यन्त्रं (yantraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritयन्त्रं, (यच्छत्यत्रेति । यम + “गुधृवीपचिवचि-यमिसदिक्षदिभ्यस्त्रः ।” उणा० ४ । १६६ ।इति त्रः ।) देवाद्यधिष्ठानम् ॥
(यथा, देवी-भागवते । ३ । २६ । २१ ।“अर्च्चाभावे तथा यन्त्रं नवार्णमन्त्रसंयुतम् ।स्थापयेत् पीठपूजार्थं कलसं तत्र पार्श्वतः ॥
”)पात्रभेदः । नियन्त्रणम् । इति हेमचन्द्रः ॥
अग्नियन्त्रम् । इति महाभारतटीकायां नील-कण्ठः ॥
कामान् वन्दूक इत्यादि भाषा ॥
* ॥
वाद्यम् । यथा, --“यन्त्रस्य गुणदोषौ न विचार्य्यौ मधुसूदन ! ।अहं यन्त्रं भवान् यन्त्री न मे दोषा न मे गुणाः ॥
”इति महाभारतम् ॥
दारुयन्त्रादि । कल इति भाषा । यथा, --“ईश्वरः सर्व्वभूतानां हृद्देशेऽर्ज्जुन ! तिष्ठति ।भ्रामयन् सर्व्वभूतानि यन्त्रारूढानि मायया ॥
”इति श्रीभगवद्गीतायाम् । १८ । ६१ ॥
अस्यार्थः । “सर्व्वभूतानां हृन्मध्ये इश्वरोऽन्तर्यामीतिष्ठति । किं कुर्व्वन् सर्व्वाणि भूतानि माययानिजशक्त्या भ्रामयंस्तत्तत्कर्म्मसु प्रवर्त्तयन् यथादारुयन्त्रमारूढानि कृत्रिमाणि भूतानि सूत्र-धारो लोके भ्रामयति तद्बदिति । यद्बा यन्त्राणिशरीराणि आरूढानि भूतानि देहाभिभानिनोजीवान् भ्रामयन्नित्यर्थः ।” इति श्रीधरस्वामी ॥
अथ पूजाधारयन्त्रम् । तत्र नारदीये ।“आपोऽग्निर्हृदयं चक्रं विष्णोः क्षेत्रसमुद्भवम् ।यन्त्रञ्च प्रतिमास्थानमर्च्चने सर्व्वदा हरेः ॥
”गौतमीये ।“शालग्रामे मणौ यन्त्रे प्रतिमामण्डलेषु च ।नित्यं पूजा हरेः कार्य्या न तु केवलभूतले ॥
”योगिनीतन्त्रे ।“लिङ्गस्थां पूजयेद्देवीं पुस्तकंस्थां तथैव च ।मण्डलस्थां महामायां यन्त्रस्थां प्रतिमासु च ।जलस्थां वा शिलास्थां वा पूजयेत् परमेश्वरीम् ॥
”एतत् सर्व्वं यन्त्राभावे । कौलावलीये ।“यत्रापराजितापुष्पं जवापुष्पञ्च विद्यते ।करवीरे शुक्लरक्ते द्रोणं वा यत्र तिष्ठति ।तत्र देवी वसेन्नित्यं तद्यन्त्रे चण्डिकार्च्चनम् ॥
”एतत् सर्व्वयन्त्राभावे । तथा च ।“यन्त्रं मन्त्रमयं प्रोक्तं मन्त्रात्मा देवतैव हि ।देहात्मनोर्यथा भेदो यन्त्रदेवतयोस्तथा ॥
”तथा ।“आदौ लिखेद्यन्त्रराजं देवतायाश्च विग्रहम् ।कामक्रोधादिदोषोत्थसर्व्वदुःखनियन्त्रणात् ॥
यन्त्रमित्याहुरेतस्मिन् देवः प्रीणाति पूजितः ।विना यन्त्रेण पूजायां देवता न प्रसीदति ॥
दुःखनिर्यन्त्रणाद्यन्त्रमित्याहुस्तन्त्रवेदिनः ॥
”इति यन्त्रपूजाप्राधान्यम् ॥
* ॥
अथ धारणयन्त्राणि । तत्रादौ भुवनेश्वरी-यन्त्रम् । शारदायाम् ।“आलिख्याष्टदिगर्गलान्युदरगं पाशादिकंत्र्यक्षरंकोष्ठेष्वङ्गमनून् परेषु विलिखेदष्टार्णमन्त्रद्बयम् ।अच्पूर्व्वापरषट्कयुग् लयवरान् व्योमास-नानर्गले-ष्वालिख्येन्द्रजलाधिपादिगुणशः पंक्तिद्वयात्तत्-परम् ॥
कोष्ठेष्वष्टयुगार्णमात्मसहितां युग्मस्वरान्तर्गतांमायां केशरगां दलेषु विलिखेन्मलं त्रिपंक्ति-क्रमात् ।त्रिः पाशाङ्कुशवेष्टितञ्च लिपिभिर्व्वीतं क्रमाद्-व्युत्क्रमात्पद्मस्थेन घटेन पङ्कजमुखेनावेष्टितं तद्बहिः ॥
”घटार्गलमिदं यन्त्रं मन्त्रिणां श्रीप्रदं महत् ।पाशश्रीशक्तिकन्दर्पकामशक्तीन्दिराङ्कुशाः ॥
प्रथमोऽष्टाक्षरो मन्त्रस्ततः कामिनि रञ्जिनि ।स्वाहान्तोऽष्टाक्षरः सद्भिरपरः परिकीर्त्तितः ॥
ह्रीं गौरि रुद्रदयिते योगेश्वरि सवर्म्मफट् ।द्विठान्तः षोडशार्णोऽयं मन्त्रः सद्भिरुदीरितः ॥
”इति घटार्गलयन्त्रम् ॥
* ॥
“तारे हुँ विलिखेत् सरोजकुहरे साध्याभि-धानान्वितंमन्त्रार्णान् वसुसंख्यकान् वसुदलेष्वालिख्यतद्बाह्यतः ।शक्त्या त्रिः परिवेष्टितं घटगतं पद्मस्थमब्जा-ननंयन्त्रं वश्यकरं ग्रहादिभयहृल्लक्ष्मीप्रदंकीर्त्तिदम् ॥
”इति त्वरितायन्त्रम् ॥
* ॥
“पद्मं भानुदलान्वितं प्रविलिखेत् तत्कर्णिकायांपुन-स्तारं शक्तिगबीजसाध्यसहितं तत्केशरेषुक्रमात् ।मर्दिन्यामनुसम्भवान् युगलशो वर्णान् पुनःपत्रगान्मन्त्रार्णान् गुणशो विधाय विलिखेदन्त्यंतदन्त्ये दले ॥
”मन्त्रस्तु ।“उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् ।यदि शक्यमशक्यं वा तन्मे भगवति शमयस्वाहा ॥
मातृकार्णेन संवीतं भूपुरद्वयमध्यगम् ।यन्त्रञ्च विन्ध्यवासिन्याः प्रोक्तं सर्व्वसमृद्धिदम् ॥
रक्षाकरं विशेषेण क्षुद्रभूतादिनाशनम् ।राज्यदं भ्रष्टराज्यानां वश्यदं वश्यमिच्छताम् ॥
सुतार्थिनीनां सुतदं रोगिणां रोगशान्तिदम् ।बहुना किमिहोक्तेन यन्त्रं यत् कामदो मणिः ॥
”इति वनदुर्गायन्त्रम् ॥
* ॥
अथ लक्ष्मीयन्त्रम् ।“वेदादिस्थितसाध्यनामयुगशः श्रीशक्ति-मारान्वितंकिञ्जल्केषु दिनेशपत्रविलसन्मन्त्राक्षरं तद्बहिः ।पद्मं व्यञ्जनकेशरं स्वरलसत्पत्राष्टयुग्मं धरा-विम्बाभ्यां वषडन्तया त्वरितया यन्त्रं लिखेद्-बेष्टितम् ।भूपुरद्वयकोणेषु हक्षौ लेख्यौ पुनः पुनः ।महालक्ष्मीयन्त्रमिदं सर्व्वैश्वर्य्यफलप्रदम् ॥
सर्व्वदुःखप्रशमनं सर्व्वापद्बिनिवारकम् ।बहुना किमिहोक्तेन परमस्मान्न विद्यते ॥
” * ॥
अथ त्रिपुरभैरवीयन्त्रम् ।“मध्याद्यं नवयोनिषु प्रविलिखेद्बीजानि वर्णांस्त्रिशोगायत्त्र्याः पुनरष्टपत्रविवरेष्वालिख्य लिप्या-वृतम् ।भूविम्बद्वितयेन मन्मथयुजा कोणेषु संवेष्टितंयन्त्रं त्रैपुरमीरितं त्रिभुवनप्रक्षोभणं श्रीप्रदम् ॥
”गायत्त्री तु ।“मन्मथं त्रिपुरादेवि विद्महे पदमुद्धरेत् ।उक्त्वा कामेश्वरिपदं प्रवदेदथ धीमहि ॥
अन्ते च प्रवदेद्भूयस्तन्नः क्लिन्ने प्रचोदयात् ।गायत्त्र्यषा समाख्याता त्रैपुरी सर्व्वसिद्धिदा ॥
”यन्त्रान्तरम् ।“वह्नेर्गेहयुगान्तरस्थमदने मायां लिखेद्वाग्भवंषट्कोणेष्वथ सन्धिषु प्रविलिखेत् हुंकार-मावेष्टितम् ।स्त्रींबीजेन समीरितं त्रिभुवनप्रक्षोभणं त्रैपुरंयन्त्रं पञ्चमनोभवात्मकमिदं सौन्दर्य्यसम्पत्-करम् ॥
”इति त्रिपुरायन्त्रम् ॥
* ॥
अथ श्रीविद्यायन्त्रम् ।“विशेषं धारणं यन्त्रं प्रसङ्गात् कथयामि ते ॥
रेफहकारयोर्मध्ये देवीनामभिमुख्यकम् ।साध्यनाम द्वितीयान्तं तस्योर्द्धे विलिखेन्मनुम् ॥
तत्रैव मातृकां सर्व्वां विलिखेच्चक्रबाह्यतः ।पञ्चगव्यामृतेनैव मूलेन परिवेष्टयेत् ॥
तत्र प्राणं प्रतिष्ठाप्य विद्यामष्टोत्तरं शतम् ।तत् स्पृष्ट्वा प्रजपेन्मन्त्रं देवीध्यानपरायणः ॥
हेम्नो मध्यगतं कृत्वा रजतस्याथवा पुनः ।करे धृत्वा जगद्बश्यं हृदये स्त्रीषु वल्लभम् ॥
कण्ठे धनं लभेद्भाले स्तम्भनं जम्भनं भवेत् ।शिखायां मोक्षमाप्नोति तस्माद्यत्नेन धार-येत् ॥
” * ॥
अथ गणेशयन्त्रम् ।“बीजं षट्कोणमध्ये स्फुरदनलपुरे तारगंदिक्षु लक्ष्मी-मायाकन्दर्पभूमीस्तदनुरसपुटेष्वालिखेद्बीज-षट्कम् ।तत्सन्धिष्वङ्गमन्त्रान् वसुदलकमले मूलमन्त्रस्यवर्णान्शिष्टान् पत्रेषु विद्वान् विलिखतु गुणशश्चान्त्य-मन्त्ये पलाशे ॥
आवीतं लिपिभिः क्रमोत्क्रमवशात् पाशा-ङ्कुशाभ्यामपिभूविम्बद्बितयेन विष्टितमिदं यन्त्रं गणाधीशितुः ।लाक्षाकुङ्कुमरोचनामृगमदैर्भूर्जोदरे हेम्नि वासंलिख्याभिवहन् लभेत सकलैः संप्रार्थनीयांश्रियम् ॥
उक्तं महागणपतेर्व्विधानं सुरपूजितम् ।सर्व्वसिद्धिकरं पुंसां समस्तपुरुषार्थदम् ॥
” * ॥
अथ श्रीरामयन्त्रम् ।“तारं मध्ये विलिखतु मनुं षट्सु कोणेषु सन्धि-ष्वङ्गं मायां स्मरमपि लिखेत् कोणगण्डेषुपश्चात् ।किञ्जल्केषु स्वरगणमतो पत्रमध्येषु माला-मन्त्रस्यार्णान् गुहमुखमितानष्टमे पञ्चवर्णान् ॥
दशाक्षरेण संवेष्ट्य कादिवर्णैश्च भूपुरे ।दिग्विदिक्षु लिखेद्बीजे नरसिंहवराहयोः ॥
नमो भगवते ब्रूयाच्चतुर्थ्या रघुनन्दनम् ।रक्षोघ्नविषदायान्ते मधुरादि समीरयेत् ॥
प्रसन्नवदनायेति पश्चादमिततेजसे ।बलाय पश्चाद्रामाय विष्णवे तदनन्तरम् ।प्रणवादिनमोऽन्तोऽयं मालामन्त्रः प्रकीर्त्तितः ॥
”अथ नृसिंहयन्त्रम् ।“बीजं साध्यसमन्वितं प्रविलिखेन्मध्येऽष्टपत्रेष्वथोमन्त्रार्णान् श्रुतिशो विभज्य विलिखेल्लिप्याबहिर्व्वेष्टयेत् ।बाह्ये कोणगबीजबद्धवसुधागेहद्वयेनावृतंयन्त्रं क्षुद्रविषग्रहामयरिपुप्रध्वंसनं श्रीप्रदम् ॥
” * ॥
अय गोपालयन्त्रम् ।“पिण्डं मूलेन वीतं दहनपुरयुगे कोणराजत्षडर्णंकुर्य्यात् पद्मं दशार्णस्फुरितदशदलं कामबीजेनवीतम् ।पद्मं किञ्जल्कसंस्थस्वरविकृतिदलप्रोल्लसत्-षोडशार्णंकिञ्जल्कव्यञ्जनाढ्यं विकृतियुगदलेष्वर्पितानष्ट-वर्णान् ॥
पाशाङ्कुशाभ्यामावीतं क्षौणीपुरयुगास्रिषु ।अष्टाक्षरेण लसितं यन्त्रं गोपालदैवतम् ॥
धर्म्मार्थकामफलदं सर्व्वरक्षाकरं स्मृतम् ।पञ्चान्तको धरासंस्थो मनुर्बिन्दुविभूषितः ॥
पिण्डबीजमिदं प्रोक्तं सर्व्वसिद्धिकरं परम् ।स्मरः कृष्णाय ठद्वन्द्वं षडर्णो मनुरीरितः ॥
गोपीजनान्ते प्रददेद्बल्लभायाग्निवल्लभा ।अयं दशाक्षरो मन्त्रो दृष्टादृष्टफलप्रदः ॥
प्रणवं हृदयं कृष्णं ङेऽन्तमुक्त्वा ततः परम् ।तादृशं देवकीपुत्त्रं हुं फट्स्वाहासमन्वितम् ।षोडशाक्षरमन्त्रोऽयं गोविन्दस्य जगत्पतेः ॥
पिण्डं रतिपतेर्ब्बीजं नमो भगवते ततः ।नन्दपुत्त्राय बालादिवपुषे श्यामलाय च ॥
गोपीजनपदस्यान्ते वल्लभाय द्विठावधि ।अनुष्टुप् मन्त्र आख्यातो गोपालस्य जगत्पतेः ॥
अनङ्गः कृष्णगोविन्दौ ङेऽन्तावष्टाक्षरो मनुः ॥
”इति गोपालयन्त्रम् ॥
* ॥
अथ गोपालस्य यन्त्रान्तरम् ।“प्राक् प्रत्यक् दक्षिणोदक् विधिवदभिलिखेत्स्पष्टरेखाचतुष्कंकोणोद्यच्छूलयुक्तं बलययुगयुतं मध्यपूर्व्वंतदन्तम् ।श्लोकस्यार्णान् पुरस्ताद्बसुपदविवरेष्वष्टवर्णंलिखित्वातद्बाह्य द्वादशार्णैस्तदनुपरिवृतं देवकीपुत्त्र-यन्त्रम् ॥
तं सुकी देव देवेतं तं वेदे वरतो वतम् ।तं वतो रूढतो ख्यातं तं ख्यातो देवकीसुतम् ॥
लिखितं भूर्ज्जपत्रादौ यन्त्रमेतद्यथाविधि ।विधृतं बाहुना नित्यं सर्व्वकामफलप्रदम् ॥
पलाशवृक्षफलके लिखितं साधु साधितम् ।गोस्थाने निखनेदेतत् गवां बृद्धिर्भवेत्तदा ॥
” * ॥
अथ शिवयन्त्रम् । तत्रादौ षट्कोणमण्डलंकृत्वा तदन्तः साध्यनामयुक्तं प्रासादबीजंविलिख्य षट्कोणेषु प्रणवसहितपञ्चाक्षरवर्णान्विलिख्य विवरेषु षडङ्गमन्त्रान् तद्बहिः पञ्च-दलानि विरचय्य तद्दलेषु ओँ ईशानाय नमःओँ तत्पुरुषाय नमः ओँ अघोराय नमःओँ सद्योजाताय नमः ओँ वामदेवाय नमः ।इति पञ्चमन्त्रान् प्रागादिक्रमेण लिखेत् ।तद्बहिरष्टदलानि रचयित्वा तद्दलेषु मातृका-घर्णान् लिखेत् । तद्बहिर्वृत्तं त्र्यम्बकेन वेष्टयेत् ।एतद्यन्त्रं जपहोमादिना सम्पूज्य धारयेत् ।आयुरारोग्यैश्वर्य्यादिसिद्धिर्भवति ॥
* ॥
अथमृत्युञ्जयस्य यन्त्रम् ।“मध्ये साध्याक्षराढ्यं ध्रुवमभिविलिखेन्मध्यमंदिग्दलेषुकोणेष्वन्त्यं मनोस्तत् क्षितिभुवनमथो दिक्षुचन्द्रं विदिक्षु ।टान्तं यन्त्रं तदुक्तं सकलभयहरं क्षेडभूतापमृत्यु-व्याधिव्यामोहदुःखप्रशमनमुदितं श्रीप्रदंकीर्त्तिदायि ॥
” * ॥
अथकालीयन्त्रम् । यामले ।“आद्यं बीजं ससाध्यं प्रथमवसुगृहे तद्वहि-श्चाष्टकोणेपूर्व्वाद्यं चाष्टबीजं तदनु वसुगृहद्बन्द्बकेबीजषट्कम् ।किञ्जल्कं तत् स्वराढ्यं वसुदलविवरे स्वाहयाबीजषट्कंकूर्च्चाभ्यामेव वीतं क्षितिगृहयुगयोरन्तरेयन्त्रराजम् ॥
देवीबीजत्रयं तत् प्रतिदिशमपरं शक्तिबीज-द्बयं तत्कोणे कोणे लिखेद्यस्त्रिजगति स गुरुःशङ्करस्यापि विष्णोः ॥
”अथ शान्तिकादौ ताराधारणयन्त्रम् । तदुक्तंफेत्कारीये ।“योनियुग्मे लिखेन्मन्त्रं मन्त्री हेमशलाकया ।क्लीवहीनान् दीर्घवर्णान् षट्कोणे विलिखेत्ततः ॥
अष्टपत्रेष्वष्टवर्णान् तद्बहिर्भूपुरद्वयम् ।अष्टवज्रं भूपुरे च विलिख्य साधकोत्तमः ॥
सुवर्णपट्टे भूर्ज्जे वा रूप्ये वाप्यथ सुव्रते ।विलिखेद्धेमलेखन्या गन्धाष्टकसमन्वितम् ॥
दूर्व्वाकाण्डेन वालिख्य कुशमूलेन वा पुनः ॥
”एकवीराकल्पे ।“वेष्टितं पीतवस्त्रेण जतुना परिवेष्टयेत् ॥
बध्नीयात् पट्टसूत्रेण शिशूनां कण्ठभूषणम् ।स्त्रीणां वामभुजे चैवमन्येषां दक्षिणे भुजे ।बन्ध्यापि लभते पुत्त्रं निर्धनो धनवान् भवेत् ॥
इमां रक्षां पुरा बध्वा ज्ञानार्थं गौतमादिभिः ।प्रीत्यर्थं पार्थिवैश्चान्यैः संग्रामे जयकाङ्खिभिः ॥
”अस्यार्थः । योनियुग्मे षट्कोणे । तस्य मध्येहेमशलाकादिना भूर्ज्जपत्रादौ कुङ्कुमरोचना-रक्तचन्दनजटामांसीनां समांशं विधाय पङ्क्तिक्रमेण मूलमन्त्रं लिखित्वा तस्य हृल्लेखारेफ-मध्ये अमुकस्य रक्षां कुरु कुरु अमुकीनां शुभंपुत्त्रमुत्पादयेति वा अस्य ज्ञानं कुरु कुरुइत्यादि वा साध्यसहितं विलिख्य षट्कोणेक्लीवभिन्नान् दीर्घवर्णान् आ ई ऊ ऐ औ अःइत्येकैकं लिखेत् । तदुक्तम् ।“स्वराणां मध्यगं यच्च तच्चतुष्कं नपुंसकमिति ।”अष्टपत्रेष्वष्टवर्णान् । ऐं ह्रीं ओँ ऐं ह्रीं फट्स्वाहेति लिखेत् । तदुक्तम् ।“वाग्भवं कुलदेवीञ्च तारकं वाग्भवं तथा ।हृल्लेखा चास्त्रमन्त्रान्ते वह्निजायावधिर्मनुः ॥
अष्टाक्षरो मनुः प्रोक्तो मन्त्राणां सार ईरितः ॥
”अथ यन्त्रलिखनद्रव्यम् ।“काश्मीररोचनालाक्षामृगेभमदचन्दनैः ।विलिखेद्धेमलेखन्या यन्त्राण्येतानि देशिकः ॥
भूमिस्पृष्टं शवस्पृष्टं यन्त्रं निर्म्माल्यसङ्गतम् ।विदीर्णं लङ्घितं मन्त्री यन्त्रं नैव च धारयेत् ॥
सौवर्णे राजते पात्रे भूर्जे वा सम्यगालिखेत् ।अथवा ताम्रपट्टे वा गुटिकां कृत्य धारयेम् ॥
यावज्जीवं सुवर्णे स्यात् रौप्ये विंशतिवार्षिकम् ।भूर्ज्जे द्बादश वर्षाणि तदर्द्ध्वं ताम्रपट्टके ॥
”इति तन्त्रसारः ॥
* ॥
अन्यत् कालिकापुराणे ७७ । ७८ । ७९ अध्यायेषुद्रष्टव्यम् ॥
* ॥
अथ यन्त्रसंस्कारः । वामके-श्वरतन्त्रे ।“स्नात्वा संकल्पयेन्मन्त्री गुरोरर्च्चनमाचरेत् ।पञ्चगव्यं ततः कृत्वा शिवमन्त्रेण मन्त्रितम् ॥
तत्र चक्रं क्षिपेन्मन््री प्रणवेन समाकुलम् ।तदुद्धृत्य ततश्चक्रं स्थापयेत् स्वर्णपात्रके ॥
पञ्चामृतेन दुग्धेन शीतलेन जलेन च ।चन्दनेन सुगन्धेन कस्तूरीकुङ्कुमेन च ॥
पयोदधिघृतक्षौद्रशर्कराद्यैरनुक्रमात् ।तोयधूपान्तरैः कुर्य्यात् पञ्चामृतविधिं बुधः ॥
हाटकैः कलसैर्देवीमष्टभिर्व्वारिपूरितैः ।कषायजलसम्पन्नैः कारयेत् स्नानमुत्तमम् ॥
स्नानं समाप्य तां देवीं स्थापयेत् स्वर्णपाठके ।यन्त्रराजाय विद्महे महायन्त्राय धीमहि तन्नोयन्त्रं प्रचोदयात् ॥
स्पृष्ट्वा यन्त्रं कुशाग्रेण गायत्त्र्या चाभिमन्त्रयेत् ।अष्टोत्तरशतं देवि ! देवताभावसिद्धये ॥
आत्मशुद्धिं ततः कृत्वा षडङ्गैर्द्देवतां यजेत् ।तत्रावाह्य महादेवीं जीवन्यासञ्च कारयेत् ॥
उपचारैः षोढशभिर्महामुद्रादिभिः सदा ।फलताम्बूलनैवेद्यैर्देवीं तत्र समर्च्चयेत् ॥
पट्टसूत्रादिकं दद्यात् वस्त्रालङ्कारमेव च ।अगुरुं चामरं घण्टां यथायोग्यं महेश्वरि ! ।सर्व्वमेतत् प्रयत्नेन दद्यादात्महिते रतः ॥
ततो जपेत् सहस्रञ्च सकलेप्सितसिद्धये ।बलिदानं ततः कृत्वा प्रणमेच्चक्रराजकम् ॥
अष्टोत्तरशतं हुत्वा सम्पाताज्यं विनिःक्षिपेत् ।होमकर्म्मण्यशक्तश्चेत् द्बिगुणं जपमाचरेत् ॥
धेनुमेकां समानीय स्वर्णशृङ्गाद्यलङ्कृताम् ।गुरवे दक्षिणां दद्यात् ततो देव्या विसर्ज्जनम् ॥
”अस्य प्रयोगः । कृतनित्यक्रियः स्वस्तिवाचन-पूर्व्वकं सङ्कल्पं कुर्य्यात् । आद्येत्यादि अमुक-गोत्रः श्रीअमुकदेवशर्म्मा अमुकदेवतायाःपूजार्थं अमुकयन्त्रसंस्कारमहं करिष्ये । इतिसंकल्प्य पञ्चगव्यमानीय हौमितिमन्त्रेणाष्टोत्तर-शतं अभिमन्त्र्य प्रणवेन यन्त्रं तत्र क्षिपेत् ।तत उत्तोल्य स्थापयेत् । ततः शीतलजलचन्दन-गन्धकस्तूकीकुङ्कुमैः स्नापयित्वा पञ्चगव्यमानीयहौमिति मन्त्रेणाष्टोत्तरशतमभिमन्त्र्य प्रणवेनपूर्व्ववत् शोधयित्वा स्नापयेत् । तत्र क्रमः ।प्रथमं क्षीरेण स्नापयित्वा धूपं दद्यात् । एवंदध्ना घृतेन मधुना शर्करया च । ततोऽष्टभिःकलसैः कुङ्कुमगोरोचनाचन्दनमिश्रितैस्तोयैःस्नापयेत् । सर्व्वत्र स्नानं मूलमन्त्रेण ततोयन्त्रमुत्तोल्य कुशाग्रेण तत् स्पृष्ट्वा यन्त्रराजायविद्महे महायन्त्राय धीमहि तन्नो यन्त्रं प्रचो-दयात् । इत्यष्टोत्तरशतमभिमन्त्र्य प्राणप्रतिष्ठांकुर्य्यात् । अस्य प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णु-महेश्वरा ऋषय ऋग्यजुःसामानि छन्दांसिचैतन्यं देवता प्राणप्रतिष्ठायां विनियोगः ।तद्यथा । आं ह्रीं क्रों यं रं लं वं शं षं सं हौंहं सः अमुकदेवतायाः प्राणा इह प्राणाः ।एवं आमित्यादि अमुकदेवतायाः जीव इहस्थितः । एयं आमित्यादि अमुकदेवतायाः सर्व्वे-न्द्रियाणि । एवं आमित्यादि अमुकदेवतायावाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्य सुखं चिरंतिष्ठन्तु स्वाहा । इति प्राणान् प्रतिष्ठाप्य तत्रप्रकृतदेवतामावाह्य षोडशोपचारैः पञ्चोप-चारैर्व्वा पूजयेत् । ततः पट्टसूत्रादिकं दत्त्वाअष्ठोत्तरशतं अप्त्वा शक्तश्चेत् बलिं दद्यात् ।ततोऽष्टोत्तरशतहोमं कृत्वा प्रत्याहुतिसम्पातंदद्यात् । होमाभावे द्बिगुणजपः कार्य्यः । ततोदक्षिणां दत्त्वा अच्छिद्रावधारणं कुर्य्यात् ।इति तन्त्रसारः ॥
* ॥
औषधपाकार्थयन्त्राणियथा, --“भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके ।कूपिकाकण्ठपर्य्यन्तं बालुकाभिश्च पूरिते ॥
भेषजं कूपिकासंस्थं वह्निना यत्र पच्यते ।बालुकायन्त्रमेतद्धि यन्त्रतन्त्रबुधैः स्मृतम् ॥
”इति बालुकायन्त्रम् ॥
“निबद्धमौषधं सूतं भूर्ज्जे तत्त्रिगुणान्तरे ।रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि ॥
सन्धानपूर्णं कुम्भान्तः स्वावलम्बनसंस्थितम् ।अधस्ताज्ज्वालयेदग्निं तत्तदुक्तक्रमेण हि ।दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि ॥
”सन्धानं काञ्जिकादि । इति दोलायन्त्रम् ॥
* ॥
“साम्बुस्थालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय च ।पिधाय पच्यते यत्र तद्यन्त्रं स्वेदनं स्मृतम् ॥
”इति स्वेदनयन्त्रम् ॥
“अधःस्थाल्यां रसं क्षिप्त्वा निदध्यात्तन्मुखोपरि ।स्थालीमूर्द्ध्वमुखीं सम्यक् निरुध्य मृदुमृत्सया ॥
ऊर्द्ध्वस्थाल्यां जलं क्षिप्त्वा चुल्ल्यामारोप्य यत्नतः ॥
अधस्ताज्ज्वालयेदग्निं यावत् प्रहरपञ्चकम् ।स्वाङ्गशीतं ततो यन्त्राद्गृह्णीयाद्रसमुत्तमम् ।विद्याधराभिधं यन्त्रमेतत्तज्ज्ञैरुदाहृतम् ॥
”इति विद्याधरयन्त्रम् ॥
“बालुकासु समस्ताङ्गं गर्त्ते मूषारसान्विता ।दीप्तोपलैः मंवृणुयाद्यन्त्रं भूधरनामकम् ॥
”इति भूधरयन्त्रम् ॥
“यन्त्रं डमरुसंज्ञं स्यात्तत् स्थाल्योर्मुद्रिते मुखे ॥
”इति डमरुयन्त्रम् । इति भावप्रकाशः ॥
(तथाच ।“अन्धमूषा तु कर्त्तव्या गोस्तनाकारसन्निभा ।सैव छिद्रान्विता मध्ये गम्भीरामारणोचिता ॥
”इति अन्धमूषायन्त्रम् ॥
“द्बौ भागौ तु सदुग्धस्य एकावल्मीकमृत्तिका ।लोहकिट्टस्य भागैकं श्वेतपाषाणभागिकम् ॥
नरकेशसमं किञ्चित् छागीदुग्धेन पेषयेत् ।माषद्बयं दृढं मर्द्द्यं तेन मूषां सुसम्पुटाम् ॥
शोषयित्वा रसं क्षिप्त्वा तत्कल्कैः सन्धि लेपयेत् ।रौद्रमूषा समाख्याता सम्यक्पारदसाधिका ॥
”इति मूषायन्त्रम् ॥
* ॥
“बालुकापूरितं भाण्डं तन्मध्ये सूतकं क्षिपेत् ।रसं मूषागतञ्चैव भाण्डं स्रावेण रोधयेत् ॥
लिप्त्वा मृल्लवणैः सन्धिं पाचयेच्चुल्विकाग्निना ।बालुकायन्त्रमेतद्धि योजयेद्रसकर्म्मणि ॥
”इति बालुकायन्त्रम् ॥
“तिर्य्यक्कण्ठं काचकुप्या गिलयेत् स्वल्पभाण्डकैः ।तिर्य्यक्कृत्वा पचेत् भाण्डं वकयन्त्रमिति स्मृतम् ॥
”इति वकयन्त्रम् ॥
“ऊर्द्ध्वाधः संपुटाकारं तन्मध्ये रससंस्थितम् ।कवचीयन्त्रमेतद्धि रसादिद्रव्यसाधनम् ॥
”इति कवचीयन्त्रम् ॥
* ॥
इति वैद्यकरसेन्द्रसारसंग्रहे जारणाद्यधिकारे ॥
चिकित्सोपयग्यपरयन्त्रविवृतिर्यथा, --“यन्त्रशतमेकोत्तरमत्र हस्तमेव प्रधानतमंयन्त्राणामवगच्छ । किं कारणम् । यस्माद्धस्ता-दृते यन्त्राणामप्रवृत्तिरेव तदधीनत्वाद्यन्त्रकर्म्म-णाम् । तत्र मनःशरीरावाधकराणि शल्यानितेषामाहरणोपायो यन्त्राणि । तानि षट्प्रका-राणि । तद्यथा । स्वस्तिकयन्त्राणि । सन्दंश-यन्त्राणि । तालयन्त्राणि । नाडीयन्त्राणि ।शलाकायन्त्राणि । उपयन्त्राणि चेति ॥
तत्र चतुर्व्विंशतिः स्वस्तिकयन्त्राणि । द्वे सन्दंश-यन्त्रे । द्वे एव तालयन्त्रे । विंशतिर्नाड्यः । अष्टा-विंशतिः शलाकाः । पञ्चविंशतिरुपयन्त्राणि ॥
तानि प्रायशो लौहानि भवन्ति तत्प्रतिरूप-काणि वा तदलाभे । तत्र नानाप्रकाराणांव्यालानां मृगपक्षिणां मुखैर्मुखानि यन्त्राणांप्रायशः सदृशानि तस्मात् तत्सारूप्यादागमादु-पदेशादन्ययन्त्रदर्शनाद्युक्तितश्च कारयेत् ।समाहितानि यन्त्राणि खरश्लक्ष्णमुखानि च ।सुदृढानि सुरूपाणि सुग्रहाणि च कारयेत् ॥
तत्र स्वस्तिकयन्त्राण्यष्टादशाङ्गुलप्रमाणानिसिंहव्याघ्रवृकतरक्षुऋक्षद्वीपिमार्जारशृगाल-मृगैर्व्वारुककाककङ्ककुररचासभासशशघात्यु-लूकचिल्लिश्येनगृध्रक्रौञ्चभृङ्गराजाञ्जलिकर्णाव-भञ्जननन्दिमुखमुखानि मसूराकृतिभिः कीलै-रवबद्धानि मूलेऽङ्कुशवदावृत्तवारङ्गाण्यस्थि-विनष्टशल्योद्धरणार्थमुपदिश्यन्ते ॥
* ॥
सनिग्रहो-ऽनिग्रहश्च सन्दंशौ षोडशाङ्गुलौ भवतस्त्वग्मांस-सिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते ।तालयन्त्रे द्बादशाङ्गुले मत्स्यतालुवदेकतालद्बि-तालके कर्णनासानाडीशल्यानामाहरणार्थम् ।नाडीयन्त्राण्यनेकप्रकाराण्यनेकप्रयोजनान्येक-तोमुखान्युभयतोमुखानि च तानि स्रोतोगत-शल्योद्धरणार्थं रोगदर्शनार्थमाचूषणार्थं क्रिया-सौकर्य्यार्थञ्चेति तानि स्रोतोद्वारपरिणाहानियथायोगपरिणाहदीर्घाणि च ।भगन्दरार्शोऽर्व्वुदव्रणवस्त्युत्तरवस्तिमूत्रवृद्धिद-कोदरधूमनिरुद्धप्रकशसन्निरुद्धगुदयत्त्राण्यलावु-शृङ्गयन्त्राणि चोपरिष्टाद्धक्ष्यामः ।शलाकायन्त्राण्यपि नानाप्रकाराणि नाना-प्रयोजनानि यथायोगपरिणाहदीर्घाणि च तेषांगण्डूपदशरपुङ्खसर्पफणवडिशमुखे द्वे द्वे एषण-व्यूहनचालनाहरणार्थमुपपदिश्येते । मसूरदल-मात्रमुखे द्वे किञ्चिदानताग्रे स्रोतोगतशल्योद्ध-रणार्थम् । षट्कार्पासकृतोष्णीषाणि प्रमार्ज्जन-क्रियासु । त्रीणि दर्व्याकृतीनि खल्लमुखानिक्षारौषधप्रणिधानार्थम् । त्रीण्यन्यानि जाम्बव-वदनानि त्रीण्यङ्कुशवदनानि षडवाग्निकर्म्मस्व-भिप्रेतानि । नासार्वुदहरणार्थमेकं कोलास्थि-दलमात्रमुखं खल्लतीक्ष्णोष्ठम् । अञ्जनार्थमेकंकलायपरिमण्डलमुभयतो मुकुलाग्रम् । मूत्र-मार्गविशोधनार्थमेकं मालतीपुष्पवृन्ताग्रप्रमाण-परिमण्डलमिति ।उपयन्त्राण्यपि रज्जुवेणिकापट्टचर्म्मान्तवल्कल-लतावस्त्राष्ठीलाश्म-मुद्गर-पाणिपाद-तलाङ्गुलि-जिह्वा-दन्तनखमुख-बालाश्वकटकशाखाष्ठीवन-प्रवाहणहर्षायस्कान्तमयानि क्षाराग्निभेषजानिचेति ।एतानि देहे सर्व्वस्मिन् देहस्यावयवे तथा ।सन्धौ कोष्ठे धमन्याञ्च यथायोगं प्रयोजयेत् ॥
यन्त्रकर्म्माणि तु निर्घातनपूरणबन्धनव्यूहनवर्त्तन-चालनविवर्त्तनविवरणपीडनमार्गविशोधनविक-र्षणाहरणाञ्चनोन्नमनविनमनभञ्जनोन्मथना-चूषणैषणदारणर्ज्जूकरणप्रक्षालनप्रधमनप्रमा-र्ज्जनानि चतुर्विंशतिः ॥
स्वबुद्ध्या चापि विभजेद्यन्त्रकर्म्माणि बुद्धिमान् ।असंख्येयविकल्पत्वाच्छल्यानामिति निश्चयः ॥
तत्रातिस्थूलमसारमतिदीर्घमतिह्रस्वमग्राहिविषमग्राहि वक्रं शिथिलमत्युन्नतं मृदुकीलंमृदुमुखं मृदुपाशमिति द्वादश यन्त्रदोषाः ।एतैर्दौषैर्विनिर्म्मुक्तं यन्त्रमष्टादशाङ्गुलम् ।प्रशस्तं भिषजा ज्ञेयं तद्धि कर्म्मसु योजयेत् ॥
दृश्यं सिंहमुखाद्यैस्तु गूढं कङ्कमुखादिभिः ।निर्हरेत्तु शनैः शल्यं शस्त्रयुक्तिव्यपेक्षया ॥
विवर्त्तते साध्ववगाहते चशल्यं निगृह्योद्धरते च यस्मात् ।यन्त्रेष्वतः कङ्कमुखं प्रधानंस्थानेषु सर्व्वेष्वविकारि चैव ॥
”इति सुश्रुते सूत्रस्थाने सप्तमेऽध्याये ॥
* ॥
गोलाध्यायोक्तयन्त्राणि यथा, --“अथ यन्त्राध्यायो व्याख्यायते । तत्रादौ तदा-रम्भप्रयोजनमाह ।दिनगतकालावयवा ज्ञातुमशक्या यतो विनायन्त्रैः ।वक्ष्ये यन्त्राणि ततः स्फुटानि संक्षेपतः कति-चित् ॥
गोलो नाडीवलयं यष्टिः शङ्कुर्घटी चक्रम् ।त्रापं तुर्यं फलकं धीरेकं पारमार्थिकं यन्त्रम् ॥
”“अथ प्रथमं गोलयन्त्रमाह ।अपवृत्तगरविचिह्नं क्षितिजे धृत्वा कुजेनसंसक्ते ।नाडीवृत्ते बिन्दुं कृत्वा धृत्वाथ जलसमं क्षिति-जम् ॥
रविचिह्नस्य च्छाया पतति कुमध्य यथा तथाविधृते ।उडुगोले कुजबिन्द्वोर्मध्ये नाड्यो द्युयाताः स्युः ॥
”“अथ नाडीवलयमाह ।अपवृत्ते कुजलग्ने लग्नं चाथो खगोलनलिकान्तः ।भूस्थं ध्रुवयष्टिस्थं चक्रं षष्ट्या निजोदयैश्चाङ्क्यम् ॥
व्यस्तैर्यष्टीभायामुदयेऽर्कं न्यस्य नाडिका ज्ञेयाः ।इष्टच्छायासूर्य्यान्तरेऽथ लग्नं प्रभायाञ्च ॥
केनचिदाधारेण ध्रुवाभिमुखकीलकेऽत्र धृते ।अथवा कीलच्छायातलमध्ये स्युर्नता नाड्यः ॥
”घटिकायन्त्रलक्षणादिकं घटीयन्त्रशब्दे द्रष्टव्यम् ॥
“अथ शङ्कुमाह ।समतलमस्तकपरिधिर्भ्रमसिद्धो दन्तिदन्तजः शङ्कुः ।तच्छायातः प्रोक्तं ज्ञानं दिग्देशकालानाम् ॥
इति शङ्कुयन्त्रम् ॥
अथ चक्रमाह ।चक्रं चक्रांशाङ्कं परिधौ श्लथशृङ्खलादिकाधारम् ।धात्री त्रिभ आधारात् कल्प्या भार्द्धेऽत्रस्वार्द्धञ्च ॥
तन्मध्ये सूक्ष्माक्षं क्षिप्त्वार्काभिमुखनेमिकं धार्य्यम् ।भूमेरुन्नतभागास्तत्राक्षच्छायया भुक्तः ॥
तत्खार्द्धान्तश्च नता उन्नतलवसंगुणीकृतं द्युद-लम् ।द्युदलोन्नतांशभक्तं नाड्यः स्थूलाः परैः प्रोक्ताः ॥
”“अथ वेधेन ग्रहज्ञानमाह ।“पैत्रर्क्षपुष्यान्तिमवारुणाना-मृक्षद्वयं नेमिगतं यथा स्यात् ।दूरेऽन्तरेऽल्पेषुभखेचरौ वातथात्र यन्त्रं सुधिया प्रधार्य्यम् ॥
नेमिस्थदृट्याक्षगतं प्रपश्येत्खेटञ्च धिष्ण्यस्य च योगताराम् ।नेम्यङ्कयोरक्षयुजोस्तु मध्येयेऽंशाः स्थिता भध्नुवको युतस्तैः ॥
प्रत्यक् स्थिते भेऽथ पुरःस्थिते तै-र्होनो ध्रुवः स्यात् खचरस्य भुक्तम् ॥
”“अथ चापं तुर्यगोलं चाह ।दलीकृतं चक्रमुशन्ति चापंकोदण्डखण्डं खलु तुर्यगोलम् ॥
”“अथ फलकयन्त्रार्थमाह ।दृङ्मण्डलेऽत्र स्फुटकाल उक्तःसुखेन नान्यैर्यतितं मयातः ।सद्गोलयुक्तेर्गणितस्य सारंस्पष्टं प्रवक्ष्ये फलकाख्ययन्त्रम् ॥
”“इदानीं यन्त्रलक्षणमाह ।कर्त्तव्यं चतुरस्रकं सुफलकं खाङ्का-९० ङ्गुलै-र्विस्तृतंविस्ताराद्द्विगुणा-१८० यतं सुगणकेनायाममध्येतथा ।आधारः श्लथशृङ्खलादिघटितः कार्य्या चरेखा तत-स्त्वाधारादवलम्बसूत्रसदृशी सा लम्बरेखोच्यते ॥
लम्बं नवत्य-९० ङ्गुलकैर्विभज्यप्रत्यङ्गुलं तिर्य्यगतः प्रसार्य्य ।सूत्राणि तत्रायतसूक्ष्मरेखाजीवाभिधानाः सुधिया विधेयाः ॥
आधारतोऽधः खगुणा-३० ङ्गुलेषुज्यालम्बयोगे सुषिरञ्च सूक्ष्मम् ।इष्टप्रमाणा सुषिरे शलाकाक्षेप्याक्षसंज्ञा खलु सा प्रकल्प्या ॥
षष्ट्यङ्गुलव्यासमतश्च रन्ध्रात्कृत्वा सुवृत्तं परिधौ तदङ्क्यम् ।षष्ट्या घटीनां भगणांश-३६० कैश्चप्रत्यंशकं चाम्बुपलैञ्च दिग्भिः ॥
अग्रे सरन्ध्रा तनुपट्टिकैकाषष्ट्यङ्गुला दीर्घतया तथाङ्क्या ॥
”“इदानीं यन्त्रोपकरणमाह ।यत् खण्डकैः स्थूलचरं पलाद्यंतद्गोकु-१९ हृत् स्याच्चरशिञ्जिनीह ॥
”“इदानीं यष्टिसाधनमाह ।वेदाः ४ भवाः ११ शैलभुवो १७ धृतिश्च १८विश्वे १३ च बाणाः ५ पलकर्णनिघ्नाः ।अर्कोद्धृताः स्युः क्रमशः स्वदेशेराश्यर्द्धलभ्यानि हि खण्डकानि ॥
तैः क्रान्तिपाताढ्यरवेर्भुजज्याषष्ट्युद्धृताक्षश्रवणेन युक्ता ।दिग्ध्नी कृताप्ता भवतीह यष्टिःसा पट्टिकायां सुषिरात् प्रदेया ॥
”“इदानीं यष्टिप्रयोजनमाह ।धार्य्यं तथा फलकयन्त्रमिदं यथैवतत्पार्श्वयोर्लगति तुल्यमिनस्य तेजः ।छायाक्षजा स्पृशति तत्परिधौ यमंशंतत्रांशके मतिमता तरणिः प्रकल्प्यः ॥
अक्षप्रोतां रविलवगतां पट्टिकां न्यस्य तस्माद्-यष्टेरग्रादुपरि फलकेऽधश्च गोलक्रमेण ।यत्नाद्देयश्चरदलगुणस्तत्र या ज्या तयात्रछिन्ने वृत्ते तलगघटिकाः स्युर्नता लम्बकान्ताः ॥
”“अथ यष्टियन्त्रमाह ।त्रिज्याविष्कम्भार्द्धं वृत्तं कृत्वा दिगङ्कितं तत्र ।दत्त्वाग्रां प्राक् पश्चाद्युज्यावृत्तञ्च तन्मध्ये ॥
तत्परिधौ षष्ट्यङ्कं यष्टिर्नष्टद्युतिस्ततः केन्द्रे ।त्रिज्याङ्गुला निधेया यष्ट्यग्राग्रान्तरं यावत् ॥
तावत्या मौर्व्या यद्द्बितीयवृत्ते धनुर्भवेत् तत्र ।दिनगतशेषा नाड्यः प्राक् पश्चात् स्युः क्रमेणै-वम् ॥
”“इदानीं धीयन्त्रं विवक्षुरादौ तत्प्रशंसामाह ।अथ किमु पृथुतन्त्रैर्धीमतो भूरियन्त्रैःस्वकरकलितयष्टेर्दत्तमूलाग्रदृष्टेः ।न तदविदितमानं वस्तु यद्दृश्यमानंदिवि भुवि च जलस्थं प्रोच्यतेऽथ स्थलस्थम् ॥
अत्र प्रश्नः ।वंशस्य मूलं प्रविलोक्य चाग्रंतत्स्वान्तरं तस्य समुच्छ्रयञ्च ।यो वेत्ति यष्ट्यैव करस्थयासौधीयन्त्रवेदी वद किं न वेत्ति ॥
”“अथ यष्ट्या ध्रुववेधेन पलभामाह ।यष्ट्यग्रमूलसंस्थं विद्ध्वा ध्रुवमग्रमूलयोर्लम्बी ।बाहुर्लम्बान्तरभूर्लम्बोच्छ्रायान्तरं कोटिः ॥
कोटिर्द्बादशगुणिता बाहुविभक्ता पलप्रभाज्ञेया ॥
”“इदानीं वंशादिवेधमाह ।विद्ध्वैवं वंशतलं दृष्ट्युच्छ्रायाहताद्बाहोः ।कोट्या लब्धं ज्ञेयं स्ववंशमध्ये महीमानम् ॥
विद्ध्वाथो वंशाग्रं भूमानं कोटिसंगुणं भक्तम् ।दोष्णा वंशोच्छ्रायो दृष्ट्युच्छ्रायेण संयुतोज्ञेयः ॥
उदाहरणम् ।पञ्चशक्राङ्गुला १४५ यष्टिरष्टषष्टिर्दृगुच्छ्रयः ।षट्करास्तलवेधे दोः कोटिः सप्तदशाङ्गुला ॥
अग्रवेधे रसेशा ११६ दोः कोटिस्तुरगकुञ्जराः ।वंशस्य यस्य तन्मानं चात्मवंशान्तरं वद ॥
”“अथ केवलाग्रवेधेनाह ।अग्रं विध्वोर्ध्वस्थः पुनरुपविष्टश्च तद्बिद्ध्येत् ॥
निजभुजभक्ते कोटी तदन्तरहृतो दृगौच्च्यविश्लेषःभूमिर्वंशौच्च्यमतः पृथक् पृथक् पूर्व्ववज्ज्ञेयम् ॥
अत्र प्रश्नः ।ऊर्ध्वस्थस्य गृहादिभिर्व्यवहितस्याप्यग्रमात्रं सखे !वंशस्य प्रगुणस्य यस्य सुसमे देशे समालोक्यते ।अत्रैव त्वमवस्थितो यदि वदस्यस्यान्तरं चोच्छ्रयंमन्ये यन्त्रविदां वरिष्ठपदवीं यातोऽसि धीयन्त्र-वित् ॥
उराहरणम् ।इष्टयष्ट्योर्द्ध्वसंस्थेन वंशाग्रं विध्यता भुजः ।दृष्टश्चतुष्करोऽथान्ययष्ट्या खाङ्काङ्गुलः सखे ॥
निविष्टेन तथा कोटिरङ्गुलं वेधयोरपि ।आत्मवंशान्तरं ब्रूहि वंशोच्छ्रायञ्च वेधवित् ॥
”“अथ जलान्तर्वेधमाह ।एवं तोयेऽप्यौच्च्यं तत्र दृगौच्च्योनितं भवति ।किंवा यष्ट्या कोटी दृष्ट्युच्छ्रायौ जलान्तरेबाहू ॥
अत्र प्रश्नः ।दूरस्थस्य न दूरगस्य यदि वादृष्टस्य दृष्टस्य वावंशस्य प्रतिविम्बितस्य सलिले दृष्ट्वाग्रमात्रं सखे ।अत्रैव त्वमवस्थितो यदि वदस्यस्यान्तरं चोच्छ्रयंत्वां सर्वज्ञमतीन्द्रियज्ञमनुजव्याजेन मन्ये भुवि ॥
उदाहरणम् ।दृष्टा चेत् व्यङ्गुला कोटिर्बाहुश्च चतुरङ्गुलः ।ऊर्ध्वस्थेनोपविष्टेन बाहुरेकादशाङ्गुलः ॥
कोटिरष्टाङ्गुला तोये वंशाग्रं विध्यता सखे ! ।त्र्यकहस्तौ दृगुच्छ्रायौ वंशौच्च्यं चान्तरं वद ॥
”“किंवा यष्ट्येत्यस्योदाहरणम् ।षडङ्कैरमरैस्तुल्यान्यङ्गुलान्यथवा क्रमात् ।आत्मतोयान्तरं दृष्ट्वा वंशौच्च्यं चान्तरं वद ॥
”“अथ स्वयंवहमाह ।लघुदारुजसमचक्रे समसुषिराराः समान्तरानेम्याम् ।किञ्चिद्बक्रातोज्याः सुषिरस्यार्धे पृथक् तासाम् ॥
रसपूर्णे तच्चक्रं द्व्याधाराक्षस्थितं स्वयं भ्रमति ॥
”“अथान्यदाह ।उत्कीर्य नेमिमथवा परितो मदनेन संलग्नम् ।तदुपरि तालदलाद्यं कृत्वा सुषिरे रसं क्षिपेत्तावत् ॥
यावद्रसैकपार्श्वे क्षिप्तजलं नान्यतो याति ।पिहितच्छिद्रं तदतश्चक्रं भ्रमति स्वयं जला-कृष्टम् ॥
”“अथान्यदाह ।ताम्रादिमयस्याङ्कुशरूपनलस्याम्बुपूर्णस्य ॥
एकं कुण्डजलान्तर्द्वितीयमग्रं त्वधोमुखञ्चबहिः ।युगपन्मुक्तं चेत् कं नलेन कुण्डाद्बहिः पतति ॥
नेम्यां बद्ध्वा घटिकाश्चक्रं जलयन्त्रवत् तथाधार्य्यम् ।नलकप्रच्युतसलिलं पतति यथा तद्घटीमध्ये ॥
भ्रमति ततस्तत् सततं पूर्णघटीभिः समाकृष्टम् ।चक्रच्युतं तदुदकं कुण्डे याति प्रणालिकया ॥
”“इदानीमन्येषां स्वयंवहमुपहसन्नाह ।यद्वधोरन्ध्रनलं तत् सापेक्षत्वात् स्वयंवहं ग्राम्यम् ।चतुरचमत्कारकरी युक्तिर्यन्त्रं नहि ग्राम्या ॥
एवं बहुधा यन्त्रं स्वयंवहं कुहकविद्यया भवति ।नेदं गोलाश्रितया पूर्बोक्तत्वान्मयाप्युक्तम् ॥
”इति सिद्धान्तशिरोमणौ गोले यन्त्राध्यायः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
