| YouTube Channel

यदुः (yaduH)

 
Apte
English
यदुः [yaduḥ], 1
N.
of an ancient king, the eldest son of Yayāti and Devayānī and ancestor of the Yādavas.
N.
of a country near Mathurā.
Comp.
-कुलोद्भवः, -नन्दनः, -श्रेष्ठः epithets of Kṛiṣṇa.
Apte 1890
English
यदुः 1 N. of an ancient king, the eldest son of Yayāti and Devayānī and ancestor of the Yādavas.
2 N. of a country near Mathurā.
Comp.
कुलोद्भवः,
नंदनः,
श्रेष्ठः epithets of Kṛṣṇa.
Apte Hindi
Hindi
यदुः
पुं*
- यज् + पृषो* जस्य दः
"एक प्राचीन राजा का नाम, ययाति और देवयानी का ज्येष्ठ पुत्र, यादवों का वंश प्रवर्तक"
Wordnet
Sanskrit
Synonyms:
यदुः
noun
नृपनामविशेषः-ययातेः देवयान्यां जातो ज्येष्ठः पुत्रः। यस्माद् तद्वंशः यादवः इति नाम्ना प्रसिद्धः अभवत्।
"तस्यैवं सुप्रवृत्तस्य पुत्रकामस्य धीमतः। मधुमत्यां सुतो जज्ञे यदुर्नाम महाशयाः॥"
शब्दकल्पद्रुमः
Sanskrit
यदुः,
पुं,
(यजते इति यज् + उः पृषोदरादि-त्वात् जस्थाने दकारः ।) देवयान्यां जातोययातेर्ज्येष्ठपुत्त्रः तस्य वंशे पितृशापात् राजा-चक्रवर्त्ती नासीत् तद्वंशे द्वापरयुगस्यान्तेश्रीकृष्णोऽवतीर्णः इति श्रीभागवतमतम्
तस्य मातुलकन्याविवाहकारणं यथा, --“जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ।पुत्त्रं ज्येष्ठं वरिष्ठञ्च यदुमित्यब्रवीद्वचः
त्वं यदो ! प्रतिमद्यस्व पाप्मानं जरया सह ।यौवनेन त्वदीयेन चरेयं विषयानहम्
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् ।दत्त्वा संप्रतिपत्स्यामि पाप्मानं जरया सह
यदुरुवाव ।सितश्मश्रुधरो दीनो जरया शिथिलीकृतः ।बलीसन्ततगात्रश्च दुर्द्धर्षो दुर्ब्बलः कृशः
अशक्तः कार्य्यकरणे पापभूतश्च यौवने ।सहोपजीविभिश्चैव तां जरां नैव कामये
सन्ति ते बहवः पुत्त्रा मत्तः प्रियतरा नृप ! ।जरां ग्रहीतुं धर्म्मज्ञ ! पुत्त्रमन्यं वृणीष्व वै
ययातिरुवाच ।यो मे त्वं हृदयाज्जातो वयः स्वं प्रयच्छसि ।पापान्मातुलसम्बन्धात् प्रजा वै ते भविष्यति
”इति मात्स्ये ३१ अध्यायः
*
(हर्य्यश्वराजपुत्त्रः यथा, हरिवंशे ९३ ४४ ।“तस्यैवं सुप्रवृत्तस्य पुत्त्रकामस्य धीमतः ।मधुमत्यां सुतो जज्ञे यदुर्नाम महायशाः
”)