| YouTube Channel

माल्यं (mAlyaM)

 
शब्दकल्पद्रुमः
Sanskrit
माल्यं,
क्ली,
(मालेव माला + चतुर्व्वर्णादित्वात्ष्यञ् ।) पुष्पम् पुष्पस्रक् इति मेदिनी ।ये, ४५
पुष्पार्थकमाल्यशब्दस्य प्रयीगो यथा, “यथा चाल्पेन माल्येन वासितं तिलसर्षपम् ।न मुञ्चति स्वकं गग्धं तद्वत् सूक्ष्मस्य दर्शनम्
”इति महाभारते मोक्षधर्म्मे १०५ अध्यायः
मूर्द्ध्व्नि न्यस्तपुष्पदाम इत्यमरः १३५
अस्य पर्य्यायादिर्मालाशब्दे द्रष्टव्यः
*
(पुष्पस्रगर्थे गुणा यथा, --“वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिबलप्रदम् ।सौमनस्यमलक्ष्मीघ्नं गन्धमाल्यनिषेवणम्
”इति चरके सूत्रस्थाने पञ्चमेऽध्याये
)माल्यदानफलं यथा, --“गन्धमाल्यैरलङ्कारैस्तुष्टा हृष्टाश्च नित्यशः ।गन्धमाल्यप्रदा ये तु दाननिश्चयतत्पराः
धर्म्मज्ञाः सत्यशीलाश्च सर्व्वदुःखविवर्ज्जिताः ।सुचिरं दैवतैः सार्द्धं क्रीडन्ति हि महामुने !
”इति वह्निपुराणम्
अपि नारसिंहे ।“जातीपुष्पसहस्रेण यच्छेन्मालां सुशोभनाम् ।वैष्णवो विधिवद्भक्त्या तस्य पुण्यफलं शृणु
कल्पकोटिसहस्राणि कल्पकोटिशतानि ।वसेद्बिष्णुपुरे श्रीमान् विष्णुतुल्यपराक्रमः
जातीपुष्पकृतां मालां कर्पूरपटवासिताम् ।निवेद्य देवदेवाय यत्फलं प्राप्नुयान्नरः ।न तद्बर्णयितु शक्यमपि वर्षशतैरपि
स्कान्दे ।मालतीकलिकामालामीषद्विकसितां हरेः ।दत्त्वा शिरसि विप्रेन्द्र ! वाजिमेधफलं लभेत्
तत्रैव ।मालतीमालया विष्णुः पूजितो येन कार्त्तिके ।पापाक्षरकृतां मालां पटात् सौरिः प्रमार्ज्जति
सौरिर्यमः विष्णुरहस्ये ।स्वर्णलक्षाधिकं पुष्पं माला कोटिगुणाधिका
इति श्रीहरिभक्तिविलासे विलासः
*
माल्यगलस्य बहिर्गमननिषेधो यथा, --“बहिर्माल्यं बहिर्गन्धं भार्य्यया सह भोजनम् ।विसृज्य वादं कृत्वा वा प्रवेशञ्च विवर्जयेत्
”इति कूर्म्मपुराणे उपविभागे १५ जध्यायः
*
स्वयं माल्यापकर्षणनिषेधो यथा, --“नाश्नीयात् सन्धिवेलायां गच्छेन्नापि संवि-शेत् ।न चैव प्रलिखेद्भूमिं नात्मनोपहरेत् स्रजम्
”इति मानवे अध्यायः
मालां धृतां स्वयमेवापनयेत् अर्था-दन्येनापनयेदित्युक्तम् इति कुल्लूकभट्टः
*
केशवाह्ये माल्यधारणनिषेधो यथा, --“नहि गर्ह्यकथां कुर्य्यात् बहिर्माल्यं धार-येत् ।गवाञ्च यानं पृष्ठेन सर्व्वथैव विगर्हितम्
”इति मानवे अध्यायः
केशकलापाद्वहिर्माल्यं धारयेदिति कुल्लूक-भट्टः
*
स्वयं माल्यधारणनिषेधो यथा, --“स्वयं माल्यं स्वयं पुष्पं स्वयं घृष्टञ्च चन्दनम् ।नापितस्य गृहे क्षौरं शक्रादपि हरेत् श्रियम्
इति कर्म्मलोचनम्
*
माल्यचन्दनदानविधिर्यथा, --“आमन्त्रयित्वा यो विप्रान् गन्धमाल्यैश्च मानवः ।तर्पयेच्छ्रद्धया युक्तः मामर्च्चयते सदा
”इति वह्निपुराणम्