| YouTube Channel

मूर्द्धा (mUrddhA)

 
Wordnet
Sanskrit
Synonyms:
मूर्धा, मूर्द्धा
noun
तालुगलशुण्डिकयोः मध्ये वर्तमानः भागः।
"हिन्दीभाषायाः वर्णमालायाः टवर्गीयाणां वर्णानाम् उच्चारणं मूर्ध्ना भवति।"
शब्दकल्पद्रुमः
Sanskrit
मूर्द्धा, [न्]
पुं,
(मूर्वति बध्नाति यत्रेति मुर्व्व +“श्वन् उक्षन् पूषन् उणा० १५८ इतिकनिन् उकारस्य दीर्घः बकारस्य धकारश्च ।)मस्तकः इत्यमरः ९५ (यथा, बृहत्संहितायाम् ७७ ।“लोहे पात्रे तण्डुलान् कोद्रवाणांशुक्ले पक्वाँल्लोहचूर्णेन साकम् ।पिष्टान् सूक्ष्मं मूर्द्ध्नि शुक्लाम्लकेशेदत्त्वा तिष्ठेद्वेष्टयित्वार्कपत्रैः
”)
मूर्द्धा, [न्]
पुं,
(मूर्व + कनिन् वस्य धःदीर्घश्चोकारस्य ।) शिरः यथा, --मूर्द्धा मूर्द्ध्वा शिरोदेशे पुंसि स्यातामिमौ समौ ।इत्युणादिकोषः
मूर्व्वीं नहे मूर्द्धा मूर्द्ध्वा अस्य धङध्वङौ ।इति तट्टीका
(यथा, देवीभागवते २८ ।“दृष्ट्वा वेणीं कृतां मूर्द्ध्नि कज्जलं लोचने तथा ।असिं गृहीत्वा तरसा छेद्म्यहं नान्यथासुखम्
”)