| YouTube Channel

मुखतीयं (mukhatIyaM)

 
शब्दकल्पद्रुमः
Sanskrit
मुखतीयं, त्रि, (मुखस्य इति मुख + तसिल् ।मुखतः ततः “मुखपार्श्वशब्दाभ्यां तसन्ताभ्या-मीयप्रत्ययो वक्तव्यः ।” ६० इत्यस्य वार्त्ति-कोक्त्या ईयः “मुखपार्श्वतसोर्लोपश्च ।”४ १३८ इत्यत्र काशिकोक्तेश्च टिलोपः ।)मुखसम्बन्धि इति सिद्धान्तकौमुदी