| YouTube Channel

यमः (yamaH)

 
Hindi
Hindi
मौत के नियंत्रक
Apte Hindi
Hindi
यमः
पुं*
- यम् + घञ्
"संयत करना, नियंत्रित करना, दमन करना "
यमः
पुं*
- -
"नियन्त्रण, संयम"
यमः
पुं*
- -
आत्मनियन्त्रण
यमः
पुं*
- -
कोई महान् नैतिक कर्तव्य या धर्मसाधना
यमः
पुं*
- -
योग प्राप्ति के आठ अंगों या साधनों में पहला साधन आठ अंग यह है
यमः
पुं*
- -
"मृत्यु का देबता, मृत्यु का मूर्त रूप, यह सूर्य का पुत्र माना जाता है "
यमः
पुं*
- -
यमल
यमः
पुं*
- -
जोड़े में एक
यमः
पुं*
- यम्+घञ्
"प्रतिबन्ध, नियन्त्रण, दमन"
यमः
पुं*
- यम्+घञ्
आत्मसंयम
यमः
पुं*
- यम्+घञ्
कोई नैतिक कर्तव्य
यमः
पुं*
- यम्+घञ्
योग के आठ अङ्गों में से एक
यमः
पुं*
- यम्+घञ्
मृत्यु का देवता
यमः
पुं*
- यम्+घञ्
शनि
यमः
पुं*
- यम्+घञ्
कौवा
यमः
पुं*
- यम्+घञ्
‘दो’ की प्रतीकात्मक अभिव्यक्ति
यमः
पुं*
- यम्+घञ्
लगाम
यमः
पुं*
- यम्+घञ्
"चालक, रथवान"
Wordnet
Sanskrit
Synonyms:
यमौ, यमकौ, यमः, यमा, यमम्, यमकः, यमका, यमकम्, यमलः, यमला, यमलम्, द्वन्द्वम्, युगलम्, युगम्, यामलम्
noun
एकायाः मातुः एकसमये एकगर्भात् जातौ पुत्रौ।
"एतौ नकुलसहदेवौ पाण्डुपत्न्यः माद्रेः यमौ पुत्रौ।"
Synonyms:
यमः
noun
एकः दिक्पालः।
"यमः दक्षिणदिशः दिक्पालः अस्ति।"
Synonyms:
यमजः, यमः, यमा, यमकः, यमका, नारङ्गः, यमलः
noun
एकायाः मातुः एकसमये एकगर्भात् जाताभ्यां पुत्राभ्याम् एकः।
"लवकुशौ अवदत्- आवाम् यमजौ भ्रातरौ अस्मद्गुरुभिः रचितम् अयोध्यापतेः श्रीरामस्य चरितं गायावः।"
Synonyms:
मिथुनम्, द्वयम्, द्वन्द्वम्, युगम्, युगलम्, यमलम्, यामलम्, यमः, यमकम्, युतकम्
noun
मनुष्यादिप्राणिनां स्त्रीपुंसयोः युग्मम्।
"हा हन्त हन्त! कस्यापि बाणेन वियुतम् एतद् मृगमिथुनम्।"
Synonyms:
यमः
noun
तत् साधनं येन चित्तं धर्मे स्थिरीभवति।
"यमेन विना ध्यानं सम्भवति।"
Synonyms:
मिथुनम्, द्वयम्, द्वन्द्वम्, युगम्, युगलम्, यमलम्, यामलम्, यमः, यमकम्, युतकम्
noun
सजातीये अभिन्नरूपे अभिन्नाकारे द्वे वस्तुनी।
"अयि, पश्य। पारावतपक्षिणोर् मिथुनम् अस्ति तस्यां तरुशाखाखायाम्।"
Synonyms:
यमः, यमराट्, कृतान्तः, कालः, अन्तकः, वैवस्वतः, महिषध्वजः, महिषवाहनः, धर्मः, धर्मराजः, पितृपति, दण्डधरः, श्राद्धदेवः, शमनः, औडम्बरः, यमुनाभ्राता, दक्षिणदिक्पालः, दध्नः, भीमशासनः, शीर्णपादः, प्राणहरः, हरिः
noun
मृत्योः देवता, दक्षिणदिक्पालः यः जीवानाम् फलाफलम् नियमयति।
"दत्ताभये त्वयियमादपि दण्डधारे। "
Synonyms:
कर्तव्यम्, धर्मः, स्वधर्मः, कर्तव्यता, कार्यम्, कृत्यम्, क्रिया, नियमः, यमः, व्रतम्, धुरा, तपः
noun
यत् अवश्यं करणीयम्।
"देशसेवा इति अस्माकं परमं कर्तव्यम्।"
Synonyms:
यमौ, यमकौ, यमः, यमा, यमम्, यमकः, यमका, यमकम्, यमलः, यमला, यमलम्, द्वन्द्वम्, युगलम्, युगम्, यामलम्
adjective
गर्भावस्थायाम् एव यौ युगलत्वेन आसीत् तौ।
"अहो सादृश्यम् एतयोः यमयोः पुत्रयोः कः रामः श्यामः इति ज्ञातुम् असमर्थोऽहम्।"
Synonyms:
संयमः, संयामः, वियामः, वियमः, यामः, यमः, संयमनम्, नियमः, आत्मनियंत्रणम्, आत्मनिग्रहः
noun
चित्तादिवृत्तीनाम् नियंत्रणम्।
"संयमात् आरोग्यस्य रक्षणम्।"
Synonyms:
यमः, यमराजः, यमराट्
noun
सः खगोलीयपिण्डः यः वरुणस्य अपेक्षा सूर्यात् अतीव दूरे वर्तते।
"अधुना वैज्ञानिकाः यमं खगोलीयपिण्डं मन्यन्ते।"
वैजयन्तीकोषः
Sanskrit
Word: यमः
Root: यम
Gender: पुं
Number: all
अर्थः यमदेवः
Meaning(s):
God of death
Shloka(s):
1|2|33|2 यमः पितृपतिर्दण्डधरो महिषवाहनः॥ (स्वर्गकाण्डः/लोकपालाध्यायः)
1|2|34|1 यमराड् यमुनाभ्राता मन्दे वैवस्वतोऽन्तकः। (स्वर्गकाण्डः/लोकपालाध्यायः)
1|2|34|2 सावित्रेयः श्राद्धदेवः समवर्ती परेतराट्॥ (स्वर्गकाण्डः/लोकपालाध्यायः)
1|2|35|1 कालः कृतान्तः शमनः कीनाशो दक्षिणाधिपः। (स्वर्गकाण्डः/लोकपालाध्यायः)
1|2|35|2 धर्मराजः पुराणान्तः कालकुन्थो विशीर्णपात्॥ (स्वर्गकाण्डः/लोकपालाध्यायः)
Synonym(s):
1|2|33|2 यमः (यम) (पुं) God of death यमदेवः
1|2|33|2 पितृपतिः (पितृपति) (पुं) Epithet of Yama यमदेवः
1|2|33|2 दण्डधरः (दण्डधर) (पुं) Epithet of Yama यमदेवः
1|2|33|2 महिषवाहनः (महिषवाहन) (पुं) Epithet of Yama यमदेवः
1|2|34|1 यमराजः (यमराज) (पुं) Epithet of Yama यमदेवः
1|2|34|1 यमुनाभ्राता (यमुनाभ्रातृ) (पुं) Epithet of Yama यमदेवः
1|2|34|1 मन्दः (मन्द) (पुं) Epithet of Yama यमदेवः
1|2|34|1 वैवस्वतः (वैवस्वत) (पुं) Epithet of Yama यमदेवः
1|2|34|1 अन्तकः (अन्तक) (पुं) Epithet of Yama यमदेवः
1|2|34|2 सावित्रेयः (सावित्रेय) (स्त्री) Epithet of Yama यमदेवः
1|2|34|2 श्राद्धदेवः (श्राद्धदेव) (पुं) Epithet of Yama यमदेवः
1|2|34|2 समवर्ती (समवर्तिन्) (पुं) Epithet of Yama यमदेवः
1|2|34|2 परेतराजः (परेतराज) (पुं) Epithet of Yama यमदेवः
1|2|35|1 कालः (काल) (पुं) Epithet of Yama यमदेवः
1|2|35|1 कृतान्तः (कृतान्त) (पुं) Epithet of Yama यमदेवः
1|2|35|1 शमनः (शमन) (पुं) Epithet of Yama यमदेवः
1|2|35|1 कीनाशः (कीनाश) (पुं) Epithet of Yama यमदेवः
1|2|35|1 दक्षिणाधिपः (दक्षिणाधिप) (पुं) Epithet of Yama यमदेवः
1|2|35|2 धर्मराजः (धर्मराज) (पुं) Epithet of Yama यमदेवः
1|2|35|2 पुराणान्तः (पुराणान्त) (पुं) Epithet of Yama यमदेवः
1|2|35|2 कालकुन्थः (कालकुन्थ) (पुं) Epithet of Yama यमदेवः
1|2|35|2 विशीर्णपात् (विशीर्णपाद्) (पुं) Epithet of Yama यमदेवः
Related word(s):
परा_अपरासंबन्धः देवः
जातिः देवता
अन्यसंबन्धाः पञ्जिका
स्व_स्वामीसंबन्धः चित्रगुप्तः
पति_पत्नीसंबन्धः धूमोर्णा
Tamil
Tamil
யம: : புலன் அடக்கம்.
अमरकोशः
Sanskrit
Word: यमः
Root: यम
Gender: पुं
Number: all
Meaning(s):
crow
twin
curb
rein
Pluto
fellow
bridle
driver
bad horse
restraint
twin-born
charioteer
suppression
god of death
forming a pair
self-restraint
any rule or observance
one of a pair or couple
self-control forbearance
act of checking or curbing
any great moral rule or duty
symbolical name for the number two
Shloka(s):
1|1|58|1 धर्मराजः पितृपतिः समवर्ती परेतराट्। (स्वर्गवर्गः)
1|1|58|2 कृतान्तो यमुनाभ्राता शमनो यमराड्यमः॥ (स्वर्गवर्गः)
1|1|59|1 कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः। (स्वर्गवर्गः)
3|3|139|1 धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः। (नानार्थवर्गः)
3|3|175|2 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥ (नानार्थवर्गः)
3|3|216|1 कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु। (नानार्थवर्गः)
3|3|219|2 नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। (नानार्थवर्गः)
Synonym(s):
1|1|58|1 धर्मराजः (धर्मराज) (पुं) buddha, any king or prince, just or righteous king, Law conceived as a king
1|1|58|1 पितृपतिः (पितृपति) (पुं) lord of the pitRs, pitRs and the prajApatis
1|1|58|1 समवर्ती (समवर्तिन्) (पुं) being equal, acting uniformly, being equidistant, being of a fair or impartial disposition
1|1|58|1 परेतराट् (परेतराज्) (पुं)
1|1|58|2 कृतान्तः (कृतान्त) (पुं) fate, dogma, destiny, Saturday, conclusion, causing an end, closing the week, death personified, fixed form or name, bringing to an end, whose end is action, demonstrated conclusion, sinful or inauspicious action, leading to a decisive termination, inevitable result of actions done in a past existence
1|1|58|2 यमुनाभ्राता (यमुनाभ्रातृ) (पुं)
1|1|58|2 शमनः (शमन) (पुं) settler, destroyer, destroying, kind of pea, kind of antelope
1|1|58|2 यमराट् (यमराज्) (पुं)
1|1|58|2 यमः (यम) (पुं) crow, twin, curb, rein, Pluto, fellow, bridle, driver, bad horse, restraint, twin-born, charioteer, suppression, god of death, forming a pair, self-restraint, any rule or observance, one of a pair or couple, self-control forbearance, act of checking or curbing, any great moral rule or duty, symbolical name for the number two
1|1|59|1 कालः (काल) (पुं)
1|1|59|1 दण्डधरः (दण्डधर) (पुं) king, yama, judge, potter, punisher, mendicant, rod-bearer, door-keeper
1|1|59|1 श्राद्धदेवः (श्राद्धदेव) (पुं)
1|1|59|1 वैवस्वतः (वैवस्वत) (पुं) south, planet Saturn, name of a manu, relating to manu vaivasvata, coming from or belonging to the sun, relating or belonging to yama vaivasvata
1|1|59|1 अन्तकः (अन्तक) (पुं) yama, death, border, boundary, god of death, making an end, causing death, king or lord of death
3|3|139|1 धर्मः (धर्म) (पुं) bow, law, duty, mark, usage, right, thing, custom, virtue, manner, nature, statute, justice, morality, property, religion, practice, upaniSad, devotion, ordinance, attribute, character, to become, observance, good works, moral merit, peculiarity, righteousness, ninth mansion, dharmA-knowing, religious merit, steadfast decree, particular ceremony, propriety of conduct, religious abstraction, law of Northern Buddhism, Law or Justice personified, law or doctrine of Buddhism, ethical precepts of Buddhism, associating with the virtuous, that which is established or firm, peculiar condition or essential quality, customary observance or prescribed conduct
3|3|175|2 हरिः (हरि) (पुं) men, bay, sun, lion, horse, green, tawny, steed, brown, people, yellow, monkey, fallow, bearing, of yama, of ziva, greenish, carrying, of zukra, of a metre, of a demon, of a world, pale yellow, of a mountain, fawn-coloured, reddish brown, name of indra, name of brahmA, name of a dAnava, sign of the zodiac Leo, name of a son of garuDa, name of a son of parAvRt, name of a son of parAjit, name of a son of akampana, name of a son of tArakAkSa, wind or name of god of wind, of a particular high number, of various authors and scholars, yellow or reddish brown or green, name of a worshipper, name of viSNu, particular class of gods under manu tAmasa
3|3|216|1 कीनाशः (कीनाश) (पुं) niggard, kind of demon, kind of monkey, killing animals, cultivator of the soil
3|3|219|2 जीवितेशः (जीवितेश) (पुं)
Related word(s):
परा_अपरासंबन्धः देवः
जातिः देवता
शब्दकल्पद्रुमः
Sanskrit
यमः,
पुं,
(यमयति नियमयति जीवानां फलाफल-मिति यम् + अच् ।) दक्षिणदिक्पालः ।तत्पर्य्यायः धर्म्मराजः पितृपतिः सम-वर्त्ती परेतराट् कृतान्तः यमुनाभ्राता ७शमनः यमराट् कालः १० दण्डधरः ११श्राद्धदेवः १२ वैवस्वतः १३ अन्तकः १४ ।इत्यमरः ६१
धर्म्मः १५ धर्म्मराट् १६जीवितेशः १७ महिषध्वजः १८ औडम्बरः १९दण्डधारः २० कीनाशः २१ दध्नः २२ महिष-वाहनः २३ शीर्णपादः २४ भीमशासनः २५कङ्कः २६ हरिः २७ इति शब्दरत्नावली
कर्म्मकरः २८ इति जटाधरः
*
चतुर्द्दश-यमतर्पणं यथा, --“यां काञ्चित् सरितं प्राप्य कृष्णपक्षे चतुर्द्दशीम् ।यमुनायां विशेषेण नियतस्तर्पयेद्यमान्
यमाय धर्म्मराजाय मृत्यवे चान्तकाय ।वैवस्वताय कालाय सर्व्वभूतक्षयाय
औडम्बराय दध्नाय नीलाय परमेष्ठिने ।वृकोदराय चित्राय चित्रगुप्ताय वै नमः
एकैकस्य तिलैर्मिश्रांस्त्रींस्त्रीन् दद्यात् जला-ञ्जलीन् ।संवत्सरकृतं पापं तत्क्षणादेव नश्यति
”इति तिथ्यादितत्त्वधृतभविष्यपुराणवचनम्
तस्योत्पत्तिर्यथा, --“संज्ञा रविणा दृष्टा निमीलयति लोचने ।यतस्ततः सरोषोऽर्कः संज्ञां निष्ठुरमब्रवीत्
मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् ।तस्माज्जनिष्यसे मूढे ! प्रजासंयमनं यमम्
”मार्कण्डेय उवाच ।“ततस्तस्यास्तु संजज्ञे भर्त्तृशापेन तेन वै ।यमश्च यसुना चेयं प्रख्याता सुमहानदी
”इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तरे ७७ अः
पुण्यात्मनां सम्बन्धे तस्य रूपं यथा, --“तानागतांस्ततो दृष्ट्वा नरान् धर्म्मपरायणान् ।भास्करिः प्रीतिमासाद्य स्वयं नारायणो भवेत्
चतुर्ब्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः ।शङ्खचक्रगदापद्मधारी गरुडवाहनः
स्वर्णयज्ञोपवीती स्मेरचारुतराननः ।किरीटी कुण्डली चैव वनमालाविभूषितः
”पापिनां सम्बन्धे तस्य रूपं यथा, --“त्रिंशद्योजनदीर्घाङ्गो वापीसदृशलोचनः ।धूम्रवर्णो महातेजाः प्रलयाम्भोधरध्वनिः
तृणाधिराजलोमां ज्वलदग्निशिखाग्रवत् ।नासारन्ध्रस्फुरच्छ्वासस्वनैर्ज्जितमहानिलः
सुदीर्घदशनश्रेणिः सूर्पोपमनखावलिः ।प्रचण्डमहिषारूढः संदष्टदशनच्छदः
दण्डहस्तश्चर्म्मवासा भ्रूकुटीकुटिलाननः
”इति पाद्मे क्रियायागसारे २२ अध्यायः
अस्यानधिकारो यथा, --“प्रोवाच धर्म्मं यदहं ब्रवीमिकार्य्यं त्वया तत् खलु धर्म्मराज !
ब्रह्मोवाच ।ये भक्ताः पुण्डरीकाक्षे कर्म्मणा मनसा गिरा ।स्वकर्म्मनिरता दान्ता नियम्या हि ते त्वया
कृष्णः संपूजितो यैस्तु यैः कृष्णः समुपासितः ।यैश्च नित्यं स्मृतः कृष्णो ते त्वद्बिषयोपगाः
नमः कृष्णाच्युतानन्तं वासुदेवेत्युदीरितम् ।यैर्भावभावितो धर्म्म ! ते त्वद्बिषयोपगाः
दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति ।श्रद्धापुरःसरैर्धर्म्म ! ते त्वद्विषयोपगाः
उत्तिष्ठद्भिः स्वपांद्भश्च व्रजद्भिश्च जनार्दनः ।यैः स्मृतस्तु सदा धर्म्म ! ते त्वद्बिषयोपगाः
सर्व्ववाधासु ये कृष्णं संस्मरन्त्युच्चरन्ति ।तद्भावभाविनो ये ते त्वद्बिषयोपगाः
एव धाता सर्व्वस्य तन्नियोगकरा वयम् ।यमसंयमने त्यक्तः सोऽस्मत्संयमको हरिः
”इति वह्निपुराणे नरसिंहप्रादुर्भावाध्यायः
अपि ।ब्राह्मण उवाच ।“यत् कृत्वा सुमहत् पुण्यं धर्म्माधर्म्मविनिणये ।प्रमाणं त्वं हि लोकानां फलं मे ब्रूहि तद्-यम् !
”यम उवाच ।यमो यम इति श्रुत्वा वृथा ह्युद्विजते जनः ।आत्मा यमितो येन तस्यैव यमः स्मृतः
आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम् ।ध्यानं प्रसादो माधुर्य्यं सन्तोषश्च यमा दश
यमैश्च नियमैश्चैव यः करोत्यात्मसंयमम् ।स चादृष्ट्वा तु मां याति परं ब्रह्म सनातनम्
”इति तत्रैव यमशर्म्मिलोपाख्यानम्
*
सावित्रीकृतं यमाष्टकं स्तोत्रं यथा, --सावित्र्युवाच ।“तपसा धर्म्ममाराध्य पुष्करे भास्करः पुरा ।धर्म्मांशं यं सुतं प्राप धर्म्मराजं नमाम्यहम्
समता सर्व्वभूतेषु यस्य सर्व्वस्य साक्षिणः ।अतो यन्नाम शमनमिति तं प्रणमाम्यहम्
येनान्तश्च कृतो विश्वे सर्व्वेषां जीविनां परम् ।कर्म्मानुरूपकाले तं कृतान्तं नमाम्यहम्
बिभर्त्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ।नमामि तं दंण्डधरं यः शास्ता सर्व्वदेहिनाम्
विश्वे कलयत्येव यः सर्व्वायुश्च सन्ततम् ।अतीव दुर्निवार्य्यञ्च तं कालं प्रणमाम्यहम्
तपस्वी वैष्णवो धर्म्मी संयमी विजितेन्द्रियः ।जीविनां कर्म्मफलदस्तं यमं प्रणमाम्यहम्
स्वात्मारामश्च सर्व्वज्ञो मित्रः पुण्यकृतां भवे ।पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम्
यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा ।यो ध्यायति परं ब्रह्म ब्रह्मवंशं नमाम्यहम्
इत्युक्त्वा सा सावित्री प्रणनाम यमं मुने ।यमस्तां विष्णुभजनं कर्म्मपाकमुवाच
इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् ।यमात्तस्य भयं नास्ति सर्व्वपापात् प्रमुच्यते
महापापी यदि पठेत् नित्यं भक्त्या नारद ! ।यमः करोति तं शुद्धं कायव्यूहेन निश्चितम्
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २६ अध्यायः
*
पारिभाषिकयमदन्ता यथा, --“कार्त्तिकस्य दिनान्यष्टावष्टाग्रहायणस्य ।यमस्य दशना एते लघ्वाहारी जीवति
”इति वैद्यकम्
*
(“पङ्कमत्स्यवसातैलघृतगन्धांश्च ये नराः ।मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम्
यूका ललाटमायान्ति बलिं नाश्नन्ति वायसाः ।येषां वापि रतिर्नास्ति यातारस्ते यमालयम्
”इति सुश्रुते सूत्रस्थाने ३१ अध्यायः
अस्य शापवृत्तान्तं शापान्तवृत्तान्तञ्च यम-राजशब्दे द्रष्टव्यम्
*
) शरीरसाधना-पेक्षनित्यकर्म्म इत्यमरः ४९
“उपायान्तरनिरपेक्षं शरीरमात्रसाध्यं नित्यंयावज्जीवमवश्यकार्य्यं यत्कर्म्म सत्यास्तेयादि तद्-यमः यमेरल् ।‘अहिंसा सत्यवचनं ब्रह्मचर्य्यमकल्कता ।अस्तेयमिति पञ्चैते यमाश्चैव व्रतानि
’इति मनुः ।” इति तट्टीकायां भरतः
अष्टाङ्गयोगान्तर्गताङ्गविशेषः तुदशविधो यथा, --“ब्रह्मचर्य्यं दया क्षान्तिर्ध्यानं सत्यमकल्कता ।अहिंसास्तेयमाधुर्य्यं दमश्चैते यमाः स्मृताः
”इति गारुडे १०९ अध्यायः
*
पञ्चविधो यथा, --“अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यापरिग्रहौ ।यमाः पञ्चाथ नियमाः शौचं द्विविधमीरितम्
”इति तत्रैव २३० अध्यायः
“अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा यमाः ।”इति पातञ्जले साधनपादे ३०
यच्छति निय-च्छति इन्द्रियग्राममनेनेति यम + घञ् ।)संयमः
यथा, अमरः १८ ।“वियामो वियमो यामो यमः संयामसंयमौ
”काकः शनिः इति मेदिनी मे, २३
(विष्णुः यथा, महाभारते १३ १४९ ३० ।“अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः
”“अन्तर्यच्छतीति यमः ।” इति तद्भाष्ये शङ्करा-चार्य्यः
)
यमः, त्रि, (यच्छति एकत्र गर्भाशये निरतोभवतीति यम् + अच् ।) यमजः इतिमेदिनी मे, २३
तयोर्ज्येष्ठत्वनिरूपणं यथा, “बहिर्वर्णेषु चारित्राद्यमयोः पूर्व्वजन्मतः ।यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् ।सन्तानः पितरश्चैव तस्मिन् ज्यैष्ठं प्रतिष्ठितम्
जन्मप्राथम्यात् ज्यैष्ठं यमयोः तु निषेक-प्राथम्यात् जन्मप्राथम्यसन्देहे मुखदर्शनप्राथ-म्यत् ।” इति उद्वाहतत्त्वम्
(यथा, --“बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ ।यमावित्यभिधीयेते धर्म्मेतरपुरःसरौ
”इति सुश्रुते शारीरस्थाने द्बितीयेऽध्याये
अनयोरेकस्य वृद्धिरपरस्य क्षीणताकथमित्यतआह ।“कर्म्मात्मकत्वाद्विषमांशभेदात्शुक्रासृजं वृद्धिमुपैति कुक्षौ ।एकोऽधिको न्यूनतरो द्वितीयएवं यमेऽप्यभ्यधिको विशेषः
”इति चरके शारीरस्थाने द्बितीयेऽध्याये
)
कृदन्तरूपमाला
Sanskrit
1 {@“यम उपरमे”@} 2 3 ‘यमो गन्धने’ 4 इति सूत्रे गन्धनरूपस्य 5 अर्थस्याप्युपादानात्, धातोरस्योपसर्गवशात्, स्वभावाद् वा तत्राप्यर्थे वृत्तिरिति ज्ञेयम्।
भ्वादिष्वेव पुरस्तात् 6 ‘यमोऽपरिवेषणे’ 7 इति यत् पठ्यते--तत्तु ‘यम उपरमे’ इत्युत्तरत्रात्रैव विकरणे पठितस्यार्थविशेषे घटादिपाठ--तन्निषेधार्थरूपप्रयोजनद्वय- बशादिति ज्ञेयम्।
उत्तरत्र चैतद् व्यक्तीभविध्यति।
‘परिवेष्टने एव मित्’ इति काशकृत्स्नः।
इति केचित्।]] ‘यमेरुपरमे यच्छेद् यमयेत् परिवेषणे।’ 8 इति देवः।
यामकः-मिका, 9 यमकः-मिका, 10 आयामकः-मिका, 11 यियंसकः-सिका, 12 यंयमकः-यंंय्यमकः-मिका
13 यन्ता-यन्त्री, यमयिता-आयामयिता-त्री, यियंसिता-त्री, यंयमिता-त्री
14 15 यच्छन्-न्ती, नियमयन्-यामयन्-न्ती, यियंसन्-न्ती
-- यंस्यन्-न्ती-ती, नियमयिष्यन्-यामयिष्यन्-न्ती-ती, यियंसिष्यन्-न्ती-ती
-- 16 आयच्छमानः, 17 18 भार्याम्] उपयच्छमानः, 19 पाणिम्] आयच्छमानः, 20 21 संयच्छमानः, 22 उद्यच्छमानः, 23 आयच्छमानः, यमयमानः, नियमयमानः, 24 आयामयमानः, 25 आयियंसमानः, यंयम्यमानः
आयंस्यमानः, उपयंस्यमानः, संयंस्यमानः-उद्यंस्यमानः-आयंस्यमानः, आयामयिष्यमाणः, यमयिष्यमाणः-नियमयिष्यमाणः, आयियंसिष्यमाणः, यंयमिष्यमाणः
26 27 रिपुयत्-रिपुयतौ-रिपुयतः
28 वियत्-वियतौ-वियतः
29 यतम्-यतः-यतवान्, नियमितः-आयामितः, यियंसितः, यंयमितः-तवान्
30 यमः, 31 वाचंयमः 32, 33 यतिः, 34 आयामी, 35 वाग्यामः, यमः, नियमः-आयामः, 36 संयमनः, यियंसुः, यंयमः
यन्तव्यम्, यमयितव्यम्-आयामयितव्यम्, यियंसितव्यम्, यंयमितव्यम्
यमनीयम्, यमनीयम्-यामनीयम्, यियंसनीयम्, यंयमनीयम्
37 यम्यम्, 38 अनियम्यम्-विनियम्यम्, नियाम्यम्, यम्यम्-आयाम्यम्, यियंस्यम्, यंयम्यम्
39 ईषद्यमः-दुर्यमः-सुयमः
-- -- -- यम्यमानः, यम्यमानः-आयाम्यमानः, यियंस्यमानः, यंयम्यमानः
आयामः, 40 उद्यमः, 41 संयामः 42 -उपयमः-उपयामः-नियमः-नियामः, यमः-यामः, यियंसः, यंयमः
यन्तुम्, यमयितुम्-आयामयितुम्, यियंसितुम्, यंयमितुम्
43 यतिः, 44 संयत्, यमना-आयामना, यियंसा, यंयमा
यमनम्, 45 यमनम्-आयामनम्, यियंसनम्, यंयमनम्
46 यत्वा, यमयित्वा-यामयित्वा, यियंसित्वा, यंयमित्वा
47 प्रयत्य-प्रयम्य, 48 प्रयमय्य-प्रयाम्य, प्रयियंस्य, प्रयंयम्य
49 यामम् २, यत्वा २, 50 यमम् २-यामम् २-आयामम् २, यमयित्वा २-यामयित्वा २, यियंसम् २, यियंसित्वा २, यंयमम्
यंयमित्वा
51 इत्युनन्प्रत्ययः।
यमुना = नदीविशेषः।]] यमुना, 52 इति त्रप्रत्ययः।
यच्छतीति यन्त्रम् = शरीरसाधनम्, पीडनञ्च।]] यन्त्रम्, 53 इति संज्ञायां क्वुनि रूपमेवम्।
यमकम् = शब्दालङ्कारविशेषः।]] यमकम्।
प्रासङ्गिक्यः
01
=>
(१३४०)
02
=>
(१-भ्वादिः-८१९-९८४। सक। अनि। पर।)
03
=>
[[[अ]
04
=>
(१-२-१५)
05
=>
(गन्धनम् = सूचनम्’ परदोषाविष्कार इति यावत्।)
06
=>
(८१९ संख्यायां)
07
=>
(ग। सू। भ्वादौ)
08
=>
(श्लो। १४८)
09
=>
[[१। ‘यमोऽपरिवेषणे’ (ग। सू। भ्वादौ) इति पठ्यते। तस्य चायमर्थः-- ‘न कम्यमिचमाम्’ (ग। सू। भ्वादौ) इत्यतो नेति वर्तते। उपरमार्थे पठितो यो यमधातुः एव परिवेषणरूपार्थभिन्नार्थ एव घटादिपाठं प्राप्नोति--अर्थात् परिवेषणार्थे घटादिः--इति। तथा ‘नियमयन् ब्राह्मणान्’ इत्यादिषु परिवेषणार्थकत्वात् घटादित्वम्। तेन मित्त्वात्, ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाह्रस्वे रूपमेवं सर्वत्र बोध्यम्। यदा तु परिवेषणभिन्नार्थकत्वं--तदानीं आयामयन् (= द्राघयन्, व्यापारयन् वा इत्यर्थः) इत्यादिषु मित्त्वनिषेधात् उपधावृद्धिरेवेति बोध्यम्। एवमुत्तरत्रापि।]]
10
=>
[[२। मैत्रेयरक्षित-काशिकाकार-न्यासकार-धातुवृत्तिकार-सिद्धान्त- कौमुदीकारमतानुसारेणात्र प्रयोगे मित्त्वनिषेधात् रूपमेवम्। क्षीरस्वामी तु ‘यमोऽपरिवेषणे’ (ग। सू। भ्वादिः) इत्यत्र पूर्वस्मात् गणसूत्रात् ‘न’ इत्यननुवर्त्य आयमयन् इत्येव साधुरिति विपरीतेन साधयति--तथाहि-- “यमयति, नियमयति, परिवेषणे तु--यामयति श्राद्धेऽन्नम्, आयामयति चन्द्रम्।” इति। तदेतत् पुरुषकारादिषु बहुधा खण्डितमिति नेह प्रतन्यते।]]
11
=>
[[३। सन्नन्तात् द्वित्वादिके मकारस्य नत्वे, ‘नश्चापदान्तस्य--’ (८-३-२४) इति अनु- स्वारे रूपमेवम्।]]
12
=>
[[४। यङन्तात् ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति नुगागमः, तस्य पदान्तवद्भावेन परसवर्णविकल्पः।]]
13
=>
[[५। तृजादिषु ‘यमिर्ञमन्तेष्वनिडेक इष्यते’ (व्याघ्रभूतिकारिका, भाष्ये ७-२-१०) इति वचनाद् धातोरनिट्त्वम्। मकारस्यानुस्वारे परसवर्णे चैवं रूपम्।]]
14
=>
[पृष्ठम्१०७१+ २६]
15
=>
[[१। शतरि, ‘इषगमियमां छः’ (७-३-७७) इति छकारेऽन्तादेशे तुकि, तस्य श्चुत्वेन चकारे रूपमेवम्। एवं शानजन्तेष्वपि प्रक्रियोह्या।]]
16
=>
[[२। ‘आङो यमहनः’ (१-३-२८) इति अकर्मकादस्मादाङ्पूर्वकादात्मनेपदं शानच्। अकर्मकादित्युक्तत्वात् आयच्छन् कूपाद् रज्जुम्’ इत्यत्र शतैव।]]
17
=>
[[आ। ‘श्रियमायच्छमानाभिरुत्तमाभिरनुत्तमाम्।।’ भ। का। ८। ४६।]]
18
=>
[[[३। ‘उपाद् यमः स्वकरणे’ (१-३-५६) इत्यात्मनेपदम्। स्वकरणम् = स्वीकरणम्। पाणिग्रहणमिति भट्टोजिप्रभृतयः। तत्तु भाष्याद्यनारूढत्वादुपेक्ष्यमिति शेखरकारादयः। स्वकरणभिन्नार्थे ‘देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छन्’ इत्यत्र शतैव।]]
19
=>
[[[४। ‘स्वाङ्गकर्मकाच्च--’ (वा। १-३-२७) इति वचनादात्मनेपदम्।]]
20
=>
[व्रीहीन्]
21
=>
[[५। ‘समुदाङ्भ्यो यमोऽग्रन्थे’ (१-३-७५) इति सम् उत् आङ् पूर्वकादस्मात् यमधातोः ग्रन्थभिन्नविषये वर्तमानात् आत्मनेपदम्। ‘अग्रन्थे’ इत्युक्तत्वात् ‘उद्यच्छन् चिकित्सां वैद्यः’ इत्यादिषु शतैव। ‘स्वान् व्रीहीन् संयच्छन्’ इत्यादिषु तु ‘विभाषोपपदेन प्रतीयमाने’ (१-३-७७) इति पक्षे शताऽपि साधुरेवेति ज्ञेयम्।]]
22
=>
[भारम्]
23
=>
[वस्त्रम्]
24
=>
[[६। ‘न पादम्याङ्यम--’ (१-३-८९) इति ण्यन्तात् परस्मैपदनिषेधः। ‘अणा- वकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति प्राप्तस्य परस्मैपदस्यापवादोऽयम्। केचित् तु कर्त्रभिप्रायक्रियाफलार्थतया अत्रात्मनेपदमिति
\n\n परं तु परगामिनि क्रियाफले परस्मैपदमपीति वदन्ति।]]
25
=>
[[७। ‘पूर्ववत् सनः’ (१-३-६२) इति सनः प्रकृतेर्निदान एव सन्नन्तादत्रापि शानजिति ज्ञेयम्।]]
26
=>
[पृष्ठम्१०७२+ ३०]
27
=>
[[१। रिपून् यच्छति = उपरतं करोति इत्यर्थे कर्मण्युपपदे, ‘क्विप् च’ (३-२-७६) इति क्विप्। ‘गमादीनाम्--’ (वा। ६-४-४०) इति वचनादनुनासिकलोपे तुकि रूपमेवम्।]]
28
=>
[[२। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति क्विपि रूपमेवम्। वियत् = विष्णुपदम्।]]
29
=>
[[३। निष्ठायाम्, ‘अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति’ (६-४-३७) इत्यनुनासिकलोपे रूपम्। एवमेव क्त्वाक्तिन्प्रभृतिष्वपि रूपनिष्पत्तिर्ज्ञेया।]]
30
=>
[[४। यच्छतीति यमः। कर्तरि पचाद्यच्।]]
31
=>
[[५। ‘वाचि यमो व्रते’ (३-२-४०) इति वाग्रूपे कर्मण्युपपदे खच्प्रत्ययः। ‘वाचंयम- पुरन्दरौ च’ (६-३-६९) इत्यनेनामन्तत्वं निपात्यते। निपातनाद् द्वितीयायाः अलुक्। वाचंयमः = मौनव्रती।]]
32
=>
[[आ। ‘वाचम्यमान् स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्।’ भ। का। ३-४१।]]
33
=>
[[६। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति कर्तरि संज्ञायां क्तिच्प्रत्ययः, बाहुलकात् ‘न क्तिचि दीर्घश्च’ (६-४-३९) इति प्रवर्तते। नितरां मन आदिकं यच्छतीति यतिः। अनुनासिकलोपोऽपि बाहुलकादेवेति ज्ञेयम्। केचित् तु ‘स्त्रियां क्तिन्’ (३-३-९४) इति क्तिन्, बाहुलकात् पुंंल्लिङ्गत्वमिति वदन्ति।]]
34
=>
[[७। तच्छीलादिषु कर्तृषु, ‘सम्पृचानुरुधाङ्यम--’ (३-२-१४२) इत्यादिना, आङ्पूर्वकादस्माद् घिनुण्प्रत्यये रूपमेवम्।]]
35
=>
[[८। व्रतभिन्नार्थे विवक्षिते, वाचं यच्छतीत्यर्थे ‘कर्मण्यण्’ (३-२-१) इत्यण्प्रत्यये रूपमेवम्।]]
36
=>
[[९। ण्यन्तात्, नन्द्यादित्वात् (३-१-१३४) कर्तरि-ल्युप्रत्यये अनादेशे रूपम्।]]
37
=>
[[१०। ‘गदमदचरयमश्चानुपसर्गे’ (३-१-१००) इति हलन्तलक्षणण्यदपवादतया यत्प्रत्ययः। यद्यपि, ‘पोरदुपधात्’ (३-१-९८) इत्येवात्र यत् सिद्धः, तथापि यत् अनुपसृष्टादेव धातोरिति समर्थनाय पृथक् यमधातोरुपादानमिति ज्ञेयम्। एवं निरूढत्वात्, उपसृष्टे तु नियाम्यम् इत्यादिकानि ण्यदन्तान्येव साधूनि।]]
38
=>
[[११। ‘--अनुपसर्गे’ (३-१-१००) इत्युक्तत्वात्, कथमत्र सोपसर्गस्थले यत्प्रत्ययस्योप- पत्तिरिति शङ्कित्वा, ‘तेन तत्र भवेद् विनियम्यम्।’ इति व्याघ्रभूतिकारिकायां ‘विनियम्यम्’ इत्युक्तत्वात्, विपूर्वकात्, निपूर्वकाच्च यदेवेति व्याख्यातारः समर्थयन्ति। तेन, ‘अनियम्यस्य नायुक्तिः--’ (न्यायकुसुमाञ्जलिः ३-१९) ‘त्वया नियम्या ननु दिव्यचक्षुषा--’ इत्यादिप्रयोगा उपपन्ना इति ज्ञेयम्।]]
39
=>
[पृष्ठम्१०७३+ २९]
40
=>
[[१। उत्पूर्वकादस्माद् घञि, यद्यपि वृद्धौ सत्याम्--उद्यामः इति न्याय्यम्
\n\n तथापि ‘अड उद्यमे’ (भ्वादिः-अक। सेट्।) इत्यादिनिर्देशबलादत्र भावेऽबेवेति व्याख्यानेषु समर्थितम्]]
41
=>
[[२। ‘यमः समुपनिविषु च’ (३-३-६३) इति वैकल्पिकोऽप्प्रत्ययः। पक्षे घञ्। तेन रूपद्वयमत्र सर्वत्रेति ज्ञेयम्। बाहुलकात्, संज्ञायां पुंसि घप्रत्यये वा यमः इत्यपि साधुः। यमोऽस्यास्तीति यमी।]]
42
=>
[[आ। ‘संयामवन्तो यतिवत्, निनादानपरेऽमुचन्।।’ भ। का। ७। ५७।]]
43
=>
[[३। स्त्रियां भावादौ क्तिन्प्रत्ययेऽनुनासिकलोपे रूपमेवम्। यतिः = वृत्तेषु विच्छित्ति- विशेषद्योतकोऽवसानविशेषः।]]
44
=>
[[४। ‘सम्पदादिभ्यः--’ (वा। ३-३-१०८) इति भावे स्त्रियां क्विपि, ‘गमादीनामिति वक्तव्यम्’ (वा। ६-४-४०) इत्यनुनासिकलोपे तुकि रूपमेवम्। बाहुलकादत्र क्विबिति ज्ञेयम्। संयत् = युद्धम्। सुरूपिणी कन्या च।]]
45
=>
[[B। ‘निशम्यया मञ्जुगिरा कदा नः यामयेद्वा यमनादिकार्ये।।’ धा। का। २। १८।]]
46
=>
[[५। क्त्वायामनुनासिकलोपे रूपमेवम्। “उदिदिति श्रीभोजः। यत्वा, यमि- त्वा।” इति क्षीरस्वामी। तन्मते धातोरस्य वलाद्यार्धधातुकेषु सर्वत्र यमिता-यन्ता इत्यादिकानि रूपाणि ज्ञेयानि। परं तु भाष्ये (७-२-१०) अनिट्कारिकाप्रकरने यमधातोरस्योपसंग्रहणात् पक्षोऽयमप्रामाणिक इति, यमि- त्वा इत्यादयः प्रयोगा अपाणिनीया इति, यदि तेषां प्रामाणिकत्वं, तदा व्याकर- णान्तररीत्या, बाहुलकाद्वा निर्वाहः करणीय इति ज्ञेयम्।]]
47
=>
[[६। ‘वा ल्यपि’ (६-४-३८) इत्यत्र व्यवस्थितविभाषाश्रयणात्, मकारान्तानामनिटां विकल्पेनानुनासिकलोपः। तेनानुनासिकलोपपक्षे तुकि, तदभावपक्षे रूपद्वय- मत्रेति ज्ञेयम्।]]
48
=>
[[७। ण्यन्ताल्ल्यपि, मित्त्वपक्षे उपधाह्रस्वे, ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
49
=>
[पृष्ठम्१०७४+ २६]
50
=>
[[१। ण्यन्तात् मित्त्वपक्षे, ‘चिण्णमुलोः--’ (६-४-९३) इति दीर्घविकल्पनाद्रूपद्वयमिति बोध्यम्।]]
51
=>
[[२। ‘अजियमिशीङ्भ्यश्च’ [द। उ। ५-६१]
52
=>
[[३। ‘गृधृवीपचिवचियमि--’ [द। उ। ८। ८९]
53
=>
[[४। ‘क्वुन् शिल्पिसंज्ञयोः--’ [द। उ। ३। ५]