| YouTube Channel

मूलकं (mUlakaM)

 
शब्दकल्पद्रुमः
Sanskrit
मूलकं,
क्ली,
पुं,
(मूल + संज्ञायां कन् ।) कन्द-विशेषः मूला इति भाषा तत्पर्य्यायः ।राजालुकः महाकन्दः हस्तिदन्तकः ।इति हारावली
नीलकण्ठम् मूलाह्वम् ६दीर्घमूलकम् अत्र दीर्घपत्रकमपि पाठः ।मृत्क्षारम् कन्दमूलम् हस्तिदन्तम् १०सितम् ११ शङ्खमूलम् १२ हरित्पर्णम् १३रुचिरम् १४ दीर्घकन्दकम् १५ कुञ्जरक्षारमूलम्१६ अस्य गुणाः तीक्ष्णत्वम् उष्णत्वम् ।कटूष्णेनाग्निदीपनत्वम् दुर्नामगुल्महृद्रोगवात-नाशित्वम् रुचिदत्वम् गुरुत्वञ्च इति राज-निर्घण्टः
*
अपि ।“बालमूलकपत्री तु रोचनी वह्निदीपनी ।मूलकं गुरु विष्टम्भि तीक्ष्णमामं त्रिदोष-कृत्
तदेव स्निग्धसिद्धन्तु पित्तलं कफवातनुत् ।शुष्कं त्रिदोषशमनं शोथघ्नं गरजिल्लघु
तत्पुष्पं कफपित्तघ्नं तत्फलं कफवातजित्
”इति राजवल्लभः
अन्यच्च ।“मूलकं द्विविधं प्रोक्तं तत्रैकं लघुमूलकम् ।शालामकटकं विस्रं शालेयं मरुसम्भवम्
चाणक्यमूलकं तीक्ष्णं तथा मूलकपोतिका ।नैपालमूलकञ्चान्यत्तद्भवेद्गजदन्तवत्
लघुमूलकमुष्णं स्याद्रुच्यं लघु पाचनम् ।दोषत्रयहरं स्वर्य्यं ज्वरश्वासविनाशनम्
नासिकाकण्ठरोगघ्नं नयनामयनाशनम् ।महत्तदेवरूक्षोष्णं गुरु दोषत्रयप्रदम् ।स्नेहसिद्धं तदेव स्याद्दोषत्रयविनाशनम्
”इति भावप्रकाशः
(तथाचास्य गुणाः ।“बालं दोषहरं वृद्धं त्रिदोषं मारुतापहम् ।स्निग्धसिद्धं विशुष्कन्तु मूलकं कफवातजित्
”इति चरके सूत्रस्थाने २७ अध्यायः
)सौरमाघे तद्भक्षणे दोषो यथा, --“मकरे मूलकञ्चैव सिंहे चालावुकन्तथा ।कार्त्तिके शूरणञ्चैव सद्यो गोमांसभक्षणम्
”इति कर्म्मलोचनम्
पौर्णमास्यान्तमाघमुपक्रम्य ।“पितॄणां देवतानाञ्च मूलकं नैव दापयेत् ।ददन्नरकमाप्नोति भुञ्जीत ब्राह्मणो यदि
ब्राह्मणो मूलकं भुक्त्वा चरेच्चान्द्रायणं व्रतम् ।अन्यथा याति नरकं क्षत्त्रो विट् शूद्र एव
तथा ।“वरं भक्ष्यमभक्ष्यञ्च पिबेद्बा गर्हितञ्च यत् ।वर्ज्जनीयं प्रयत्नेन मूलकं मदिरासमम्
”इति मलमासतत्त्वम्