| YouTube Channel

मुस्तकः (mustakaH)

 
Apte
English
मुस्तकः [mustakḥ] कम् [kam] का [kā], कम् का See मुस्तः.
शब्दकल्पद्रुमः
Sanskrit
मुस्तकः, पुं
क्ली,
(मुस्त + स्वार्थे कन् ।) तृणमूल-विशेषः मुता इति भाषा तत्पर्य्यायः ।कुरुबिन्दः मेघनामा मुस्ता इत्यमरः ।२ १५९
मुस्तः राजकसेरुः इतिहारावली
मेघाख्यम् गाङ्गेयम् भद्र-मुस्तकम् इति रत्नमाला
अभ्रनामकः १०श्रीभद्रा ११ भद्रकः १२ भद्रा १३ इति शब्द-रत्नावली
अस्य गुणाः तिक्तत्वम् कटु-त्वम् वायुनाशित्वम् ग्राहित्वम् दीपनत्वञ्च ।इति राजवल्लभः
अपि ।“मुस्तकं स्त्रियां मुस्तं त्रिषु वारिदनामकः ।कुरुबिन्दश्च ख्यातोऽपरः कोरकसेरुकः
भद्रमुस्तश्च गुन्द्रा तथा नागरमुस्तकः ।मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम्
कषायं कफपित्तासतृड्ज्वरारुचिजन्तुहृत् ।अनूपदेशे यज्जातं मुस्तकं तत् प्रशस्यते ।तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकम्
”इति भावप्रकाशः
मुस्तकः,
पुं,
(मुस्तयति संहतीकरोति रुधिर-मिति मुस्त + कः ततः संज्ञायां कन् ।)स्थावरविषभेदः इति हेमचन्द्रः २५६
(यथा, सुश्रुते कल्पस्थाने ।“चत्वारिवत्सनाभानि मुस्तके द्वे प्रकीर्त्तिते
”)