| YouTube Channel

मालादूर्व्वा (mAlAdUrvvA)

 
शब्दकल्पद्रुमः
Sanskrit
मालादूर्व्वा,
स्त्री,
(माला इव ग्रन्थियुक्ता दूर्वा ।)दूर्व्वाविशेषः गाठिया दूर्व्वा इति भाषा ।तत्पर्य्यायः वल्लिदूर्व्वा अलिदूर्व्वा माला-ग्रन्थिः ग्रन्थिला ग्रन्थिदूर्व्वा शूलग्रन्थिः ७वेल्लनी ग्रन्थिमूला रोहत्पर्व्वा १० पर्व्व-वल्ली ११ शिवाख्या १२ अस्या गुणाः ।मुमधुरत्वम् तिक्तत्वम् शिशिरत्वम् पित्त-दोषप्रशमनत्वम् कफवान्तितृषापहत्वञ्च ।इति राजनिर्घण्टः