| YouTube Channel

यायावरः (yAyAvaraH)

 
Wordnet
Sanskrit
Synonyms:
यायावरः
noun
स्थायिरूपेण निवासस्थानस्य अभावात् ये पुनः पुनः एकस्मात् स्थानात् अन्यं स्थानं गच्छन्ति।
"मार्गस्य पार्श्वे यायावरैः परिवासः कृतः।"
शब्दकल्पद्रुमः
Sanskrit
यायावरः,
पुं,
(पुनःपुनरतिशयेन वा याति देशा-द्देशान्तरं गच्छतीति या + यङ् “यश्च यङः ।”३ १७६ इति वरच् ।) अश्वमेधीयाश्वः इतिजटाधरः
जरत्कारुमुनिः इति त्रिकाण्ड-शेषः
(ऋषीणां गणविशेषः यथा, महा-भारते १२ २४३ १७ ।“तात प्रत्यक्षधर्म्माणस्तथा यायावरा गणाः
”जरत्कारुमुनिरेवैतद्बंशीयः यथा, महाभारते ।१ १३ ११ ।“जरत्कारुरिति ख्यात ऊर्द्ध्वरेता महातपाः ।यायावराणां प्रवरो धर्म्मज्ञः संशितव्रतः
”)त्रि, पुनःपुनर्गमनशीलः यथा, --“यायावराः पुष्पफलेन चान्येप्रानर्च्चुरर्च्या जगदर्च्चनीयम्
”इति भट्टिः २०
(क्ली, याच्ञा यथा, भागवते ११ १६ ।“वार्त्ता विचित्रा शालीनयायावरशिलोञ्छनम् ।विप्रवृत्तिश्चतुर्द्धेयं श्रेयसी चोत्तरोत्तरा
”“यायावरं प्रत्यहं धान्ययाच्ञा ।” इति तत्रश्रीधरस्वामी
)