मैत्रं (maitraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritमैत्रं, (मित्रादागतमिति । यद्बा, मित्रस्येद-मिति । मित्र + “तस्येदम् ।” ४ । ३ । १२० । इतिअण् ।) अनुराधानक्षत्रम् १७ । यथा, --“मैत्राद्यपादे स्वपितीह विष्णु-र्व्वैष्णव्यमध्ये परिवर्त्तते च ।पौष्णावसाने च सुरारिहन्ताप्रबुध्यते मासचतुष्टयेन ॥
”इति तिथ्यादितत्त्वम् ॥
* ॥
(मित्रः सूर्य्यो देवतास्येति । आदित्यलोकः ।यथा, महाभारते । १२ । ३१७ । ३ ।“पायुनोत्क्रममाणन्तु मैत्रं स्थानमवाप्नुयात् ।पृथिवीं जघनेनाथ ऊरुभ्याञ्च प्रजापतिम् ॥
”यद्बा, मनुः । १२ । ७२ ।“मेत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ॥
”)पुरीषोत्सर्गः । यथा, --“ततः कल्यं समुत्थाय कुर्य्यान्मैत्रं नरेश्वर ! ।नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ॥
कल्यं उषःकालम् । मैत्रं मित्रदेवताकपायुसम्ब-न्धात् पुरीषोत्सर्गः ।” इत्याह्निकाचारतत्त्वम् ॥
अपि च ।“ब्राह्म्ये मुहूर्त्ते चोत्तिष्ठेत् सुस्थो रक्षार्थमायुषः ।शरीरचिन्तां निर्व्वर्त्य मैत्रं कर्म्म समाचरेत् ॥
”मैत्रं मलमूत्रोत्सर्गः । इति राजवल्लभः ॥
* ॥
तत्र निषिद्धस्थानादि यथा, --“छायाकूपनदीगोष्ठचैत्याम्भःपथिभस्मसु ।अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत् ॥
न गोमये न दृष्टे वा महावृक्षे च शाद्बले ।न तिष्ठन् वा न निर्व्वासा न च पर्व्वतमस्तके ॥
न जीर्णदेवायतने न वल्मीके कदाचन ।न ससत्त्वेषु गर्त्तेषु न गच्छन् वा समाचरेत् ॥
तुषाङ्गारकपालेषु राजमार्गे तथैव च ।न क्षेत्रे न विले वापि न तीर्थे न चतुष्पथे ॥
नद्यां नदसमीपे वा नोषरे न पराशुचौ ।न सोपानत्पादुको हि छत्री वा नान्तरीक्षके ॥
न चैवामिमुखः स्त्रीणां गुरुब्राह्मणयोर्गवाम् ।न देवदेवालययोरपामपि कदाचन ॥
न ज्योतींषि निरीक्षन् वा न वाय्वभिमुखो-ऽथवा ।प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥
”इति कौर्म्मे उपविभागे १२ अध्यायः ॥
अस्य विस्तारस्तु पाद्मे उत्तरखण्डे १९० अध्यायेद्रष्टव्यः ॥
* ॥
(मित्रस्य भावः । मित्र + अण् ।मित्रता । यथा, मनुः । ८ । ११८ ।“लोभात् मोहात् भयात् मैत्रात् कामात्क्रोधात् तथैव च ।अज्ञानात् बालभावाच्च साक्ष्यं वितथमुच्यते ॥
”)त्रि, मित्रसम्बन्धी ॥
(यथा, महाभारते । १२ ।१४४ । २३ ।“पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् ।ऋतं मैत्रञ्च भाषन्ते ते नराः स्वर्गगामिनः ॥
”मित्रताशाली । यथा, श्रीमद्भगवद्गीतायाम् ।१२ । १३ ।“अद्वेष्टा सर्व्वभूतानां मैत्रः करुणं एवच ।निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥
”“मित्रभावो मैत्रो मित्रतया वर्त्तते ।” इतिश्रीशङ्करभाष्यम् ॥
“मैत्रः हीनेषु कृपालुः ।”इति श्रीधरस्वामी ॥
“मैत्री मित्रता तद्बान्मैत्रः ।” इति श्रीमधुसूदनसरस्वती ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
