यतिः (yatiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishयतिः [yatiḥ], [यम्-क्तिन्]
Restraint, check control.
Stopping, ceasing, rest.
Guidance.
A pause in music
स्थानत्रयं यतीनां च षडास्यानि रसा नव 5.55.
(In prosody) A cæsura
यतिजिह्वेष्टविश्रामस्थानं कविभि- रुच्यते । सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया ॥ Chand. 1
म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्
यतिभङ्गप्रवृत्तस्य यतिभङ्गो न दोषभाक् Śaṁkaradigvijaya.
A widow.-तिः [यतते मोक्षाय यत्-इन्]
An ascetic, one who has renounced the world and controlled his passions
यथा दानं विना हस्ती तथा ज्ञानं विना यतिः 1.119.
of Viṣṇu. -चान्द्रायणम् of a particular kind of penance
अष्टावष्टौ समश्नीयात् पिण्डान् मध्यंदिने स्थिते । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥ 11.218. -पात्रम् an ascetic bowl for collecting alms. -मैथुनम् the unchaste life of ascetics.
Apte 1890
Englishयतिः f. [यम्-क्तिन्] 1 Restraint, check, control.
2 Stopping, ceasing, rest.
3 Guidance.
4 A pause in music.
5 (In prosody) A cæsura
यतिजिह्वेष्टविश्रामस्थानं कविभिरुच्यते । सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया ॥ Cand. M. 1
म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्.
6 A widow.
तिः [यतते मोक्षाय यत्-इन्] 1 An ascetic, one who has renounced the world and controlled his passions
यथा दानं विगा हस्ती तथा ज्ञानं विना यतिः Bv. 1. 119.
2 N. of Viṣṇu.
Apte Hindi
Hindiयतिः
- यम् + क्तिन्
"प्रतिबंध, रोक, नियंत्रण"
यतिः
- -
"रोकना, ठहरना, आराम"
यतिः
- -
दिग्दर्शन
यतिः
- -
संगीत में विराम
यतिः
- -
विश्राम
यतिः
- -
विधवा
यतिः
- -
संन्यासी
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit यतिः
मृदङ्गस्य प्रबन्धविशेषः।
"यतिम् अनुसृत्य नर्तकः नृत्यति।"
यतिः
छन्दोविशेषः।
"केषाञ्चन मतानुसारेण यतौ पञ्च गुरुमात्राः द्विचत्वारिंशत्याधिकैकशतलघुमात्राः च सन्ति केचन पञ्च गुरुमात्राः षट्त्रिंशत्याधिकैकशतलघुमात्राः च सन्ति इति मन्यन्ते।"
यतिः
ब्रह्मणः पुत्रः।
"यतेः उल्लेखः भागवते अस्ति।"
यतिः
नहुषस्य पुत्रः।
"यतेः वर्णनं पुराणेषु प्राप्यते।"
यतिः
छन्दःशास्त्रानुसारेण काव्यगानसमये चरणेषु वर्तमानं तत् स्थानं यत्र लयं रक्षितुं किञ्चित् कालं विश्राम्यते।
"काव्यगानसमये यतौ अवधानं ददातु।"
भक्तः, व्रती, उज्झकः, यतिः, उपासकः
यः कञ्चित् देवतुल्यं मत्वा तं भजते तस्य माहात्म्यं च जानाति।
"सः गान्धीमहोदयस्य भक्तः अस्ति।"
तपस्वी, आश्रमवासी, आश्रमसद्, ऋषिः, जटाधरः, जटी, जटिलः, जितेन्द्रियः, परोक्षः, मुनिः, यतिः, यती, लिङ्गी, श्रमणः, तापसः
यः तपस्यां करोति।
"विश्वामित्रः तपस्वी आसीत्।"
यतिः, यती, तापसः, परिव्राजकः, भिक्षुः, संन्यासिकः, कर्मन्दी, रक्तवसनः, पराशरी, परिकाङ्क्षी, मस्करी, परिरक्षकः
निर्जितेन्द्रियग्रामः।
"सः गृहस्थः तर्हि यतिः। / एककालं चरेद् भैक्ष्यं न प्रसज्जते विस्तरे। भक्ष्य प्रसक्तो हि यतिर् विषयेष्वपि सज्जति॥"
Tamil
Tamilயதி: : துறவி.
யதி: : தடை, நிறுத்தம், தங்குதல்.
शब्दकल्पद्रुमः
Sanskritयतिः, (यतते चेष्टते मोक्षार्थमिति । यत् +“सर्व्वधातुभ्य इन् ।” उणा ० ४ । ११७ । इतिइन् ।) निर्ज्जितेन्द्रियग्रामः । तत्पर्य्यायः ।यती २ । इत्यमरः । २ । ७ । ४४ ॥
भिक्षुः ३संन्यासिकः ४ कर्म्मन्दी ५ रक्तवसनः ६ परि-व्राजकः ७ तापसः ८ पराशरी ९ परिकाङ्क्षी१० मस्करी ११ पारिरक्षकः १२ । इति हेम-चन्द्रः ॥
निकारः । विरतिः । इति तत्रैवनानार्थे ॥
* ॥
तस्य वाराणस्यां वासो यथा, --“अष्टौ मासान् विहारस्य यतीनां संयतात्म-नाम् ।एकत्र चतुरो मासानब्दं वा निवसेत् पुनः ॥
अविमुक्ते प्रविष्टानां विहारस्तु न विद्यते ।यतिभिर्मोक्षकामैश्च अविमुक्तं निषेव्यते ॥
”इति मात्स्ये अविमुक्तमाहात्म्ये १५९ अध्यायः ॥
यतिधर्म्मो यथा, --“अलावुं दारुपात्रञ्च मृण्मयं वैदलं तथा ।एतानि यतिपात्राणि मनुः स्वायद्भुवोऽब्रवीत् ॥
एककालं चरेद्भैक्ष्यं न प्रसज्जत विस्तरे ।भक्ष्य प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥
विधूमे सन्नमुषले व्यङ्गारे भुक्तवज्जने ।वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥
अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् ।प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्बिनिर्गतः ॥
अभिपूजितलाभांस्तु जुगुप्सेतैव सर्व्वशः ।अभिपूजितलाभैश्च यतिर्मुक्तोऽपि वध्यते ॥
अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ।ह्रियमाणानि विषयैरिन्द्रियाणि निवर्त्तयेत् ॥
इन्द्रियाणां निरोधेन रागद्बेषक्षयेण च ।अहिंसया च भूतानाममृतत्वाय कल्पते ॥
अवेक्षेत गतीर्नॄणां कर्म्मदोषसमुद्भवाः ।निरये चैव पतनं यातनाश्च यमक्षये ॥
विप्रयोगं प्रियैश्चैव संयोगञ्च तथाप्रियैः ।जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ॥
देहादुत्क्रमणञ्चास्मात् पुनर्गर्भे च सम्भवम् ।योनिकोटिसहस्रेषु सृतीश्चास्यान्तरात्मनः ॥
अधर्म्मप्रभवञ्चैव दुःखयोगं शरीरिणाम् ।धर्म्मार्थप्रभवञ्चैव सुखसंयोगमक्षयम् ॥
सूक्ष्मताञ्चान्ववेक्षेत योगेन परमात्मनः ।देहेषु च समुत्पत्तिमुत्तमेष्वधमेषु च ॥
दूषितोऽपि चरेद्धर्म्मं यत्र तत्राश्रमे रतः ।समः सर्व्वेषु भूतेषु न लिङ्गं धर्म्मकारणम् ॥
फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ।न नामग्रहणादेव तस्य वारि प्रसीदति ॥
संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा ।शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥
अह्ना रात्र्या च यान् जन्तून् हिनस्त्यज्ञानतोयतिः ।तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् समाचरेत् ॥
प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत् कृताः ।व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥
प्राणायामैर्द्दहेद्दोषान् धारणाभिश्च किल्विषम् ।प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ।उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः ।ध्यानयोगेन सम्पश्येत् गतिमस्यान्तरात्मनः ॥
सम्यग्दर्शनसम्पन्नः कर्म्मभिर्न निवध्यते ।दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ॥
अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्म्मभिः ।तपसश्चरणैश्चोग्रैः साधयन्तीह तत् पदम् ॥
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।चर्म्मावनद्धं दुर्गन्धिपूर्णं मूत्रपुरीषयोः ॥
जराशोकसमाविष्टं रोगायतनमातुरम् ।रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत् ॥
नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा ।तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्बिमुच्यते ॥
प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ।विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥
यदा भावेन भवति सर्व्वभावेषु निष्पृहः ।तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम् ॥
अनेन विधिना सर्व्वांस्त्यक्त्वा सङ्गान् शनैः शनैः ।सर्व्वद्बन्द्बविनिर्म्मुक्तो ब्रह्मण्येवावतिष्ठते ॥
ध्यानिकं सर्व्वमेवैतत् यदेतदभिशब्दितम् ।न ह्यनध्यात्मवित् कश्चित् क्रियाफलमुपाश्नुते ॥
अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च ।आध्यात्मिकञ्च सततं वेदान्ताभिहितञ्च यत् ॥
इदं शरणमज्ञानामिदमेव विजानताम् ।इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥
अनेन क्रमयोगेन परिव्रजति यो द्विजः ।स विधूयेहपाप्मानं परं ब्रह्माधिगच्छति ॥
”इति मानवे ६ अध्यायः ॥
(ब्रह्मणः पुत्त्रविशेषः । यथा, श्रीमद्भागवते । ४ ।८ । १ ।“सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः ।नैते गृहान् ब्रह्मसुता ह्यावसन्नूर्द्ध्वरेतसः ॥
”नहुषपुत्त्रः । यथा, महाभारते । १ । ७५ । ३० ।“यतिं ययातिं संयातिमायातिमयतिं ध्रुवम् ।नहुषो जनयामास षट्सुतान् प्रियवाससि ॥
”विश्वामित्रपुत्त्रः । यथा, महाभारते । १३ । ४ । ५७ ।“आराणिर्नाचिकश्चैव चाम्पेयोज्जयनौ तथा ।नवतन्तुर्वकनखः सयनो यतिरेव च ॥
”त्रि । कर्म्मसूपरतोऽयष्टा । यथा, ऋग्वेदे ।८ । ३ । ९ ।“येनायतिभ्यो भृगवे धने हितेयेन प्रस्कण्वमाविथ ॥
”“येन सुवीर्य्येण यतिभ्यः कर्म्मसूपरतेभ्योऽयष्टृभ्योजनेभ्यः सकाशात् धनमाहृत्य भृगवे महर्षयेप्रयच्छसि ।” इति तद्भाष्ये सायणः ॥
)
यतिः, (यम्यते रसनात्रेति । यम् + “स्त्रियांक्तिन् ।” ३ । ३ । ९४ । इति क्तिन् । “अनु-दात्तोपदेशवनतितनोत्यादीनामिति ।” । ६ । ४ ।३७ । इति मकारलोपः ।) पाठविच्छेदः । इतिमेदिनी । ते, ४६ ॥
जिह्वेष्टविश्रामस्थानम् ।यथा, --“यतिर्जिह्वेष्टविश्रामस्थानं कविभिरुच्यते ।सा विच्छेदविरामाद्यैः पदैर्व्वाच्या निजेच्छया ॥
क्वचिच्छन्दस्यास्ते यतिरभिहिता पूर्व्वकृतिभिःपदान्ते सा शोभां व्रजति पदमध्ये त्यजति च ।पुनस्तत्रैवासौ स्वरविहितसन्धिः श्रयति तांयथा कृष्णः पुष्णात्वतुलमहिमा मां करुणया ॥
श्वेतमाण्डव्यमुख्यास्तु नेच्छन्ति मुनयो यतिम् ।इत्याह भट्टः स्वग्रन्थे गुरुर्मे पुरुषोत्तमः ॥
”इति च्छन्दोमञ्जरी । १ । १६ -- १८ ॥
(नियम्यते इति । यम् + क्तिन् । यतते चेष्टतेव्रतादिरक्षार्थं इति वा । यत + “सर्व्वधातुभ्यइन् ।” उणा० ४ । ११७ । इति इन् ।) विधवा ।रागः । सन्धिः । इति शब्दरत्नावली ॥
वाद्याङ्ग-प्रबन्धविशेषः । यथा, --“यतिरोढाप्यवच्छेदो गजरो रूपकं ध्रुवम् ।गनपः सारिगोणी च नादश्च कथितं तथा ।प्रहरणं वृन्दनञ्च प्रबन्धा द्बादश स्मृताः ॥
”यथा दं थातः । इत्येकताल्यां यतिः । इतिसङ्गीतदामोदरः ॥
(सा त्रिविधा । यथा, मार्कण्डेयपुराणे । २३ । ५३ ।“चतुर्विधं पदं तालं त्रिःप्रकारं लयत्रयम् ।यतित्रयं तथा तोद्यं मया दत्तं चतुर्विधम् ॥
”)
कृदन्तरूपमाला
Sanskrit1 {@“यम उपरमे”@} 2 3 ‘यमो गन्धने’ 4 इति सूत्रे गन्धनरूपस्य 5 अर्थस्याप्युपादानात्, धातोरस्योपसर्गवशात्, स्वभावाद् वा तत्राप्यर्थे वृत्तिरिति ज्ञेयम्।
भ्वादिष्वेव पुरस्तात् 6 ‘यमोऽपरिवेषणे’ 7 इति यत् पठ्यते--तत्तु ‘यम उपरमे’ इत्युत्तरत्रात्रैव विकरणे पठितस्यार्थविशेषे घटादिपाठ--तन्निषेधार्थरूपप्रयोजनद्वय- बशादिति ज्ञेयम्।
उत्तरत्र चैतद् व्यक्तीभविध्यति।
‘परिवेष्टने एव मित्’ इति काशकृत्स्नः।
इति केचित्।]] ‘यमेरुपरमे यच्छेद् यमयेत् परिवेषणे।’ 8 इति देवः।
यामकः-मिका, 9 यमकः-मिका, 10 आयामकः-मिका, 11 यियंसकः-सिका, 12 यंयमकः-यंंय्यमकः-मिका
13 यन्ता-यन्त्री, यमयिता-आयामयिता-त्री, यियंसिता-त्री, यंयमिता-त्री
14 15 यच्छन्-न्ती, नियमयन्-यामयन्-न्ती, यियंसन्-न्ती
-- यंस्यन्-न्ती-ती, नियमयिष्यन्-यामयिष्यन्-न्ती-ती, यियंसिष्यन्-न्ती-ती
-- 16 आयच्छमानः, 17 18 भार्याम्] उपयच्छमानः, 19 पाणिम्] आयच्छमानः, 20 21 संयच्छमानः, 22 उद्यच्छमानः, 23 आयच्छमानः, यमयमानः, नियमयमानः, 24 आयामयमानः, 25 आयियंसमानः, यंयम्यमानः
आयंस्यमानः, उपयंस्यमानः, संयंस्यमानः-उद्यंस्यमानः-आयंस्यमानः, आयामयिष्यमाणः, यमयिष्यमाणः-नियमयिष्यमाणः, आयियंसिष्यमाणः, यंयमिष्यमाणः
26 27 रिपुयत्-रिपुयतौ-रिपुयतः
28 वियत्-वियतौ-वियतः
29 यतम्-यतः-यतवान्, नियमितः-आयामितः, यियंसितः, यंयमितः-तवान्
30 यमः, 31 वाचंयमः 32, 33 यतिः, 34 आयामी, 35 वाग्यामः, यमः, नियमः-आयामः, 36 संयमनः, यियंसुः, यंयमः
यन्तव्यम्, यमयितव्यम्-आयामयितव्यम्, यियंसितव्यम्, यंयमितव्यम्
यमनीयम्, यमनीयम्-यामनीयम्, यियंसनीयम्, यंयमनीयम्
37 यम्यम्, 38 अनियम्यम्-विनियम्यम्, नियाम्यम्, यम्यम्-आयाम्यम्, यियंस्यम्, यंयम्यम्
39 ईषद्यमः-दुर्यमः-सुयमः
-- -- -- यम्यमानः, यम्यमानः-आयाम्यमानः, यियंस्यमानः, यंयम्यमानः
आयामः, 40 उद्यमः, 41 संयामः 42 -उपयमः-उपयामः-नियमः-नियामः, यमः-यामः, यियंसः, यंयमः
यन्तुम्, यमयितुम्-आयामयितुम्, यियंसितुम्, यंयमितुम्
43 यतिः, 44 संयत्, यमना-आयामना, यियंसा, यंयमा
यमनम्, 45 यमनम्-आयामनम्, यियंसनम्, यंयमनम्
46 यत्वा, यमयित्वा-यामयित्वा, यियंसित्वा, यंयमित्वा
47 प्रयत्य-प्रयम्य, 48 प्रयमय्य-प्रयाम्य, प्रयियंस्य, प्रयंयम्य
49 यामम् २, यत्वा २, 50 यमम् २-यामम् २-आयामम् २, यमयित्वा २-यामयित्वा २, यियंसम् २, यियंसित्वा २, यंयमम् २
यंयमित्वा २
51 इत्युनन्प्रत्ययः।
यमुना = नदीविशेषः।]] यमुना, 52 इति त्रप्रत्ययः।
यच्छतीति यन्त्रम् = शरीरसाधनम्, पीडनञ्च।]] यन्त्रम्, 53 इति संज्ञायां क्वुनि रूपमेवम्।
यमकम् = शब्दालङ्कारविशेषः।]] यमकम्।
01 (१३४०)
02 (१-भ्वादिः-८१९-९८४। सक। अनि। पर।)
03 [[[अ]
04 (१-२-१५)
05 (गन्धनम् = सूचनम्’ परदोषाविष्कार इति यावत्।)
06 (८१९ संख्यायां)
07 (ग। सू। भ्वादौ)
08 (श्लो। १४८)
09 [[१। ‘यमोऽपरिवेषणे’ (ग। सू। भ्वादौ) इति पठ्यते। तस्य चायमर्थः-- ‘न कम्यमिचमाम्’ (ग। सू। भ्वादौ) इत्यतो नेति वर्तते। उपरमार्थे पठितो यो यमधातुः स एव परिवेषणरूपार्थभिन्नार्थ एव घटादिपाठं न प्राप्नोति--अर्थात् परिवेषणार्थे घटादिः--इति। तथा च ‘नियमयन् ब्राह्मणान्’ इत्यादिषु परिवेषणार्थकत्वात् घटादित्वम्। तेन मित्त्वात्, ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाह्रस्वे रूपमेवं सर्वत्र बोध्यम्। यदा तु परिवेषणभिन्नार्थकत्वं--तदानीं आयामयन् (= द्राघयन्, व्यापारयन् वा इत्यर्थः) इत्यादिषु मित्त्वनिषेधात् उपधावृद्धिरेवेति बोध्यम्। एवमुत्तरत्रापि।]]
10 [[२। मैत्रेयरक्षित-काशिकाकार-न्यासकार-धातुवृत्तिकार-सिद्धान्त- कौमुदीकारमतानुसारेणात्र प्रयोगे मित्त्वनिषेधात् रूपमेवम्। क्षीरस्वामी तु ‘यमोऽपरिवेषणे’ (ग। सू। भ्वादिः) इत्यत्र पूर्वस्मात् गणसूत्रात् ‘न’ इत्यननुवर्त्य आयमयन् इत्येव साधुरिति विपरीतेन साधयति--तथाहि-- “यमयति, नियमयति, परिवेषणे तु--यामयति श्राद्धेऽन्नम्, आयामयति चन्द्रम्।” इति। तदेतत् पुरुषकारादिषु बहुधा खण्डितमिति नेह प्रतन्यते।]]
11 [[३। सन्नन्तात् द्वित्वादिके मकारस्य नत्वे, ‘नश्चापदान्तस्य--’ (८-३-२४) इति अनु- स्वारे च रूपमेवम्।]]
12 [[४। यङन्तात् ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति नुगागमः, तस्य पदान्तवद्भावेन परसवर्णविकल्पः।]]
13 [[५। तृजादिषु ‘यमिर्ञमन्तेष्वनिडेक इष्यते’ (व्याघ्रभूतिकारिका, भाष्ये ७-२-१०) इति वचनाद् धातोरनिट्त्वम्। मकारस्यानुस्वारे परसवर्णे चैवं रूपम्।]]
14 [पृष्ठम्१०७१+ २६]
15 [[१। शतरि, ‘इषगमियमां छः’ (७-३-७७) इति छकारेऽन्तादेशे तुकि, तस्य श्चुत्वेन चकारे च रूपमेवम्। एवं शानजन्तेष्वपि प्रक्रियोह्या।]]
16 [[२। ‘आङो यमहनः’ (१-३-२८) इति अकर्मकादस्मादाङ्पूर्वकादात्मनेपदं शानच्। अकर्मकादित्युक्तत्वात् आयच्छन् कूपाद् रज्जुम्’ इत्यत्र शतैव।]]
17 [[आ। ‘श्रियमायच्छमानाभिरुत्तमाभिरनुत्तमाम्।।’ भ। का। ८। ४६।]]
18 [[[३। ‘उपाद् यमः स्वकरणे’ (१-३-५६) इत्यात्मनेपदम्। स्वकरणम् = स्वीकरणम्। पाणिग्रहणमिति भट्टोजिप्रभृतयः। तत्तु भाष्याद्यनारूढत्वादुपेक्ष्यमिति शेखरकारादयः। स्वकरणभिन्नार्थे ‘देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छन्’ इत्यत्र शतैव।]]
19 [[[४। ‘स्वाङ्गकर्मकाच्च--’ (वा। १-३-२७) इति वचनादात्मनेपदम्।]]
20 [व्रीहीन्]
21 [[५। ‘समुदाङ्भ्यो यमोऽग्रन्थे’ (१-३-७५) इति सम् उत् आङ् पूर्वकादस्मात् यमधातोः ग्रन्थभिन्नविषये वर्तमानात् आत्मनेपदम्। ‘अग्रन्थे’ इत्युक्तत्वात् ‘उद्यच्छन् चिकित्सां वैद्यः’ इत्यादिषु शतैव। ‘स्वान् व्रीहीन् संयच्छन्’ इत्यादिषु तु ‘विभाषोपपदेन प्रतीयमाने’ (१-३-७७) इति पक्षे शताऽपि साधुरेवेति ज्ञेयम्।]]
22 [भारम्]
23 [वस्त्रम्]
24 [[६। ‘न पादम्याङ्यम--’ (१-३-८९) इति ण्यन्तात् परस्मैपदनिषेधः। ‘अणा- वकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति प्राप्तस्य परस्मैपदस्यापवादोऽयम्। केचित् तु कर्त्रभिप्रायक्रियाफलार्थतया अत्रात्मनेपदमिति न
\n\n परं तु परगामिनि क्रियाफले परस्मैपदमपीति वदन्ति।]]
25 [[७। ‘पूर्ववत् सनः’ (१-३-६२) इति सनः प्रकृतेर्निदान एव सन्नन्तादत्रापि शानजिति ज्ञेयम्।]]
26 [पृष्ठम्१०७२+ ३०]
27 [[१। रिपून् यच्छति = उपरतं करोति इत्यर्थे कर्मण्युपपदे, ‘क्विप् च’ (३-२-७६) इति क्विप्। ‘गमादीनाम्--’ (वा। ६-४-४०) इति वचनादनुनासिकलोपे तुकि रूपमेवम्।]]
28 [[२। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति क्विपि रूपमेवम्। वियत् = विष्णुपदम्।]]
29 [[३। निष्ठायाम्, ‘अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति’ (६-४-३७) इत्यनुनासिकलोपे रूपम्। एवमेव क्त्वाक्तिन्प्रभृतिष्वपि रूपनिष्पत्तिर्ज्ञेया।]]
30 [[४। यच्छतीति यमः। कर्तरि पचाद्यच्।]]
31 [[५। ‘वाचि यमो व्रते’ (३-२-४०) इति वाग्रूपे कर्मण्युपपदे खच्प्रत्ययः। ‘वाचंयम- पुरन्दरौ च’ (६-३-६९) इत्यनेनामन्तत्वं निपात्यते। निपातनाद् द्वितीयायाः अलुक्। वाचंयमः = मौनव्रती।]]
32 [[आ। ‘वाचम्यमान् स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्।’ भ। का। ३-४१।]]
33 [[६। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति कर्तरि संज्ञायां क्तिच्प्रत्ययः, बाहुलकात् ‘न क्तिचि दीर्घश्च’ (६-४-३९) इति न प्रवर्तते। नितरां मन आदिकं यच्छतीति यतिः। अनुनासिकलोपोऽपि बाहुलकादेवेति ज्ञेयम्। केचित् तु ‘स्त्रियां क्तिन्’ (३-३-९४) इति क्तिन्, बाहुलकात् पुंंल्लिङ्गत्वमिति वदन्ति।]]
34 [[७। तच्छीलादिषु कर्तृषु, ‘सम्पृचानुरुधाङ्यम--’ (३-२-१४२) इत्यादिना, आङ्पूर्वकादस्माद् घिनुण्प्रत्यये रूपमेवम्।]]
35 [[८। व्रतभिन्नार्थे विवक्षिते, वाचं यच्छतीत्यर्थे ‘कर्मण्यण्’ (३-२-१) इत्यण्प्रत्यये रूपमेवम्।]]
36 [[९। ण्यन्तात्, नन्द्यादित्वात् (३-१-१३४) कर्तरि-ल्युप्रत्यये अनादेशे च रूपम्।]]
37 [[१०। ‘गदमदचरयमश्चानुपसर्गे’ (३-१-१००) इति हलन्तलक्षणण्यदपवादतया यत्प्रत्ययः। यद्यपि, ‘पोरदुपधात्’ (३-१-९८) इत्येवात्र यत् सिद्धः, तथापि स यत् अनुपसृष्टादेव धातोरिति समर्थनाय पृथक् यमधातोरुपादानमिति ज्ञेयम्। एवं निरूढत्वात्, उपसृष्टे तु नियाम्यम् इत्यादिकानि ण्यदन्तान्येव साधूनि।]]
38 [[११। ‘--अनुपसर्गे’ (३-१-१००) इत्युक्तत्वात्, कथमत्र सोपसर्गस्थले यत्प्रत्ययस्योप- पत्तिरिति शङ्कित्वा, ‘तेन न तत्र भवेद् विनियम्यम्।’ इति व्याघ्रभूतिकारिकायां ‘विनियम्यम्’ इत्युक्तत्वात्, विपूर्वकात्, निपूर्वकाच्च यदेवेति व्याख्यातारः समर्थयन्ति। तेन, ‘अनियम्यस्य नायुक्तिः--’ (न्यायकुसुमाञ्जलिः ३-१९) ‘त्वया नियम्या ननु दिव्यचक्षुषा--’ इत्यादिप्रयोगा उपपन्ना इति ज्ञेयम्।]]
39 [पृष्ठम्१०७३+ २९]
40 [[१। उत्पूर्वकादस्माद् घञि, यद्यपि वृद्धौ सत्याम्--उद्यामः इति न्याय्यम्
\n\n तथापि ‘अड उद्यमे’ (भ्वादिः-अक। सेट्।) इत्यादिनिर्देशबलादत्र भावेऽबेवेति व्याख्यानेषु समर्थितम्]]
41 [[२। ‘यमः समुपनिविषु च’ (३-३-६३) इति वैकल्पिकोऽप्प्रत्ययः। पक्षे घञ्। तेन रूपद्वयमत्र सर्वत्रेति ज्ञेयम्। बाहुलकात्, संज्ञायां पुंसि घप्रत्यये वा यमः इत्यपि साधुः। यमोऽस्यास्तीति यमी।]]
42 [[आ। ‘संयामवन्तो यतिवत्, निनादानपरेऽमुचन्।।’ भ। का। ७। ५७।]]
43 [[३। स्त्रियां भावादौ क्तिन्प्रत्ययेऽनुनासिकलोपे च रूपमेवम्। यतिः = वृत्तेषु विच्छित्ति- विशेषद्योतकोऽवसानविशेषः।]]
44 [[४। ‘सम्पदादिभ्यः--’ (वा। ३-३-१०८) इति भावे स्त्रियां क्विपि, ‘गमादीनामिति वक्तव्यम्’ (वा। ६-४-४०) इत्यनुनासिकलोपे तुकि च रूपमेवम्। बाहुलकादत्र क्विबिति ज्ञेयम्। संयत् = युद्धम्। सुरूपिणी कन्या च।]]
45 [[B। ‘निशम्यया मञ्जुगिरा कदा नः स यामयेद्वा यमनादिकार्ये।।’ धा। का। २। १८।]]
46 [[५। क्त्वायामनुनासिकलोपे रूपमेवम्। “उदिदिति श्रीभोजः। यत्वा, यमि- त्वा।” इति क्षीरस्वामी। तन्मते धातोरस्य वलाद्यार्धधातुकेषु सर्वत्र यमिता-यन्ता इत्यादिकानि रूपाणि ज्ञेयानि। परं तु भाष्ये (७-२-१०) अनिट्कारिकाप्रकरने यमधातोरस्योपसंग्रहणात् पक्षोऽयमप्रामाणिक इति, यमि- त्वा इत्यादयः प्रयोगा अपाणिनीया इति, यदि तेषां प्रामाणिकत्वं, तदा व्याकर- णान्तररीत्या, बाहुलकाद्वा निर्वाहः करणीय इति च ज्ञेयम्।]]
47 [[६। ‘वा ल्यपि’ (६-४-३८) इत्यत्र व्यवस्थितविभाषाश्रयणात्, मकारान्तानामनिटां विकल्पेनानुनासिकलोपः। तेनानुनासिकलोपपक्षे तुकि, तदभावपक्षे च रूपद्वय- मत्रेति ज्ञेयम्।]]
48 [[७। ण्यन्ताल्ल्यपि, मित्त्वपक्षे उपधाह्रस्वे, ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
49 [पृष्ठम्१०७४+ २६]
50 [[१। ण्यन्तात् मित्त्वपक्षे, ‘चिण्णमुलोः--’ (६-४-९३) इति दीर्घविकल्पनाद्रूपद्वयमिति बोध्यम्।]]
51 [[२। ‘अजियमिशीङ्भ्यश्च’ [द। उ। ५-६१]
52 [[३। ‘गृधृवीपचिवचियमि--’ [द। उ। ८। ८९]
53 [[४। ‘क्वुन् शिल्पिसंज्ञयोः--’ [द। उ। ३। ५]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
