युगं (yugaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishयुगं 1 A yoke (m. also in this sense)
युगव्यायतब हुः R. 3. 34, 10. 87
Śi. 3. 68.
2 A pair, couple, brace
कुचयोर्युगेन तरसा कलिता Śi. 9. 72
स्तनयुग Ś. 1. 19.
3 A couple of stanzas forming one sentence
see युग्म.
4 An age of the world
(the Yugas are four:
कृ त or सत्य, त्रेता, द्वापर and कलि
the duration of each is said to be respectively 1, 728, 000
1, 296, 000
864, 000
and 432, 000 years of men, the four together comprising 4, 320, 000 years of men which is equal to one Mahāyuga q. v.
it is also supposed that the regularly descending length of the Yugas represents a corresponding physical and moral deterioration in the people who live during each age, Kṛta being called the ‘golden’ and Kali or the present age the ‘iron’ age)
धर्मसंस्थापनार्थाय संभवामि युगे युगे Bg. 4. 8
युगशतपरिवर्तान् Ś. 7. 34.
5 (Hence) A long period of years.
6 A generation, life
आसप्तमाद् युगात् Ms. 10. 64
जात्युत्कर्षो युगे ज्ञेयः पंचमे सप्तमेऽपि वा Y. 1. 96 (युगे = जन्मनि Mit.).
7 An expression for the number ‘four’, rarely for ‘twelve’.
8 A period of five years.
9 A measure of length equal to four Hastas.
10 A part of a chariot or plough.
Comp.
अंशकः a year.
अध्यक्षः {1} N. of Prajāpati. {2} of Śiva.
अंतः {1} the end of the yoke. {2} the end of an age, end or destruction of the world
युगांतकालप्रतिसंहृतात्मनो जगंति यस्यां सविकाशमासत Śi. 1. 23
R. 13. 6. {3} meridian, midday.
अंतर {1} a kind of yoke. {2} a succeeding generation. {3} another division of the sky
युगांतरमारूढः सविता Ś. 4.
अवधिः end or destruction of the world
Śi. 17. 40.
आद्या the first day of a Yuga.
कीलकः the pin of a yoke.
क्षयः destruction of the world.
धरः the pole of a carriage.
पत्रः
पत्रकः the mountain ebony.
पार्श्वग a. going to the side of the yoke, (said of an ox while being broken in to the yoke).
बाहु a. long-armed
Ku. 2. 18.
शब्दकल्पद्रुमः
Sanskritयुगं, (युज्यत इति । युज् + घञ् । कुत्वम् ।न गुणः । “युजेर्घञन्तस्य निपातनादगुणत्वंविशिष्टविषये च निपातनमिदमिष्यते । काल-विशेषे रथाद्युपकरणे च युगशब्दस्य प्रयोगो-ऽन्यत्र योग एव भवति ।” इति काशिका । ६ ।१ । १६० ।) युग्मम् । (यथा, शिशुपालवधे ।९ । ७२ ।“उपनेतुमुन्नतिमतेव दिवंकुचयोर्युगेन तरसा कलिताम् ।रभसोत्थितामुपगतः सहसापरिरंभ्य कश्चन बधूमरुधत् ॥
”)कृतादिकालचतुष्टयम् । (यथा, गीतायाम् । ४ । ८ ।“परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।धर्म्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥
”)वृद्धिनामौषधम् । हस्तचतुष्कम् । इति मेदिनी ।गे, १९ ॥
(यथा, मार्कण्डेये । ४९ । ३९ ।“द्वे वितस्ती तथा हस्तो ब्राह्म्यतीर्यादिवेष्टयन् ।चतुर्हस्तं धनुर्दण्डो नाडिका युगमेव च ॥
”)देवानां द्वादशसहस्रवत्सरेण चतुर्युगं भवति ।मनुष्यमानेन चतुर्युगपरिमाणं विंशतिसहस्रा-धिकत्रिचत्वारिंशल्लक्षम् । तत्र सत्ययुगस्य मानम्१७२८००० वर्षाः । त्रेतायुगस्य १२९६०००वर्षाः । द्वापरयुगस्य ८६४००० वर्षाः । कलि-युगस्य ४३२००० वर्षाः । इति श्रीभागवतमतम् ॥
तेषां भारतवर्षवर्त्तित्वं विवरणञ्च यथा, --“चत्वारि भारते वर्षे युगानि ऋषयोऽब्रुवन् ।कृतं त्रेता द्वापरञ्च कलिश्चेति चतुर्युगम् ॥
पूर्व्वं कृतयुगं नाम ततस्त्रेता विधीयते ।द्वापरञ्च कलिश्चैव युगानि परिकल्पयन् ॥
चत्वार्य्याहुः सहस्राणि वर्षाणान्तु कृतं युगम् ।तस्य तावत् शती सन्ध्या सन्ध्यां शश्च तथाविधः ॥
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु ।एकापायेन वर्त्तन्ते सहस्राणि शतानि च ॥
त्रेतां त्रीणि सहस्राणि युगसंख्याविदो विदुः ।तस्यापि त्रिशती सन्ध्या सन्ध्यांशः सन्ध्यया समः ॥
द्बे सहस्रे द्बापरे तु सन्ध्यांशौ तु चतुःशते ।सहस्रमेकं वर्षाणां दिव्यं कलौ प्रकीर्त्तितम् ॥
द्बे शते च तथान्ये वै संख्यातञ्च मनीषिभिः ।एषा द्बादशसाहस्री युगसंख्या तु संज्ञिता ॥
कृतं त्रेता द्वापरञ्च कलिश्चेति चतुर्युगम् ।तत्र संवत्सराः सृष्टा मानुषास्तान्निबोधत ॥
चत्वारिंशत्तथा त्रीणि कृतं युगमथोच्यते ।विंशतिश्च सहस्राणि कालो ह्येष चतुर्युगः ॥
पृथक्त्वेनेह वक्ष्यामि युगानि तु निबोधत ।नियुतानि दश द्वे च पञ्च चैवात्र संख्यया ॥
अष्टाविंशसहस्राणि कृतं युगमथोच्यते ।अयुतन्तु तथा पूर्णं द्वे चान्ये नियुते पुनः ॥
षट्त्रिंशच्च सहस्राणि संख्यातानि तु संख्यया ।त्रेतायुगस्य संख्यैषा मानुषेण तु कीर्त्तिता ॥
अष्टौ शतसहस्राणि वर्षाणां मानुषाणि तु ।चतुःषष्टिसहस्राणि वर्षाणां द्वापरं युगम् ॥
चत्वारि नियुतानि स्युर्वर्षाणान्तु चतुर्युगम् ।द्वात्रिंशच्च तथान्यानि सहस्राणि तु संख्यया ॥
एतत् कलियुगं प्रोक्तं मानुषेण प्रमाणतः ।एषा चतुर्युगावस्था मानुषेण प्रकीर्त्तिता ॥
चतुर्युगस्य संख्याता सन्ध्या सन्ध्यांशकेन च । ।एषा चतुर्युगाख्या तु साधिका त्वेकसप्ततिः ।कृतत्रेतादियुक्ता सा मनोरन्तरमुच्यते ॥
”इति मात्स्ये ११८ अध्यायः ॥
* ॥
युगधर्म्मो यथा, --“ध्यानं परं कृतयुगे त्रेतायां ज्ञानमध्वरः ।द्बापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥
ब्रह्मा कृतयुगे देवस्त्रेतायां भगवान् रविः ।द्वापरे दैवतं विष्णुः कलौ रुद्रो महेश्वरः ॥
ब्रह्मा विष्णुस्तथा सूर्य्यः सर्व्व एव कलिष्वपि ।पूज्यते भगवान् रुद्रश्चतुर्ष्वपि पिनाकधृक् ॥
आद्ये कृतयुगे धर्म्मश्चतुष्पादः सनातनः ।त्रेतायुगे त्रिपादः स्याद्द्विपादो द्बापरे स्थितः ।त्रिपादहीनस्तिष्ये तु सत्तामात्रेण तिष्ठति ॥
”इति कूर्म्मपुराणे युगधर्म्मकीर्त्तनं नाम २८अध्यायः ॥
* ॥
युगावतारा यथा, --“कृते युगे परं ज्ञानं कपिलादिस्वरूपभृत् ।ददाति सर्व्वभूतात्मा सर्व्वभूतहिते रत्रः ॥
चक्रवर्त्तिस्वरूपेण त्रेतायामपि स प्रभुः ।दुष्टानां निग्रहं कुर्व्वन् परिपाति जगत्त्रयम् ॥
वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः ।करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥
वेदांस्तु द्बापरे व्यस्य कलेरन्ते पुनर्हरिः ।कल्किस्वरूपी दुर्वृत्तान् मार्गे स्थापयति प्रभुः ॥
एवमेष जगत् सर्व्वं परिपाति करोति च ।हन्ति चान्येष्वनन्तात्मा नास्त्यस्माद्ब्यतिरेकियत् ॥
”इति विष्णुपुराणे ३ अंशे २ अध्यायः ॥
* ॥
युगधर्म्मान्तरं यथा, --जैमिनिरुवाच ।“कलौ युगे महाभाग ! समायाते सुदारुणे ।भविष्यन्ति जनाः सर्व्वे कीदृशास्तद्बदस्व मे ॥
व्यास उवाच ।आद्यं सत्ययुगं प्राहुस्ततस्त्रेताह्वयं युगम् ।ततश्च द्बापरं विप्र ! कलिमन्त्यं विदुर्बुधाः ॥
कृते धर्म्मश्चतुष्पादः सर्व्वधर्म्मरता जनाः ।वर्णाश्रमाचाररतास्तपोव्रतपरायणाः ॥
नारायणार्च्चनपराः शोकव्याधिविवर्जिताः ।सत्योक्तिभाषिणः सर्व्वे सदया दीर्घजीविनः ॥
धनधान्यादिसम्पन्ना हिंसादम्भविवर्ज्जिताः ।परोपकारिणश्चैव सर्व्वशास्त्रविदस्तथा ॥
एवंविधाः सत्ययुगे सर्व्वे लोका द्विजोत्तम ! ।राजधर्म्मग्राहिणश्च भूपाला जनपालिनः ॥
अहो सत्ययुगस्यास्ति कः संख्यातुं गुणान् क्षमः ॥
अधर्म्माचरणं तत्र जनाः केचिन्न कुर्व्वते ॥
* ॥
त्रेतायुगे समायाते धर्म्मः पादोनतां गतः ।अल्पक्लेशान्विता लोकाःकेचित् केचिद्दयाशयाः ।विष्णुध्यानरता लोका यज्ञदानपरायणाः ।वर्णाश्रमाचाररताः सुखिनः सुस्थचेतसः ॥
क्षत्त्रा भूमिस्पृशः शूद्राः सर्व्वे ब्राह्मणसेविनः ।ब्राह्मणाश्च महात्मानो वेदवेदाङ्गपारगाः ॥
प्रतिग्रहनिवृत्ताश्च सत्यसन्धा जितेन्द्रियाः ।तपोव्रतरता नित्यं दातारो विष्णुसेविनः ॥
कालवर्षी तडित्वांश्च स्त्रियः सर्व्वाः पतिव्रताः ।वसुन्धरा च शस्याढ्या पुत्त्राश्च पितृसेविनः ॥
* ॥
त्रेतायुगस्यावसाने द्वापरे युग आगते ।द्विपादो भूतवान् धर्म्मः सुखदुःखान्विता नराः ॥
केचित् केचित् पापरताः केचिद्धर्म्मरतास्तथा ।केचित् केचित् गुणैर्हीनाः केचित् केचिन्महा-गुणाः ॥
अत्यन्तदुःखिनः केचित् केचित् चातिधनास्तथा ।प्रतिग्रहे ब्राह्मणाश्च कदाचित् कुर्व्वते स्पृहाम् ।भूभुजा धनलोभेन कदाचिद्दण्ड्यते प्रजाः ।विष्णुपूजापरा विप्राः शूद्राश्च द्बिजसेविनः ॥
तदा विष्णुर्व्यासरूपी वेदभागं चकार ह ॥
* ॥
कलौ युगे च विप्रेन्द्र ! सर्व्वपापैकमन्दिरे ।एकपादोऽभवद्धर्म्मः सर्व्वे पापरता जनाः ॥
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राः पापपरायणाः ।निजाचारविहीनाश्च भविष्यन्ति कलौ युगे ॥
विप्रा वेदविहीनाश्च प्रतिग्रहपरायणाः ।अत्यन्तकामिनः क्रूरा भविष्यन्ति कलौ युगे ॥
परान्नलोलुपा नित्यं तपोव्रतपराङ्मुखाः ।पाषण्डसङ्गलुब्धाश्च भविष्यन्ति कलौ युगे ॥
वित्तार्थं ब्राह्मणाः केचिन्महाकपटधर्म्मिणः ।बल्काधरा भविष्यन्ति जटिलाः श्मश्रुधारिणः ।कलौ युगे भविष्यन्ति ब्राह्मणाः शूद्रधर्म्मिणः ॥
शूद्राश्च दीक्षागुरवो नित्यं ब्राह्मणधर्म्मिणः ।कलौ यास्यन्ति निर्वृत्ता उत्तमा अपि नीचताम् ॥
नीचाश्च धनसम्पन्ना यास्यन्त्युच्चपदं प्रति ।प्रदास्यन्त्युपकारिभ्यो दानानि सकला जनाः ॥
यत्नादपि च नेष्यन्ति वृषला विप्रवर्त्तनम् ।मित्रस्नेहाद्वदिष्यन्ति कुसाक्ष्यञ्च कलौ जनाः ॥
अधर्म्मबुद्धिदातारो धर्म्मबुद्धिविलोपिनः ।परोक्षनिन्दकाः क्रूराः संमुखप्रियवादिनः ॥
परश्रीहिंसकाश्चैव मिथ्यावचनभाषिणः ।भविष्यन्ति कलौ विप्राः परवित्ताभिलाषिणः ॥
गृहमायान्तमतिथिं समाराध्य विधानतः ।धनलोभाद्धनिष्यन्ति नरा नरकभागिनः ।ऋणोपजीविनश्चैव भविष्यन्ति कलौ युगे ॥
स्त्रीजिताः पुरुषाः सर्व्वे स्त्रियोऽप्यत्यन्तचञ्चलाः ।दुर्नीतिर्व्वाधते तासां स्वामिनञ्च न संशयः ॥
जैमिनिरुवाच ।मनःशुद्धिविहीनत्वात् सर्व्वेषां प्राणिनां मुने ! ।अतः सर्व्वं त्वया प्रोक्तं मनो विस्मयदं मम ॥
कलौ सर्व्वे भविष्यन्ति मनःशुद्धिविवर्जिताः ।तेषां यथा भवेत् कर्म्म सफलं ब्रूहि तद्गुरो ! ॥
व्यास उवाच ।अनर्पितन्तु यत् कर्म्म तद्भवेन्निष्फलं खलु ।एकेन मनसा विप्र ! सुदृढं कथ्यते मया ॥
विष्णुभक्तिमतां पुंसां न किञ्चिद्विफलं भवेत् ।इति ते कथितं सर्व्वं व्यक्तं ब्राह्मणसत्तम ! ।यत् श्रुत्वा भक्तिभावेन नरो मोक्षमवाप्नुयात् ॥
”इति पाद्मे क्रियायोगसारे २५ अध्यायः ॥
* ॥
अपि च ।“कृते धर्म्मश्चतुष्पाच्च सत्यं दानं तपो दया ।धर्म्मपाता हरिः श्वेतः सन्तुष्टा ज्ञानिनो नराः ।चतुर्व्वर्षसहस्राणि नरा जीवन्ति वै तदा ॥
कृतान्ते क्षत्त्रियैर्विप्रा विट्शूद्राश्च जिता द्बिजैः ।शूरस्य प्रणतिः पुत्त्रो विष्णुः क्षत्त्रं जघान ह ॥
* ॥
त्रेतायुगे त्रिपाद्धर्म्मः सत्यदानदयात्मकः ।नरा यज्ञपरास्तस्मिंस्तथा क्षत्त्रोद्भवं जगत् ॥
रक्तो हरिर्नरैः पूज्यो नरा दशशतायुषः ।तत्र विष्णुर्भीमरथः क्षत्त्रियो राक्षसानहन् ॥
* ॥
द्विपाच्च द्बापरे धर्म्मः पीतताञ्चाच्युते गते ।चतुःशतायुषो लोका द्बिजक्षत्त्रोत्तराः प्रजाः ॥
तदा दृष्ट्वाल्पबुद्धींश्च विष्णुर्व्यासस्वरूपधृक् ।तदेकन्तु यजुर्व्वेदं चतुर्धा विभजत् पुनः ॥
शिष्यानध्यापयामास नामतस्तान्निबोध मे ।ऋग्वेदमथ पौलस्त्यं सामवेदञ्च जैमिनिम् ॥
अथर्व्वाणं सुमन्तुन्तु यजुर्व्वेदं महामुनिम् ।वैशम्पायनसंज्ञन्तु पुराणं सूतमेव च ॥
अष्टादश पुराणानि येषु वै हरिरेव हि ।सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥
वंशानुचरितञ्चैव पुराणं पञ्चलक्षणम् ॥
ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतन्तथा ।भविष्यं नारदीयञ्च पुराणञ्चेति विस्तरम् ॥
मार्कण्डेयं तथाग्नेयं ब्रह्मवैवर्त्तमेव च ।कौर्म्मं मात्स्यं गारुडञ्च वायवीयमनन्तरम् ॥
अष्टादशं समुदितं ब्रह्माण्डमिति संज्ञितम् ।अन्यान्युपपुराणानि मुनिभिः कथितानि तु ॥
आद्यं सनत्कुमारोक्तं नारसिंहमथापरम् ।तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् ॥
चतुर्थं शिवधर्म्माख्यं साक्षान्नन्दीशभाषितम् ।दुर्व्वाससोक्तमाश्चर्य्यं नारदोक्तमतः परम् ॥
कापिलं वामनञ्चैव तथैवोशनसेरितम् ।ब्रह्माण्डं वारुणञ्चाथ कालिकाह्वयमेव च ॥
माहेश्वरं तथा शाम्बं सौरसर्व्वार्थसञ्चयम् ।पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥
पुराणं धर्म्मशास्त्रञ्च वेदा अङ्गानि यन्मुने ! ।न्यायः शौनक ! मीमांसा आयुर्व्वेदार्थशास्त्रकम् ।गान्धर्व्वश्च धनुर्व्वेदो विद्या ह्यष्टादश स्मृताः ।द्बापरान्ते स च हरिर्भुवो भारमपाहरत् ॥
* ॥
एकपादस्थिते धर्म्मे कृष्णताञ्चाच्युते गते ।जनास्तदा दुराचारा भविष्यन्ति च निर्द्दयाः ॥
सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः ।कालसञ्चोदितास्तेऽपि परिवर्त्तन्त आत्मनि ॥
प्रभूतञ्च यदा सत्त्वं मनोबुद्धीन्द्रियाणि च ।तदा कृतयुगं विद्याद्दाने तपसि यद्रतिः ॥
यदा कर्म्मसु कार्य्येषु शक्तिर्यशसि देहिनाम् ।तदा त्रेता रजीवृत्तिरिति जानीहि शौनक ! ॥
यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः ।कर्म्मणाञ्चापि काम्यानां द्वापरन्तद्रजस्तमः ॥
यदा सदानृतं तन्द्रीनिद्राहिंसादिसाधनम् ।शोकमोहभयं दैन्यं स कलिस्तु तदा स्मृतः ॥
यस्मिन् जनाः कामिनोपि शश्वत्कटुकभाषिणः ।दस्युकृष्टा जनपदा वेदाः पाषण्डदूषिताः ॥
राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः ।अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः ॥
तपस्विनो ग्रामवासा न्यासिनो नित्यलोलुपाः ।ह्रस्वकाया महाहाराश्चौर्य्यमायोरुसाहसाः ॥
त्यक्ष्यन्ति भृत्याश्च पतिं भृत्यं भर्त्तार एव च ।शूद्राः प्रतिग्रहीष्यन्ति तपोवेशोपजीविनः ॥
उद्बिग्नाश्चानलङ्काराः पिशाचसदृशाः प्रजाः ।अस्नातभोजनेनाग्निदेवतातिथिपूजनम् ।करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥
स्त्रीपराश्च जनाः सर्व्वे शूद्रप्रायाश्च शौनक ! ।बहुप्रजाल्पभाम्याश्च भविष्यन्ति कलौ स्त्रियः ॥
शिरःकण्डूयनपरा आज्ञां मेत्स्यन्ति सत्पतेः ।विष्णुं न पूजयिष्यन्ति पाषण्डोपहता जनाः ॥
कलेर्दोषनिधेर्विप्र अस्ति ह्येको महान् गुणः ।कीर्त्तनदेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥
कृते यद्ध्यायतो विष्णुं त्रेतायां यजतः फलम् ।द्वापरे परिचर्य्यायां कलौ तद्धरिकीर्त्तनात् ॥
तस्माज्ज्ञेयो हरिर्नित्यं ध्येयः पूज्यश्च शौनक ॥
”इति गारुडे युगधर्म्माः । २२७ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
