| YouTube Channel

यवागूः (yavAgUH)

 
शब्दकल्पद्रुमः
Sanskrit
यवागूः,
स्त्री,
(यूयते मिश्र्यते इति यु + “सृयु-वचिभ्योऽन्युजागूजक्नुचः ।” उणा० ८१ इतिआगूच् ।) षड्गुणजलपक्वघनद्रवद्रव्यविशेषः ।याउ इति भाषा
तत्पर्य्यायः उष्णिका २श्राणा विलेपी तरला इत्यमरः ।९ ५०
“यूयते मिश्र्यते यावागूः यु मिश्रणेनाम्नीति आगूः गुणः ओषति हिनस्तिज्वरादिरोगं उष्णिका उषू वाधे दहि पूर्व्वेणनिक् श्रायते पच्यते स्म श्राणा श्रा पाके क्तःसुल्वाद्योदिति नः विलिम्पति विलेपी ञिलिपौ शप लेपे पचादित्वादन् नदादित्वा-दीप् तरति प्लवति तरला तरेऽभिभवेप्लुत्यां नाम्नीति अलः ।‘अन्नं पञ्चगुणे साध्यं विलेपी चतुर्गुणे ।मण्डश्चतुर्द्दशगुणे यवागूः षड्गुणेऽम्भसि
’इति वैद्यकोक्तो भेद इह नादृतः
इति तट्टी-कायां भरतः
अस्या गुणाः ।“यवागूर्ज्वरतृष्णाघ्नी लघ्वी वस्तिविशोधनी ।अतीसारे ज्वरे दाहे हिता वह्निप्रदीपनी
”इति राजवल्लभः
(अथास्या गुणा लक्षणञ्च ।“सन्दीपनी स्वेदकरी यवागूःसम्पाचनी दोषमलामयानाम् ।सन्तर्पणी धातु बलेन्द्रियाणांशस्ता भवेत् सा ज्वररोगिणाञ्च
”भागैकञ्च भवेत्तत्र द्बिभागेन जलं क्षिपेत् ।चित्रकं पिप्पलीमूलं पिप्पलीचव्यनागरम्
धान्यकस्य समांशानि पिष्ट्वा श्वेतांश्च तण्डुलान् ।संशुद्धा शिथिला किञ्चित् सा यवागूर्निगद्यते
यवागूमुपभुञ्जानो जनो नारुचिमाचरेत् ।शाकमाषफलैर्युक्ता यवागूः स्याच्च दुर्ज्जरा
”इति हारीते प्रथमस्थाने १२ अध्याये
“यावागूः षड्गुणजले सिद्धा स्यात् कृशरा घना ।यवागूर्ग्राहिणी वल्या तर्पणी वातनाशिनी
”इति मध्यखण्डे द्बितीयेऽध्याये शार्ङ्गधरेणोक्तम्
)