| YouTube Channel

मुर्छा (murchA)

 
Hindi
Hindi
मन - बेहोशी
धातुप्रदीपः
Sanskrit
मुर्छाँ मुर्च्छा मोह, समुच्छ्राययोः
- मूर्च्छति मूर्तः मूर्तवान् ध्याख्या (8/2/47) इति निष्ठानत्वनिषेधः मूर्च्छितमनेन मूर्तमनेन प्रमूर्तः प्रमूर्च्छितः मूर्च्छा तदस्य सञ्जातं तारकादिभ्य इतच् (5/2/33) मूर्च्छितः।। 209 ।।
क्षीरतरङ्गिणी
Sanskrit
मुर्छाँ मुर्छा मोह, समुच्छ्राययोः
- मूर्छति, मूर्छा ध्याख्यापॄमूर्छिमदाम् (8257) इति निष्ठानत्वं नास्ति, मूर्तः क्तिन् निष्ठावत् (द्र0 का0 3394) मूर्तिः, मूर्छितमनेन, मूर्तम्, प्रमूर्छितः, प्रमूर्तः संमूर्छित इति तारकादित्वात् (द्र0 5236) इतच् 209
धातुवृत्तिः
Sanskrit
मुर्छाँ मूर्छा (अर्थः) मोह, समुछ्राययोः
( मूर्छति ) हूर्छिवत् विशेषस्त्वनिटो निष्ठायां "न ध्याख्यापॄमूर्छिमदाम्'' इति नत्वनिषेधः ( मूर्त्तः मूर्त्तवान् मूर्त्तमनेनेत्यादि मूर्छास्य सञ्जातोपाधिकादस्येत्यर्थादितच् 210
कृदन्तरूपमाला
Sanskrit
1 {@“मुर्छा मोहसमुच्छ्राययोः”@} 2 मूर्छकः-र्छिका, मूर्छकः-र्छिका, मुमूर्छिषकः-षिका, मोमूर्छकः-र्छिका
मूर्छिता-त्री, मूर्छयिता-त्री, मुमूर्छिषिता-त्री, मोमूर्छिता-त्री
इत्यादीनि 3 सर्वाणि रूपाणि भौवादिककूजतिवत् 4 बोध्यानि।
5 मूर्तम्-मूर्तः-मूर्त- वान्।
क्विपि, मूः-मूर्छौ-मूर्छः
क्तिनि 6 मूर्तिः, 7 मूर्छितः, 8 मूर्छा, इत्यादीनि रूपाण्यस्य धातोः विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१२८८)
02
=>
(१-भ्वादिः-२१२। अक। सेट्। पर।)
03
=>
[पृष्ठम्१०४०+ २७]
04
=>
(२३९)
05
=>
[[१। निष्ठायाम्, ‘न ध्याख्यापॄमूर्छिमदाम्’ (८-२-५७) इति नत्वनिषेधे रूपमेवम्। ‘राल्लोपः’ (६-४-२१) इति छकारस्य लोपः। दीर्घः।]]
06
=>
[[२। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति क्तिचि रूपमेवम्।]]
07
=>
[[३। मूर्छाऽस्य सञ्जाता इत्यर्थे ‘तदस्य सञ्जातं तारकादिभ्य इतच्’ (५-२-३६) इतीतच्- प्रत्यये रूपम्।]]
08
=>
[[आ। ‘अहूर्णचित्ताः परिमूर्छितव्रताः स्फूर्णामया अप्रयुशः कृतोञ्छनाः।’ धा। का। १-२९।]]