind fixed in abstract meditation. r. 1st and 10th cls. (योजति
योजयति) To bind, to tie, to connect. (योजयत) To blame. (औ, इर, )
युजिर r. 7th cl. (युनक्ति युंक्ते) To join, to mix, to unite, &c.
With अनु prefixed,
1 To ask, to inquire.
2 To reprove.
With अभि,
1 To utter, to speak.
2 To accuse.
With उत्, To make effort.
With उप,
1 To seize, to take, to lay hold of.
2 To eat.
With नि,
1 To order, to appoint.
2 To join.
With प्र,
1 To be fit or due.
2 To attach or apply to.
3 To lend money.
4 To make effort.
5 To combine or connect.
With वि,
1 To separate, to sunder.
2 To send.
With वि and नि,
1 To appoint or employ.
2 To expend.
3 To send.
4 To involve in or force upon.
With वि and प्र, to separate, to part, to divide.
With सम्, To unite, to combine.
With सम् and आङ्, To think profoundly.
Monier Williams Cologne
English
युज See अ-युज॑ and यु॑ग्मद्-अयुज॑.
Monier Williams 1872
English
युज = 2. युज्, ‘even, ‘not odd, in a few comps.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
युज्
मूलधातुः:
युज
धात्वर्थः:
समाधौ (चित्तवृत्तिनिरोधः)
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
युज्यते
धातुः:
युज्
मूलधातुः:
युज
धात्वर्थः:
संयमने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
योजयति-ते
अनुबन्धादिविशेषः:
आधृषीयः
धातुप्रदीपः
Sanskrit
युजँ युज समाधौ
- युज्यते युयुजे योक्ता 72
युजँ युज
मानकरूपान्तरम् - पृचँ
पृच संयमने
- योजयति योजति अन्यत्र युनक्ति पर्चयति पर्चति अन्यत्र पृणक्ति 251-152
शब्दकल्पद्रुमः
Sanskrit
युज, इर् युतौ इति कविकल्पद्रुमः
(रुधा०-उभ०-सक०-अनिट् ।) इर्, अयुजत्अयौक्षीत् ध, युनक्ति युङ्क्ते घृतेनान्नं लोकः ।औ, योक्ता इति दुर्गादासः
युज, कि संयमे युतौ इति कविकल्पद्रुमः
(चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।) अन्तः-स्थाद्यादिः कि, योजयति योजति संयमोबन्धनम् इति दुर्गादासः
युज, निन्दे इति कविकल्पद्रुमः
(चुरा०-आत्म०-सक०-सेट् ।) क, योजयते इतिदुर्गादासः
युज, समाधौ इति कविकल्पद्रुमः
(दिवा०-आत्म०-अक०-अनिट् ।) समाधि-र्योग्यभावः ङ, स्वयमर्थे नियुज्यते इतिहलायुधः औ, योक्ता इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
युज युतौ रु० उ०
सक०
अनिट् युनक्ति युङ्क्ते इरित्अयुजत् अयौक्षीत् अयुक्त युयोज युयुजे ।अजन्तोपसर्गात् उदश्च परस्मात् आत्म० ।अनु + प्रश्ने
सक०
आ० अनुयुङ्क्ते अनुयोगः ।अभि + व्यवहारेणास्कन्दने (नालिशकरा)
सक०
आत्म० अभि-युङ्क्ते अभियोगः ।उद् + आयोजने
सक०
उद्यमे अक० उद्युङ्क्ते उद्योगः ।उप + भोजने
सक०
सम्बन्धभेदे अक० आत्म० उपयुङ्क्तेउपयोगः ।नि + प्रेरणे
सक०
आत्म० नियुङ्क्ते नियोगः ।परि + अनु + दूषणाय प्रश्ने आत्म०
सक०
पर्य्यनुयुङ्क्ते पर्य्यनुयोगः ।प्र + उच्चारणे व्यवहारभेदे
सक०
आत्म० प्रयुङ्क्ते प्रयोगःप्रति + प्रतिरूपे योगे
सक०
आ० प्रतियुङ्क्ते प्रतियोगः ।सम् + संयोगे
सक०
प० संयुनक्ति संयोगः
युज निन्दायां
चु०
आ०
सक०
सेट् योजयते अयूयुजत
युज समाधौ दि० आत्म० अनिट् युज्यते युयुजे
युज बन्धने युतौ वा
चु०
उभ०
पक्षे
भ्वा०
पर०
सक०
सेट् ।योजयति ते योजति अयूयुजत् अयोजीत्
क्षीरतरङ्गिणी
Sanskrit
युजँ युज समाधौ
- (अर्थविवरणम्) समाधिश्चित्तवृत्तिनिरोधः
युज्यते योक्ता सृजियुधिधूञां (तु0 3187 वा0) कर्मवद्भावः श्यंश्च-युज्यते रथः स्वयमेव युग्यं पत्रे (31121) साधु गां युनक्तीति गोयुगः, कर्मण्यण् (द्र0 321) न्यङ्क्वादिः (गण0 7353) अञ्चुयुजि (3259) इति क्विन्, युजेरसमासे (7171) नुम्, क्विन् प्रत्ययस्य कुः (8262)-युङ्, युञ्जौ नेह-अश्वयुक् ष्ट्रन् (द्र0 32182)-योक्त्रम् मन् (द्र0 उ0 1146) युग्मम्, न्यङ्क्वादिः (गण0 7353) के (द्र0 31135) च-युगम् योजनम्, योजना, योगः, यथास्वं ग्रहणानि रुधादौ युजिर् योगे (77) युङ्क्ते, युनक्ति चुरादौ युज पृची संपर्चने (10202) वा णिच्-योजयति योजति 65
युजँ युज
मानकरूपान्तरम् - पृचीँ
पृची सम्पर्चने
- योजयति, योजति दिवादौ युज समाधौ (467) युज्यते, रुधादौ युजिर् योगे (77)-युनक्ति सम्पर्चयति, रुधादौ (730) सम्पृणाक्ति, अदादौ पृची सम्पर्के (221) संपृक्ते 253, 254
धातुवृत्तिः
Sanskrit
युजँ युज (अर्थः) समाधौ
(अर्थविवरणम्) समाधिश्चित्तनिरोधः
, तेनायमकर्मकः युज्यत एतत् इति प्रयोगस्तु युनक्तेःकर्मणि यकि तङि (युज्यते ब्रह्मचारी इत्येतदपि "सृजिमृज्योश्श्यंस्तु'' इति सकर्मकस्य कर्तुः कर्मवद्भावश्यनोर्विधानद्युज्यते युज्यतिसृज्यत्योरकर्मकत्व एव वार्तिकं चोपपद्यते युज्यतइत्यादि पूर्ववत् ( प्रयुक्, ) "सत्सूद्विष'' इत्यादिना सोपपदात्क्विप् ( युजमापन्ना महर्षयः ) इत्यत्र निरुपपदत्वेऽपि सम्पदादित्वाद्भावे क्विप् "युजेरसमासे'' इति सर्वनामस्थाने नमुस्य भवति, इकारवतो रौधादिकस्यैव तत्र निर्देशात् ( योगी, ) सम्पृचादिना घिनुण् "युग्यं पत्रे'' इति निपातनं नास्य अर्थस्वभावात् "दाम्नीशसयुज'' इति ष्ट्रन्विधावपि नास्य ग्रहः अनभिधानात् 69
कृदन्तरूपमाला
Sanskrit
1 {@“युज समाधौ”@} 2 समाधिः = चित्तवृत्तिनिरोधः।
‘युनक्ति युङ्क्ते योगार्थे, समाधौ युज्यते श्यनि।
युजेः संयमनार्थे वा णौ योजयति योजति।।’ 3 इति देवः।
योजकः-जिका, योजकः-जिका, युयुक्षकः-क्षिका, योयुजकः-जिका
योक्ता- योक्त्री, योजयिता-त्री, युयुक्षिता-त्री, योयुजिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि रौधादिकभुनक्तिवत् 4 ज्ञेयानि।
5 प्रयुक्-प्रयुजौ-प्रयुजः, 6 युक्, 7 युक्, 8 योगी, 9 युक्तः, युज्यमानः, योजयमानः, 10 11 योगः-परियोगः-पलियोगः, 12 युगम्, 13 संयुगः, 14 युयुक्षमाणः, इतीमानि रूपाण्यस्माद् भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३४९)
02
=>
(४-दिवादिः-११७७। अक। अनि। आत्म।)
03
=>
(श्लो। ६४)
04
=>
(११६२)
05
=>
[[३। ‘सत्सूद्विषद्रुहदुहयुज--’ (३-२-६१) इत्यादिना सोपसर्गात् क्विपि रूपमेवम्। अत्र निरुपसर्गादपि क्विप्, सूत्रे ‘अपि’ शब्दस्वारस्यात्। युक्-युजौ-युजः, इत्यपि साधुः।]]
06
=>
[[B। ‘कंसानुरोध्यणनहृन्मतिमद्दृगर्च्यः…।।’ धा। का। २। ६२।]]
07
=>
[[४। स्त्रियां भावादौ सम्पदादित्वेन (वा। ३-३-१०८) क्विपि रूपम्। ‘युजमापन्ना महर्षयः’ इति धातुवृत्तावुदाहृतम्। अत्र युजम् = योगमित्यर्थः। काशिका (७-१-७१) द्रष्टव्याऽत्र।]]
08
=>
[[५। ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदह- परिमुहदुषद्विषद्रुहदुहयुज--’ (३-२-१४२) इत्यादिना यथासम्भवं तच्छीलतद्धर्म- तत्साधुकारिष्वर्थेषु घिनुण्प्रत्यये, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्।]]
09
=>
[[६। धातोरस्याकर्मकत्वात् ‘क्तोऽधिकरणे ध्रौव्य--’ (३-४-७६) इति क्तप्रत्ययः।]]
10
=>
[पृष्ठम्१०८३+ २६]
11
=>
[[१। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि, कुत्वम्। योगः = चित्तवृत्तिनिरोधः। ‘योगे च’ (वा। ८-२-२२) इति वचनात् ‘परि’ इत्युपसर्गस्थस्य रेफस्य पाक्षिकं लत्वम्।]]
12
=>
[[२। संज्ञायां घञि, कुत्वे, उञ्छादि (६-१-१६०) पाठाद् गुणो न। युगम् = चेत- नाचेतनानां समाधिः।]]
13
=>
[[३। संज्ञायां घञि, कुत्वे, प्रतिजनादिषु (४-४-९९) पाठात् गुणो न। संयुगः = समरः।]]
14
=>
[[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्।’ भ। का। ३। ४१।]]
1 {@“युज संयमने”@} 2 आधृषीयः।
‘योगे इति द्रुमे।’ इति धा।
का।
व्याख्या 3।
‘युजेः संयमनार्थे वा णौ योजयति योजति।।’ 4 इति देवः।
योजकः-जिका, युयोजयिषकः-षिका, योजकः-जिका, 5 युयुक्षकः-क्षिका, योयुजकः-जिका
योजयिता-त्री, युयोजयिषिता-त्री, युयुक्षिता-त्री
योयुजिता-त्री
इत्यादिकानि सर्वाण्यपि रूपाणि चौरादिकजोषयतिवत् 6 ज्ञेयानि।
7 योजयन्।
योजना मानविशेषः।
प्रासङ्गिक्यः
01
=>
(१३५०)
02
=>
(१०-चुरादिः-१८०७। सक। सेट्। उभ।)
03
=>
(३-४८)
04
=>
(श्लो। ६४)
05
=>
[[४। आधृषीयत्वेन णिज्विकल्पः। णिजभावपक्षे, ‘त्यजिं यजिं युजिरुचिसञ्जिमज्जतीन्--’ (भाष्ये ७-२-१०) इति व्याघ्रभूतिकारिकायामुपादानात् तत्र सामान्येन दैवादिक-रौधादिकयोः, णिजभावपक्षे औत्सर्गिकशब्विकरणस्यास्य ग्रहणस्य व्याख्यातृभिरुपादानादस्यानिट्त्वमिति ज्ञेयम्। तेन सन्नन्ते रूपमेवम्।]]
06
=>
(६१३)
07
=>
[[B। ‘कृष्णोऽथ बाहुयुगलैर्बहु योजयन्तम्…।’ धा। का। ३। ४८।]]
Grassman
German
(yuja), a., dass. in a-yujá.
Burnouf
French
युज युज a. vd. (युज्) uni à, i.