| YouTube Channel

माहिनं (mAhinaM)

 
शब्दकल्पद्रुमः
Sanskrit
माहिनं,
क्ली,
(मह्यते पूज्यते अस्मिन् इति ।मह् + “महेरिनण् ।” उणा० ५६ ।इति इनण् ।) राज्यम् इत्युणादिकोषः
(मंहनीये, त्रि यथा, ॠग्वेदे ३६ ।“इन्द्र ! यत्ते माहिनं दत्रमस्ति ।”“माहिनं मंहनीयम् ।” इति तद्भाष्ये सायणः
प्रवृद्धे यथा, तत्रैव ५६ ।“इन्द्र ! सदनेषु माहिनः ।”“माहिनः प्रवृद्धः ।” इति तद्भाष्ये सायणः
)