| YouTube Channel

यवफलः (yavaphalaH)

 
Wordnet
Sanskrit
Synonyms:
कुटजः, शक्रः, वत्सकः, गिरिमल्लिका, कौटजः, वृक्षकः, शक्रपर्यायः, काही, कालिङ्गः, मल्लिकापुष्पः, प्रावृष्यः, शत्रुपादपः, वरतिक्तः, यवफलः, सङ्ग्राही, पाण्डुरद्रुमः, प्रावृषेण्यः, महागन्धः, पाण्डरः
noun
वन्यवृक्षः।
"अस्मिन् वने कुटजस्य आधिक्यं वर्तते।"
Synonyms:
वेणुः, वंशः, वेतसः, त्वक्सारः, शतपर्वा, मस्करः, तृणध्वजः, यवफलः, तेजनः, कर्मारः
noun
तृणजातिविशेषः- सा वनस्पति यस्यां स्थाने स्थाने ग्रन्थिः अस्ति तथा या पात्रच्छादनादिनिर्माणे उपयुज्यते।
"सः उद्याने वेणुं रोपयति।"
शब्दकल्पद्रुमः
Sanskrit
यवफलः,
पुं,
(यववत् फलमस्य ।) वंशः इत्य-मरः १६१
जटामांसी कुटजः ।इति मेदिनी ले, १६२
(अस्य पर्य्यायो यथा, “कुटजः कूटजः कौटो वत्सको गिरिमल्लिका ।कालिङ्गः शक्रशाखी मल्लिकापुष्प इत्यपि ।इन्द्रो यवफलः प्रोक्तो वृक्षकः पाण्डुरद्रुमः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमभागे
)प्लक्षवृक्षः इति शब्दरत्नावली