मैथुनं (maithunaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritमैथुनं, (मिथुने सम्भवतीति । मिथुन +“संभूते ।” ४ । ३ । ४१ । इति अण् । मिथुनस्येद-मित्यण् वा ।) अग्न्याधानम् । यथा, मनुशाता-तपौ ।“असपिण्डा च या मातुरसगोत्रा च या पितुः ।सा प्रशस्ता द्बिजातीनां दारकर्म्मणि मैथुने ॥
मैथुने मिथुनशब्दवाच्ये स्त्रीपुंससाध्ये अग्न्याधान-पुत्त्रोत्पत्त्यादौ ।” इत्यद्वाहतत्त्वम् ॥
* ॥
सङ्गतम् ।रतम् । इत्यमरः । ३ । ३ । १२१ ॥
“सङ्गतिः सङ्गमोदारसंयोगः विवाह इति कलिङ्गः ॥
रतं सुर-तम् । अनयोर्मैथुनम् । मिथुनात् सङ्गमे इदमर्थेस्वार्थे रतौ निष्पाद्यार्थे वा ष्णः । सम्बन्धे सुरतेयुम्मे राशौ मिथुनमिष्यते । इति व्याडिः ।” इतितट्टीकायां भरतः ॥
* ॥
शेषस्य पर्य्यायः । सुरतम्२ अभिमानितम् ३ धर्षितम् ४ संप्रयोगः ५अनारतम् ६ अब्रह्मचर्य्यकम् ७ उपसृष्टम् ८त्रिभद्रम् ९ क्रीडारत्नम् १० महासुखम् ११ ।इति त्रिकाण्डशेषः ॥
व्यवायः १२ ग्राम्य-धर्म्मः १३ रतम् १४ निधुवनम् १५ । इत्यमरः ।२ । ७ । ५७ ॥
अस्य गुणाः । धातुक्षयकारि-त्वम् । रतिसन्तानदातृत्वञ्च । अतिशयमैथुनस्यश्वासकासज्वरकारित्वम् । अमैथुनस्य प्रमेहमेदग्रन्थिरोगाग्निमान्द्यकारित्वम् । स्त्रीसंसर्गरहि-तस्य आयुरजराशरीरबलवर्णस्थिरोपचित-मांसानि भवन्ति । पूज्यस्थानाशुचिस्थान-सेकस्थानलोकसमीपप्रातःकालसन्ध्याकालपर्व्व-कालेषु तस्य त्याज्यत्वम् । एतत्कर्म्मणि रज-स्वलाकामा मलिना बन्ध्या वर्णज्येष्ठा वयोज्येष्ठाव्याधियुक्ताङ्गहीनासती वेश्या योनिदोषयुक्तासगोत्रा गुरुपत्नी भिक्षुकी कपटव्रतधारिणीवृद्धा च त्याज्या ॥
रजस्वलागमने दृष्ट्यायुस्तेजः-क्षयोऽधर्म्मश्च भवति । कपटव्रतयुक्तागुरुपत्नीसगोत्रावृद्धागमने एवं पर्व्वकाले सन्ध्याकाले चस्त्रीमैथुने पापमायुःक्षयश्च भवति । वयोरूप-गुणोपेतां कुलशीलसमन्विताम् । अधिकामांहृष्टामलङ्कृतां वाजीकरणपीडिताञ्च प्रमदांहृष्टोऽधिकामश्च पुरुषः सेवेत । शुक्रवर्द्धकद्रव्यंसशर्करं शीतलजलं वा पीत्वा कामबाणचञ्चलांसुरूपामनिन्द्यां हृष्टां प्रमदामाद्यप्रहरे हृष्टःकामुको गत्वा तदनु सुखं स्वपेत् । असकृद्-गमने तु नरो धातुवैषम्यमेति । रतान्ते स्नानंसशर्करक्षीरपानं निद्रा गौडिकरसभोजनञ्चहितम् । इति राजवल्लभः ॥
* ॥
(“तत्र प्रथमेदिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुंसांभवति । यश्च तत्राधीयते गर्भः स प्रसवमानोविमुच्यते । द्वितीयेऽप्येवं सूतिकागृहे वा ।तृतीयेऽप्येवमसम्पूर्णाङ्गोऽल्पायुर्वा भवति । न चप्रवर्त्तमाने रक्ते बीजं प्रविष्टं गुणकरं भवतियथा नद्यां प्रतिस्रोतः प्लाविद्रव्यं प्रक्षिप्तं प्रति-निवर्त्तते नोर्द्ध्वं गच्छति तद्बदेव द्रष्टव्यम् । तस्मान्नियमवतीं त्रिरात्रं परिहरेत् । अतःपरं मासा-दुपेयात् ।”“ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत् ।आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि ॥
मासि मासि विवर्द्धेत गर्भिण्या गर्भलक्षणम् ।कललं जायते तस्या वर्ज्जितं पैतृकैर्गुणैः ॥
”इति सुश्रुते शारीरस्थाने द्वितीयेऽध्याये ॥
)व्रतदिवसे अष्टाङ्गमैथुनस्य त्याज्यत्वं यथा, --“स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च ।मैथुनं विविधं त्याज्यं व्रते क्रीडाविवृद्धये ॥
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४ अध्यायः ॥
अस्य विधिनिषेधौ यथा, --“ऋतायुपगमः शस्तः स्वपत्न्यामवनोपते ! ।पुन्नामर्क्षे शुभे काले ज्येष्ठयुग्मासु रात्रिषु ॥
नास्नातां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम् ।नानिष्टां न प्रकुपितां नाप्रशस्तां न गुर्व्विणीम् ॥
नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् ।क्षुत्क्षामामतिभुक्तां वा स्वयं वैभिर्गुणैर्युतः ॥
स्नातः स्रग्गन्धधृक् प्रीतो नाध्मातः क्षुधितो-ऽपि वा ।सकामः सानुरागश्च व्यवायं पुरुयो व्रजेत् ॥
चतुर्दश्यष्टमी चैव अमावास्याथ पूर्णिमा ।पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥
तैलस्त्रीमांससंभोगी पर्व्वस्वेतेषु वै पुमान् ।विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥
अशेषपर्व्वस्वेतेषु तस्मात् संयमिभिर्ब्बुधैः ।भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर्नरैः ॥
नान्ययोनावयोनौ वा नोपभुक्तौषधस्तथा ।देवद्बिजगुरूणाञ्च व्यवायी नाश्रयी भवेत् ॥
चैत्यचत्वरतीर्थेषु नैव गोष्ठे चतुष्पथे ।नैव श्मशानोपवने सलिलेषु महीपते ! ॥
प्रोक्तपर्व्वस्वशेषेषु नैव भूपाल ! सन्ध्ययोः ।गच्छेद्व्यवायं मतिमान्न मूत्रोच्चारपीडितः ॥
पर्व्वस्वभिगमोऽधन्यो दिवा पापप्रदो नृप ! ।भुवि रोगावहो नॄणामप्रशस्तो जलाशये ॥
परदारान्न गच्छेत मनसापि कदाचन ।किमु वाचास्थिबन्धोऽपि नास्ति तेषु व्यवा-यिनाम् ॥
मृतो नरकमभ्येति हीयतेऽत्रापि चायुषः ।परदारगतिः पुंसामुभयत्रापि भीतिदा ॥
इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् ।यथोक्तदोषहीनेषु सकामेष्वनृतावपि ॥
”इति विष्णुपुराणे । ३ । ११ । १११-१२४ ॥
* ॥
परस्त्र्यादिगमने दण्डो यथा, --“ब्राह्मणः क्षत्त्रियो वैश्यः क्षत्त्रविट्शूद्रयोषितः ।व्रजन्दाप्यो भवेद्राज्ञा दण्ड उत्तमसाहसम् ॥
वैश्यागमे च विप्रस्य क्षत्त्रियस्यान्त्यजागमे ।मध्यमं प्रथमं वैश्यो दण्ड्यः शूद्रागमाद्भवेत् ॥
शूद्रः सवर्णागमने शतं दण्ड्यो महीभुजा ।वैश्यश्च द्बिगुणं राजन् ! क्षत्त्रियस्त्रिगुणं तथा ॥
ब्राह्मणश्च भवेद्दण्ड्यस्तथा राजंश्चतुर्गुणम् ।अगुप्तासु भवेद्दण्डः स्वगुप्तास्वधिको भवेत् ॥
माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा ।पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी तथा ॥
भागिनेयी तथा चैव राजपत्नी तथैव च ।तथा प्रव्रजिता नारी वर्णोत्कृष्टा तथैव च ॥
इत्यगम्यास्तु निर्द्दिष्टास्तासान्तु गमने नरः ।शिश्नस्योत्कर्त्तनं कृत्वा ततस्तु वधमर्हति ॥
भ्रातृभार्य्यागमे पूर्व्वाद्दण्डस्तु द्बिगुणो भवेत् ।चाण्डालीञ्च श्वपाकीं वा गच्छन् वधमवाप्नुयात् ।तिर्य्यग्योनौ च गोवर्ज्यं मैथुनं योऽभिसेवते ।स पणं प्राप्तुयाद्दण्डं तस्याश्च यवसोदकम् ॥
सुवर्णञ्च भवेद्दण्ड्यो गां व्रजन् मनुजोत्तम ! ।वैश्यागामी द्बिजो दण्ड्यो वैश्यशुल्कसमं पणम् ॥
गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति ।वेतनं द्बिगुणं दद्याद्दण्डञ्च द्विगुणन्तथा ॥
अन्यमुद्दिश्य यो दद्यात् नयेदन्यस्य कारणात् ।तस्य दण्डं भवेद्राजन् ! सुवर्णस्य च माषकम् ॥
नीत्वा भोगान्न यो दद्याद्दाप्यो द्विगुणवेतनम् ।राज्ञश्च द्बिगुणं दण्डन्तथा धर्म्मो न हीयते ॥
बहूनां व्रजतामेकां सर्व्वे ते द्विगुणं दमम् ।दद्युः पृथक् पृथक् सर्व्वे दण्डञ्च द्बिगुणं परम् ॥
”इति मात्स्ये २०१ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
