| YouTube Channel

यजनं (yajanaM)

 
Apte 1890
English
यजनं [यज्-ल्युट्] 1 The act of sacrificing.
2 A sacrifice
देवयजनसभंबे देवि सीते U. 4.
3 A place of sacrifice.
शब्दकल्पद्रुमः
Sanskrit
यजनं,
क्ली,
(इज्यते इति यज् + ल्युट् ।) यागः ।(यथा, महाभारते ५३ ३७ ।“यस्य सेन्द्रामरगणा बृहस्पतिपुरोगमाः ।देवा विश्वसृजः सर्व्वे यजनान्ते समासते
”)तत्तु ब्राह्मणस्य षट्कर्म्मान्तर्गतकर्म्मविशेषः ।यथा, मानवे अध्याये ।“अध्यापनं अध्ययनं यजनं याजनं यथा ।दानं प्रतिग्रहश्चैव ब्राह्मणानामकल्पयत्
”अस्य लक्षणं यथा पशुक्षीराज्यपुरोडास-सोमौषधिचरुप्रभृतिभिहविर्भिः खदिरपलाशा-श्वत्थन्यग्रोधोडुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रुवो-दूखलमुषलकुठारखनित्रयूपदारुदर्भचर्म्मग्राव-पवित्रभाजनादिभिर्द्रव्योपकरणैरुद्गातृहोत्रध्वर्य्यु-ब्रह्मादिभिरृत्विग्भिः काम्यनैमित्तिकानांपक्षादिपूर्व्वकाणां यथोक्तदक्षिणानां समापनंयजनम् इति श्राद्धविवेकधृतदेवलवचनम्
(इज्यतेऽत्रेति यज् + अधिकरणे ल्युट् यज्ञ-स्थानम् यथा, श्रीमद्भागवते ।“नृद्दार्व्वयःकाञ्चनदर्भचर्म्मभि-र्निसृष्टभाण्डं यजनं समाविशत्
”“यजनं यज्ञस्थानम् ।” इति तट्टीकायां श्रीधर-स्वामी
)