यती (yatI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaयती
पदविभागः - > स्त्रीलिङ्गः
निष्पत्तिः - > स्त्रियां "ङीप्" (४-१-६)
प्रयोगाः - > "अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः"
उल्लेखाः - > माघ० १३-३१
Kridanta Forms
Sanskritइ (इ॒ण् गतौ - अदादिः - अनिट्)
ल्युट् = अयनम्
अनीयर् = अयनीयः - अयनीया
ण्वुल् = आयकः - आयिका
तुमुँन् = एतुम्
तव्य = एतव्यः - एतव्या
तृच् = एता - एत्री
क्त्वा = इत्वा
ल्यप् = प्र इत्य
क्तवतुँ = इतवान् - इतवती
क्त = इतः - इता
शतृँ = यन् - यती
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुपाठः (Krishnacharya)
Sanskrit यत्
यती
प्रयत्ने
भ्वादिः
अकर्मकः
सेट्
आत्मनेपदी
यतते
धातुप्रदीपः
Sanskritयतीँ यती प्रयत्ने
- यतते । येते । यत्यम् । यत्तः । यत्तवान् । आयत्तः । यत्नः ।। 29 ।।
Wordnet
Sanskrit तपस्वी, आश्रमवासी, आश्रमसद्, ऋषिः, जटाधरः, जटी, जटिलः, जितेन्द्रियः, परोक्षः, मुनिः, यतिः, यती, लिङ्गी, श्रमणः, तापसः
यः तपस्यां करोति।
"विश्वामित्रः तपस्वी आसीत्।"
यतिः, यती, तापसः, परिव्राजकः, भिक्षुः, संन्यासिकः, कर्मन्दी, रक्तवसनः, पराशरी, परिकाङ्क्षी, मस्करी, परिरक्षकः
निर्जितेन्द्रियग्रामः।
"सः गृहस्थः तर्हि यतिः। / एककालं चरेद् भैक्ष्यं न प्रसज्जते विस्तरे। भक्ष्य प्रसक्तो हि यतिर् विषयेष्वपि सज्जति॥"
दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
शब्दकल्पद्रुमः
Sanskritक्षीरतरङ्गिणी
Sanskritयतीँ यती प्रयत्ने
यतते यतित्वा ईदित्वाच्छ् वीदितो निष्ठायाम् (7214) इतीण् नास्ति - यत्तः यजयाचयतविछ (3390) इति नङ् - यत्नः यतेर्वृद्धिश्च (उ0297) इत्यृन् - याता देवरभार्या, यातरौ चुरादौ यत निकारोपस्कारयोः (10203) यातयति 29
धातुवृत्तिः
Sanskritयतीँ यती (अर्थः) प्रयत्ने
( यतते येते येतिष ) एत्वाभ्यासलोपौ ( यतिता यतिष्यते यतताम् अयतत यतेत् आशिषि यतीषीष्ट अयतिष्ट अयतिष्यत् ) भावे ( यत्यते ) इत्यादि ( यियतिषते यायत्यते यायतीति यायत्तीत्यादि ) लङि तिप्सिपोर्हल्ङयादिलोपे जश्त्वे वा चर्त्त्वम् सिपि तु "दश्च''इति वा रुत्वमपि ( यातयति अयीयतत् यत्यम् [ तकिशसियतिजनीनामुपसंख्यानम् ] इति भावे यत् ( आयत्तः आयत्तवान्, ) ईदित्वात् "श्वीदितो निष्ठायाम्'' इतीडभावः यत्नः "यजयाचयतविच्छप्रच्छरक्षो नङ्' इति भावादो नङ् ( यतिः ) "इन् सर्वधातुभ्यः'' इतीन् यत् निकारोपस्कारयोरिति चुरादौ 30
कृदन्तरूपमाला
Sanskrit1 {@“इण् गतौ”@} 2 ‘अयत्येतीयते गत्याम्, अधीतेऽध्येति चेङिकोः’ 3 इति देवः।
4 आयकः-यिका, 5 गमकः-मिका, 6 प्रत्यायकः-यिका, 7 जिगमिषकः-षिका, 8 प्रतीषिषकः-षिका
एता-त्री, आययिता-त्री, गमयिता-त्री, जिगमिषिता-त्री, प्रतीषिषिता-त्री
9 यन् 10 निर्यन् यती, प्रत्याययन्-न्ती, गमयन्-न्ती, जिगमिषन्-न्ती, प्रतीषिषन्-न्ती
एष्यन्- 11 न्ती-ती, प्रत्याययिष्यन्-न्ती-ती, गमयिष्यन्-न्ती-ती, जिगमिषिष्यन्- न्ती-ती, प्रतीषिषिष्यन्-ती-न्ती
-- प्रत्याययमानः, प्रत्याययिष्यमाणः
-- 12 परीत्-परीतौ-परीतः
-- -- इतं- 13 इतः-इतवान्, 14 उपेतः, प्रत्यायितः, अवगमितः, जिगमिषितः, प्रतीषितः-तवान्
15 अयः, आयः, गमः, 16 इत्वरः, 17 उपेयिवान् 18, ईयिवान् 19, समीयिवान्- 20 उपेयुषी, 21 अत्ययी, 22 अत्यायः, जिगमिषुः, जिगमयिषुः, परीषिषुः
एतव्यम्, 23 उपैतव्यम्, प्रत्याययितव्यम्, गमयितव्यम्, जिगमिषितव्यम्, प्रतीषिषितव्यम्
अयनीयम्, प्रत्यायनीयम्, गमनीयम्, जिगमिषणीयम्, प्रतीषिषणीयम्
24 इत्यम् 25, अनभ्याशमित्यः 26, प्रत्याय्यम्, अवगम्यम्, जिगमिष्यम्, प्रतीषिष्यम्
ईषदयः, -दुरयः-स्वयः, ईषदायः-ईषदवगमः-इत्यादि
-- 27 ईयमानः, प्रत्याय्यमानः, अवगम्यमानः, 28 जिगांस्यमानः, प्रतीष्यमाणः
29 आयः, 30 न्यायः 31, 32 पर्यायः, 33 34 अध्यायः, समयः, 35 अन्वयः, उदयः, न्ययः, व्ययः, 36 अभ्युदयः, न्यायः 37 अवगमः, प्रत्यायः
एतुम्, प्रत्याययितुम्, गमयितुम्, जिगमिषितुम्, प्रतीषिषितुम्
38 इत्या, अपीतिः, 39 समितिः, इतिः, समित् 40, प्रत्यायना, अवगमना, जिगमिषा, जिगमयिषा, प्रतीषिषा, प्रत्याययिषा
अयनम्, 41 अन्तरयणम् 42, अन्तरयनो 43, प्रत्यायनम्, अवगमनम्, जिगमिषणम्, प्रतीषिषणम्
इत्वा, आययित्वा, गमयित्वा, जिगमिषित्वा, ईषिषित्वा
उपेत्य-परीत्य, प्रत्याय्य, 44 अवगमय्य, अवजिगमिष्य, प्रतीषिष्य
45 आयम् २, इत्वा २, प्रत्यायम् २, आययित्वा २, 46 अवगमम् २ अवगामम् २ गमयित्वा २, -- -- -- -- जिगमिषम् २, जिगमिषित्वा २, प्रतीषिषम् २
ईषिषित्वा २
01 (६८)
02 (२-अदादिः-१०४५-अनिट्। सक-पर-)
03 (१४ श्लो।)
04 [[१। ‘अचो ञणति’ (७-२-११५) इति वृद्धौ आयादेशः।]]
05 [[२। ‘णौ गमिरबोधने’ (२-४-४६) इति गमादेशः। अमन्तत्वान्मित्त्वेन उपधाह्रस्वः।]]
06 [[३। इणो बोधनार्थकत्वात् ‘अबोधने’ (२-४-४६) इत्युक्त्या गमादेशाभावः।]]
07 [[४। ‘सनि च’ (२-४-४७) इति गमादेशः। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इत्यत्र ‘परस्मैपदेषु’ इत्यस्य तङानयोरभावे--इत्यर्थकतया अत्र सन इड् भवति।]]
08 [[५। ‘सनि च’ (२-४-४७) इत्यत्रापि ‘अबोधने’ इत्यनुवृत्त्या गमादेशाभावे, अजादि- त्वाद् ‘अजादेर्द्वितीयस्य’ (६-१-२) इति द्वितीयस्यैकाचो द्वित्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
09 [[६। ‘इणो यण्’ (६-४-८१) इति यणादेशः।]]
10 [[आ। ‘निर्यत्स्फुलिङ्गाकुलधूमराशिं किं ब्रूहि भूमौ पिनषाम भानुम्। आदन्तनिष्पी- डितपीतमिन्दुं ष्ठीवाम शुष्केक्षुलताऽस्थिकल्पम्’।। भ। का। १२-१८।]]
11 [[७। ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुमागमस्य वैकल्पिकत्वात् रूपद्वयम्।]]
12 [[८। ‘षत्वतुकोरसिद्धः’ (६-१-८६) इत्यनेन एकादेशशास्त्रस्यासिद्धत्वात् तुक्।]]
13 [[B। ‘अहृत धनेश्वरस्य युधि यः समेतमायो धनं तमहमितो विलोक्य बिबुधैः कृतोत्त- मायोधनम्।’ भ। का। १०-३६।]]
14 [[९। आ + इतः एतः, उप × एत = इति स्थिते ‘एत्येधत्यूठ्सु’ (६-१-८९) इति वृद्धिं बाधित्वा, ‘ओमाङोश्च’ (६-१-९५) इति पररूपम्।]]
15 [पृष्ठम्००६९+ २४]
16 [[१। ‘इण्नशिजिसर्तिभ्यः--’ (३-२-१६३) इति तच्छीलादिषु क्वरप्। तुक्।]]
17 [[आ। ‘रावणः शुश्रुवान् शत्रून् राक्षसानभ्युपेयुषः। स्वयं युयुत्सयांचक्रे प्राकाराग्रे निषेदिवान्।।’ भ। का। १४-२२।]]
18 [[२। ‘उपेयिवाननाश्वान्--’ (३-२-१०९) इति क्वसुप्रत्ययान्तो निपातितः। ‘उप’ इत्यस्याविवक्षितत्वात्-समीयिवान्-ईयिवान्-इत्याद्यपि सिद्ध्यति। ‘दीर्घ इणः किति’ (७-४-६९) इति दीर्घः।]]
19 [[B। ‘निवृत्ते भरते धीमान् अत्रे रामस्तपोवनम्। प्रपेदे पूजितस्तस्मिन् दण्डकारण्य- मीयिवान्।।’ भ। का। ४-१।]]
20 [[३। ‘उगितश्च’ (४-१-६) इति ङीप्। ‘वसोः सम्प्रसारणम्’ (६-४-१३१) इति सम्प्रसारणम्।]]
21 [[४। ‘जिदृक्षिविश्रीण्--’ (३-२-१५७) इत्यनेन तच्छीलादिषु इनिः।]]
22 [[५। ‘श्याद्व्यधाश्रुसंस्रतीण्--’ (३-१-१४१) इति ‘अति’ इत्युपसृष्टादस्मात् कर्तरि णः प्रत्ययः।]]
23 [[६। ‘एत्येधत्यूठ्सु’ (६-१-८९) इति वृद्धिः।]]
24 [[C। ‘आदृत्यस्तेन वृत्येन स्तुत्यो जुष्येण सङ्गतः। इत्यः शिष्येण गुरुवत् गृध्यमर्थमवा- प्स्यसि’ भ। का। ६-५५।]]
25 [[७। ‘एतिस्तुशास्--’ (३-१-१०९) इति क्यपि तुक्।]]
26 [[८। ‘इत्येऽनभ्याशस्य’ (वा-६-३-७०) इति पूर्वपदस्य मुम्।]]
27 [[९। ‘अकृत्सार्वधातुकयो--’ (७-४-२५) रिति दीर्घः।]]
28 [[१०। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। आत्मनेपदपरकत्वात् सनो नेट्।]]
29 [पृष्ठम्००७०+ ३०]
30 [[आ। ‘नरकस्यावतारोऽयं प्रत्यक्षोऽस्माकमागतः। अचेष्टा यदिहान्यायात् अनेनात्स्या- महे वयम्।।’ भ। का। ७-८२।]]
31 [[१। संज्ञायाम् ‘अध्यायन्याय--’ (३-३-१२२) इत्यादिना घापवादो घञ् निपातितः। न्याय इति शास्त्रस्य संज्ञा। न्येति--निश्चिनोति इति शास्त्रयुक्त्यादिरत्र न्यायः। न अभ्रेषः।]]
32 [[२। ‘परावनुपात्यय इणः’ (३-३-३८) इति अजपवादो घञ्। क्रमस्यानतिक्रमोऽनुपा- त्ययः।]]
33 [[B। ‘न्याय्यं यद्यत्र तत् कार्यं पर्यायेणाविरोधिभिः। निशोपशायः कर्तव्यः फलो- च्चायश्च संहतैः।।’ भ। का। ७-४१।]]
34 [[३। ‘अध्यायन्याय--’ (३-३-१२२) इत्यादिना घापवादो घञ् निपातितः। संज्ञायाम्]]
35 [[४। ‘एरच्’ (३-३-५६) इति भावेऽच्। एवं ‘अभ्युदय’ इति यावदच् प्रत्ययः।]]
36 [[C। ‘निराकरिष्णुर्द्विजकुञ्जराणां तृणीकृताशेषगुणोऽतिमोहात्। पापाशयान् अभ्युदया- र्थमार्च्छीत् प्राग्ब्रह्मरक्षःप्रवरान् दशास्यः।।’ भ। का। ११-४४।]]
37 [[५। ‘परिन्योर्नीणोर्द्यूताभ्रेषयोः’ (३-३-३७) इति घञ्। अभ्रेषोऽस्खलनम्। न्याये स्थितः।]]
38 [[६। ‘संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः’ (३-३-९९) इति स्त्रियां भावे क्यप्।]]
39 [[७। बाहुलकात् क्तिन्नपि--इत्यात्रेयः। समितिः = सभा।]]
40 [[८। ‘संपदादित्वात्--’ (३-३-९४) स्त्रियां भावादौ क्विप्। समित् = युद्धः।]]
41 [[९। ‘अयनं च’ (८-४-२५) इत्यदेशे णत्वम्। देशविशेषे तु न--अन्तरयनो देशः। ‘अन्तश्शब्दस्याङ्किविधिणत्वेषु उपसर्गत्वं वक्तव्यम्’ (वा। १-४-५८) इति वचनात् उपसर्गत्वम्। ‘कृत्यच’ (८-४-२९) इत्यनेनैव सिद्धे, देशे णत्वाभावाय ‘अयनं च’ (८-४-२५) इति सूत्रारम्भः।]]
42 (वर्तते)
43 (देशः)
44 [[१०। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
45 [पृष्ठम्००७१+ २६]
46 [[१। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुलि दीर्घविकल्पः।]]
1 {@“यती प्रयत्ने”@} 2 ‘यतते तु प्रयत्नार्थे, निराकारे तु यातयेत्।’ 3 इति देवः।
यातकः-तिका, यातकः-तिका, यियतिषकः-षिका, यायतकः-तिका
यतिता-त्री, यातयिता-त्री, यियतिषिता-त्री, यायतिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकचेततिवत् 4 ज्ञेयानि।
5 यत्यम्, 6 यत्नः, 7 आयत्तः-आयत्तवान्, 8 यतिः, 9 यतमानः, इतीमानि रूपाण्यस्माद् भवन्तीति विशेषः।
01 (१३३७)
02 (१-भ्वादिः-३०। अक। सेट्। आत्म।)
03 (श्लो। ९६)
04 (५२४)
05 [[१। ‘तकिशसिचतियतिजनीनामुपसंख्यानम्’ (वा। ३-१-९७) इति हलन्तलक्षणण्यदप- वादतया यत्प्रत्यये रूपमेवम्।]]
06 [[२। भावे, ‘यजयाचयतविच्छप्रच्छरक्षो नङ्’ (३-३-९०) इति नङ्प्रत्यये रूपम्।]]
07 [[३। निष्ठायाम्, ‘श्वीदितः--’ (७-२-१४) इति इण्निषेधः।]]
08 [[४। सर्वधातुभ्यो विहित औणादिके कर्तरि इन्प्रत्यये रूपमेवम्।]]
09 [[५। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इत्यनेन ताच्छील्यार्थे चानश्प्र- त्यये रूपमेवम्। शानच्प्रत्ययेऽप्येवमेव। यतमानः = यमनियमाद्यङ्गविशिष्टयोगा- भ्यासकविशेषः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
