| YouTube Channel

मूलकृच्छ (mUlakRccha)

 
शब्दकल्पद्रुमः
Sanskrit
मूलकृच्छं,
क्ली,
(मूलेन तद्रमपानेन कृच्छ्रम् ।)एकादशविधपर्णकृच्छ्रव्रतान्तर्गतव्रतविशेषः ।यदा क्वथितानि वृक्षमूलानि मासं पीयन्ते तदामूलकृच्छ्रव्यपदेशं लभते यथाह मार्कण्डेयः ।“फलैर्मासेन कथितः फलकृच्छ्रो मनीषिभिः ।श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैरपरस्तथा
मासेनामलकैरेवं श्रीकृच्छ्रमपरं स्मृतम् ।पत्रैर्मतः पत्रकृच्छ्रः पुष्पैस्तत्कृच्छ्र उच्यते
मूलकृच्छ्रः स्मृतो मूलैस्तोयकृच्छ्रो जलेन तु
”इति मिताक्षरायां प्रायश्चित्ताध्यायः
(पुंलिङ्गोऽप्ययं मार्कण्डेयपुराणोक्तत्वात् ।)
वाचस्पत्यम्
Sanskrit
मूलकृच्छ
पु०
मूलेन क्वाथितवृक्षमूलेन कृच्छ्रः “मूलकृच्छ्रःस्मृतो मूलैरिति” स्मृत्युक्ते व्रतभेदे तद् यस्य ।२ तद्वति
त्रि०