| YouTube Channel

यथाकामी (yathAkAmI)

 
शब्दकल्पद्रुमः
Sanskrit
यथाकामी, [न्] त्रि, (यथा कामयते इति ।कामि + णिनिः यद्वा, काममनतिक्रम्य प्रवृत्ति-रस्यास्तीति यथाकाम + अत इनिठनावितिइनिः ।) स्वेच्छाचारी
तत्पर्य्यायः स्वरुचिः २स्वच्छन्दः स्वैरी अपावृतः स्वतन्त्रः ६निरवग्रहः इति हेमचन्द्रः १९
निर्यन्त्रणः इति जटाधरः
(यथा, याज्ञ्यवल्क्यसंहितायाम् ८१ ।“यथाकामी भवेद्बापि स्त्रीणां वरमनुस्मरन् ।स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः
”)