| YouTube Channel

माष्यं (mASyaM)

 
शब्दकल्पद्रुमः
Sanskrit
माष्यं,
क्ली,
(माषाणां भवनं क्षेत्रम् माष +“विभाषा तिलमाषोमाभङ्गाणुभ्यः ।”५ इति यत् पक्षे खञ् ।) माषक्षेत्रम् ।यथा, --“तिल्यतैलीनवन्माषोमाणुभङ्गाद्द्विरूपता ।”इत्यमरः
यथा तिलस्य क्षेत्रं तिल्यं तैलीनञ्च भवति तथामाषादीनामपि द्बिरूपता द्वैरूप्यं भवति इतितट्टीकायां भरतः