| YouTube Channel

मृतं (mRtaM)

 
Hindi
Hindi
मृत
पुराणम्
English
मृतम् / MṚTAM. See under Pramṛtam.
शब्दकल्पद्रुमः
Sanskrit
मृतं,
क्ली,
(मृ + क्तः ।) याचितम् इत्यमरः ।२
याचनवृत्तिर्मरणमिव दुःखजन-कत्वात् मृतं भावे कर्म्मणि वा क्तः इतिभरतः
मृत्युः इति हेमचन्द्रः
मृतं, त्रि, याचितवस्तु गतप्राणः मरा इतिभाषा तत्पर्य्यायः परासुः प्राप्तपञ्चत्वः ३परेतः प्रेतः संस्थितः प्रमीतः ।इत्यमरः
कलौ मृतस्य धन्यत्वं यथा, “धर्म्मः प्रव्रजितस्तपः प्रवसितं सत्यञ्च दूरेगतंपृष्वी मन्दफला जनाः कपटिनो लौल्ये स्थिताब्राह्मणाः ।मर्त्याः स्त्रीवशगाः स्त्रियश्च चपला नीचा जनाउन्नताहा कष्टं खलु जीवितं कलियुगे धन्या नराये मृताः
”इति गारुडे ११५ अध्यायः
(कार्य्यवशाज्जीवितावस्थायामपि मृतत्वं तद्-यथा, --“चतुर्थे तु मदे मूढो भग्नदार्व्विव निष्क्रियः ।कार्य्याकार्य्यविभागाज्ञो मृतादप्यपरो मृतः
”इति माधवकरकृतरुग्विनिश्चये पानात्यया-द्यधिकारे यथा ।“उत्तिष्ठोत्तिष्ठ गच्छ त्वं वद मौनं समाचर ।ये पराधीनतां यान्ति तेऽपि जीवन्ति केमृताः
”इत्युद्भटः
)