| YouTube Channel

मेध्यं (medhyaM)

 
शब्दकल्पद्रुमः
Sanskrit
मेध्यं, त्रि, (मेध्यते इति मेध् + “ऋहलोर्ण्यत् ।”३ १२४ इति ण्यत् यद्बा, मेधामर्ह-तीति मेधा + दण्डादित्वात् यत् ।) पवित्रम् ।इत्यमरः ५५
(यथा, --“ज्ञानेन मेध्यमखिलममेध्यं ज्ञानतो भवेत्ब्रह्मज्ञाने समुत्पन्ने मेध्यामेध्यं विद्यते
”इति चिन्तामणिधृतवचनम्
)“पवित्रः प्रयतः पूत इति ब्रह्मवर्गे प्राणिविषय-मात्र उक्तं इह त्वप्राणिद्रव्ये ।” इति भरतः
“पूतं मेध्यं पवित्रं स्याद्बीध्रं प्रयतनिर्म्मलम् ।निशोध्यं शोधितं मृष्टं निर्निक्तमनवस्करम्
”इति शब्दरत्नावली
(नित्यमेध्यम् यथा, मनुः १२९ ।“नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् ।ब्रह्मचारिगतं भैक्ष्यं नित्यमेध्यमितिस्थितिः
”)शुचिः इति मेदिनी ये, ४७
(यथा, अनर्घराघवे १४ ।“तत्तादृक् तृणपूलकोपनयनक्लेशाच्चिर-द्वेषिभि-र्मेध्या वत्सतरी विहस्य बटुभिः सोल्लुण्ठमाल-भ्यते
”मेधाजनकः यथा, --“मण्डूकपर्ण्याः स्वरसः प्रयोज्यःक्षीरेण यष्टीमघुकस्य चूर्णं ।रसो गुडूच्यास्तु समूलपुष्पाःकल्कः प्रयोज्यः खलु शङ्खपुष्पाः
आयुः प्रदान्यामयनाशनानिबलाग्निवर्णस्वरवर्द्धनानि ।मेध्या विशेषेण शङ्खपुष्पी
”इति चरके चिकित्सास्थाने प्रथमेऽध्याये
)