| YouTube Channel

मुडि (muDi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मुण्ड्
मूलधातुः:
मुडि
धात्वर्थः:
खण्डने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
मुण्डति
धातुः:
मुण्ड्
मूलधातुः:
मुडि
धात्वर्थः:
मार्जने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
मुण्डते
धातुप्रदीपः
Sanskrit
मुडिँ मुडि मार्जने
- मुण्डते मुखम् मुण्डनम् मुण्डतीति खण्डने वक्ष्यति ।। 272 ।।
मुडिँ मुडि खण्डने
- मुण्डति मुण्डः उकारवत्पवर्गादिप्रकरणाद् इहायं निर्द्दिश्यते मडि भूषायामिति उकारवान्न भवतीति डकारान्तोऽप्यकारवत्त्वादादौ निर्द्दिष्टः ।। 326 ।।
क्षीरतरङ्गिणी
Sanskrit
मुडिँ मुडि मज्जने
- (अर्थविवरणम्) मज्जनं शुद्धिर्न्यग्भावश्च
मुण्डते मुण्डः मुडि खण्डने (1223) परस्मैपदी-मुण्डति मुण्डमिश्र (3121) इति णिच्-मुण्डयति 268
मुडिँ मुडि प्रमर्दने
- मुण्डति मुण्डः मुट इति दुर्गः मोटति, मुटित्वा, मोटित्वा मुटितः, मुटितम्, प्रमुटितः प्रमोटितः अमोटनम् चुरादौ (तु0 1066) मोटयति पुडि इत्येके-पुण्डति पुण्डरीकम् पुण्ड्रेक्षुः, त्रिपुण्ड्रकम्, पुण्ड्रोऽश्वतिलकम् पुण्ड्रा देशः 317
मुडिँ मुडि खण्डने
-अर्थभेदात् (द्र0 1178) पुनः पाठः अत एव मुडि खण्डनप्रमर्दनयोरिति कण्ठः मुटि इति कौशिकदुर्गौ मुण्टति
धातुवृत्तिः
Sanskrit
मुडिँ मुडि (अर्थः) मार्जने
शुद्धिन्यग्भावौ मार्जनम् मुण्डतइत्यादि खण्डनार्थः परस्मैपदिषु 272
मुडिँ मुडि (अर्थः) खण्डने
मुण्डतीत्यादि मुण्डः तं करोतीति ( मुण्डयति ) "मुण्डमिश्रश्लक्ष्णलवण्व्रतवस्त्रहलकलकृतस्तूस्तेभ्यो णिच्'' इति करोत्यर्थे णिचि णाविष्ठवदिति टिलोपः ( यवनमुण्डः काम्बोजमुण्डः ) मयूरव्यंसकादित्वादिविशेषणस्य परनिपातः अत्र मैत्रेयः पुडि चेत्येके ( पुण्डति पुण्डः पण्डरीकमिति) डकारवत् पवर्गादिप्रकरणादिहायं निर्दिष्यते, मुडि भूषायामित्युकारवन्न भवति इति डकारान्तोप्यकारवत्त्वादादौ निर्दिष्ट इति मैत्रेयः अत्र शुठि खण्डनप्रमर्दनयोरिति क्वचिद्धातुकोशे पठ्यते मैत्रेयादयस्तु पठन्ति तत्राद्यपाठ एव ज्यायान्यदिहैवाग्रे शुठि शोषणइति भविष्यति, अस्मिन् हि सति तस्य रूपाभेदाद् शोषाणग्रहणमपीहैव कर्त्तव्यं स्यात् 322
कृदन्तरूपमाला
Sanskrit
1 {@“मुडि मार्जने”@} 2 मार्जनम् = शुद्धिर्न्यग्भावश्च।
‘--मञ्जने’ इति क्षीरस्वामी।
“-- ‘मञ्जने’ इति काशकृत्स्नधातुपाठीयकन्नडटीकायां 3 पाठः।
मञ्जनम् = स्नानम् इत्यपि तत्रैव।” इति क्षी-टीका।
‘मुण्डते मार्जने खण्डेः, खण्डने शपि मुण्डति।।’ 4 इति देवः।
मुण्डकः-ण्डिका, मुण्डकः-ण्डिका, मुमुण्डिषकः-षिका, मोमुण्डकः-ण्डिका
मुण्डिता-त्री, मुण्डयिता-त्री, मुमुण्डिषिता-त्री, मोमुण्डिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककुण्ठतिवत् 5 ज्ञेयानि।
अस्य धातोः आत्मनेपदित्वात् मुण्डमानः, मुण्डिष्यमाणः, मुमुण्डिषमाणः, मुमुण्डिषिष्यमाणः
इति शानचि रूपाणि इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२८२)
02
=>
(१-भ्वादिः-२७५। सक। सेट्। आत्म।)
03
=>
(पृष्ठ १००)
04
=>
(श्लो। ८३)
05
=>
(२०९)
1 {@“मुडि खण्डने”@} 2 ‘मुण्डते मार्जने मुण्डेः, खण्डने शपि मुण्डति।।’ 3 इति देवः।
4 अर्थभेदात् पुनः पाठः।
“अत एव, ‘मुडि खण्डनप्रमर्दनयोः’ इति भोजदेवः।
‘मुटि’ इति कौशिकदुर्गौ-मुण्टति।” इति क्षीरतरङ्गिण्याम्।
‘मुड’ इति धा।
का।
व्याख्यायाम् 5।
मुण्डकः-ण्डिका, मुण्डकः-ण्डिका, मुमुण्डिषकः-षिका, मोमुण्डकः-ण्डिका
मुण्डिता-त्री, मुण्डयिता-त्री, मुमुण्डिषिता-त्री, मोमुण्डिता-त्री, इत्यादीनि सर्वाणि रूपाणि भौवादिककुण्ठतिवत् 6 बोध्यानि।
7 मुण्डयन्-न्ती, 8म्बोजमुण्ड इत्यादिष्वपि।]] यवनमुण्डः-का9म्बोजमुण्डः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२८३)
02
=>
(१-भ्वादिः-३२६। सक। सेट्। पर।)
03
=>
(श्लो। ८३)
04
=>
[पृष्ठम्१०३८+ २६]
05
=>
(१-४२)
06
=>
(२०९)
07
=>
[[१। मुण्डं करोतीत्यर्थे, ‘मुण्डमिश्र--’ (३-१-२१) इत्यादिना णिच्। ‘सनाद्यन्ता धातवः’ (३-१-३२) इति धातुसंज्ञायां शतरि रूपमेवम्।]]
08
=>
[[२। मुण्डो यवन इव इति समासे मयूरव्यंसकादित्वात् (२-१-७२) विशेषणस्य परनिपातः। एवं का[क]
09
=>
[क]