| YouTube Channel

म्लेछ (mlecha)

 
Wilson
English
म्लेछ r. 1st and 10th cls. (म्लेछति म्लेछयति)
1 To speak inarticulately or incorrectly, to use a provincial or barbarous
dialect.
2 To speak.
धातुप्रदीपः
Sanskrit
म्लेछँ म्लेच्छ अव्यक्तायां_वाचि
- म्लेच्छति मिम्लेच्छ क्षुब्धादिसूत्रे (7/2/18) निपातनान् म्लिष्टम् म्लेच्छितम् ।। 202 ।।
म्लेछँ म्लेच्छ अव्यक्तायां_वाचि
- म्लेच्छयति म्लेच्छयामास म्लेच्छतीति गणान्तरे 124
क्षीरतरङ्गिणी
Sanskrit
म्लेछँ म्लेछ अव्यक्तायां_वाचि
- म्लेच्छति म्लेच्छनम्, म्लेच्छः म्लेच्छो वा एष योऽपशब्दः, म्लेच्छितवै, नापभाषितवै क्षुब्धस्वान्तध्वान्त (8218) इत्यविस्पष्टे म्लिष्टम् साधु, म्लेच्छितमन्यत् 202
म्लेछँ म्लेछ अव्यक्तायां_वाचि
- म्लेच्छयति भ्वादौ (1125) म्लेच्छति म्रक्ष रोषे, म्लेच्छ अव्यक्ते शब्दे इति सिद्धे चन्द्र एतौ नैच्छत् बहुलमेतन्निदर्शनम् (10325) इति सर्वे चुरादौ पाठ्याः इति चान्द्रोऽभिप्रायः 121
धातुवृत्तिः
Sanskrit
म्लेछँ म्लेच्छ (अर्थः) अव्यक्ते_शब्दे
(अर्थविवरणम्) इहाव्यक्तशब्दोस्फुटशब्दोपशब्दश्च
उक्तं हि पस्पशायां "तस्माद्ब्राह्मणेन म्लेच्छितवै नापभाषितवै म्लेच्छोह वा एष यदपशब्द' इति, म्लेच्छितवा इत्यस्य पर्यायो नापभाषितवाइति कैयटे ( म्लेच्छिति मिम्लेच्छ म्लेच्छितेत्यादि ) ( सूत्रम्) दीर्घात् (इति सूत्रम्) दीर्घाच्छकारे परतो दार्घस्य तुगिति तुक् ( सूत्रम्) तस्मिन्निति निर्दिष्टे पूर्वस्य (इति सूत्रम्) इति सप्तमीनिर्देशे पूर्वस्य षष्ठी प्रकल्प्येति दोर्घस्य तुगागमः ननु "तस्मादित्युत्तरस्य'' इति पञ्चमीनिर्देशे उत्तरस्य षष्ठी प्रकल्प्येत्युक्तत्वादिह चानवकाशया दीर्घादितिपञ्चम्या "छे च'' इत्यत्र सावकाशया छइति सप्तम्या एव षष्ठी प्रक्लृप्तिर्युक्ता, ततश्च तुकः कित्त्वेन छकारात्परत्वे चुत्वचर्त्वयोर्म्लेच्चतीति द्विचकारकं रूपं स्यात् नैष दोषः यतः "विभाषा सेनासुराच्छाया'' इति निर्देशाल्लिङ्गात् पञ्चम्या एव षष्ठी प्रकल्पयिष्यते ( मिम्लेच्छिषति मेम्लेच्छ्यते मेम्लेच्छीति मेम्लेष्टि मेम्लेष्टः मेम्लेच्छति ) इत्यादि, झलि "व्रश्च'' आदिना षत्वे ष्टुत्वम् म्लेक्षि "षढोः कः सि'' इति कत्वे षत्वं, ( म्लेश्मि म्लेश्म ) म्लेश्म ) इत्यत्र ( सूत्रम्) च्छ्वोः शूडनुनासिके (इति सूत्रम्) च्छकारवकारयोर्थथासङ्ख्यं शकारोठौ भवतो ऽनुनासिकादौ प्रत्यये झलादौ ङ्कितीति च्छकारस्य शकारः अयं "क्रमश्च कित्वं'' "च्छ्वोः'' इतिनिर्देशात्सतुक्कस्य अन्त्यादेशस्तु भवति "नानर्थके ऽलोत्यस्य विधि'' इति नङो ङित्करणाद्वा, अन्त्यादेशे विश्न इत्यत्रानिगुपधत्वादेव गणाप्रसङ्गात् किं कित्त्वेन अत एव ङित्त्वाच्छ्वोरितिनिर्देशः सतुक्कस्येत्यपि ज्ञायते, ये तद्विधौ ङ्कितीति नानुवर्त्तयन्ति तेषां ज्ञलादिमात्रे शकारेकृते तस्यैव "व्रश्च'' आदिना षत्वं द्रष्टव्यम् अत्र मते तत्र छग्रहणं व्यर्थं स्यात्, वृत्तिप्रदीपे तु छस्य शादेश उक्तः, तुगभावस्तु "अकृतव्युहाःपाणिनीयाः'' कृतमपि शास्त्रं निवर्त्तयन्तीतिम्लिष्टम्"क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानिमन्थमनस्तमस्सक्ताविस्पष्टस्वरानायासभृशेषु'' इति अविस्पष्टार्थे निपातितः अपशब्दे तु म्लेच्छितमिति भवति, अस्य शपि पाठो म्लेच्छतीति "शप्श्यनोर्नित्यम्'' इति नित्यनुमर्थः, शे हि विकल्पः स्यात, स्वरे भेदः शपि शपः पित्त्वाद् "अनुदात्तौ सुप्तितौ' इति अनुदात्तः, शस्तु प्रत्त्ययस्वरेणाद्युदात्तः एवमीदृशामन्येषामपि धातूनां विकरणभेदे फलत्रयम् अयञ्चुरादावपि 203
म्लेछँ म्लेच्छ (अर्थः) अव्यक्तायां_वाचि
इहाव्यक्तवागपशब्दनम् ( म्लेच्छयति ) म्लेच्छतीति भूवादौ 127