| YouTube Channel

यथायथं (yathAyathaM)

 
शब्दकल्पद्रुमः
Sanskrit
यथायथं,
व्य,
क्ली,
(“यथास्वे यथायथम् ।” ।१ १४ योऽयमात्मा यच्चात्मीयं तद्यथास्वम् ।तस्मिन् यथाशब्दस्य द्बित्वं क्लीवत्वञ्च निपा-त्यते यथायथं ज्ञाता यथास्वभावमित्यर्थः यथा-त्मीयमितिवेति इति सिद्धान्तकौमुदी ।) यथा-स्वम् इत्यमरः १५
(अनुरूपम् ।यथा, श्रीमद्भागवते १० १८ १९ ।“तत्रोपाहूय गोपालान् कृष्णः प्राह विहार-वित् ।हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम्
”“यथायथं वयोवर्णाद्यनुरूपम् ।” इति तट्टी-कायां श्रीधरस्वामी
यथा च, --“लिङ्गमव्यक्तमल्पत्वात् व्याघीनां तद्यथायथम्
”इति वाग्भटे निदानस्थाने प्रथमेऽध्याये
“यथायथं यस्य व्याधेर्यद्रूपं तदेवाव्यक्तम् ।”इति तद्ब्याख्याने विजयरक्षितः
)