| YouTube Channel

मोचरसः (mocarasaH)

 
शब्दकल्पद्रुमः
Sanskrit
मोचरसः
पुं,
(मोचस्य रसः ।) शाल्मलिनिर्यासः ।तत्पर्य्यायः मोचस्रुत् मोचस्रावः मोच-निर्यासः पिच्छिलसारः सुरसः शाल्मली-वेष्टः मोचसारः अस्य गुणाः ।कषायत्वम् कफवातहरत्वम् रसायनत्वम् ।बलपुष्टिवर्णवीर्य्यप्रज्ञायुर्देहसिद्धिदत्वम् ग्राहि-त्वञ्च इति राजनिर्घण्टः
(यथा, मुश्रुते ।उत्तरतन्त्रे ४० अध्याये ।“तिलामोचरसो लोध्रं तथैव मधुकोत्पलम् ।कच्छरातिलकल्कश्च योगाश्चत्वार एव तु
आजेन पयसा पेयाः सरक्ते मधुसंयुताः
”)